श्रियै नमः
श्री श्रीनिवासाय नमः
वेदान्तनिलयः श्रीमान् कल्याणगुणसागरः ।
भक्तप्रियो जगन्नाथः श्रीनिवासोऽस्तु मे हृदि ॥
आदौ कल्पप्रवक्तृभ्यः श्रौतस्मार्तादिकर्मणाम् ।
वैखानसमहर्षिभ्यो वंशर्षिभ्यो नमो नमः ॥
ग्रन्थपरिचयः
भो भो महाशयाः!
अथ तापत्रयातुरैरमृतत्वाय श्रीमहाविष्णुरेव समाराध्य इति निखिल-
प्रमाणराजवीथीप्रतिपन्नोऽयं विषयः - तत्र प्रमाणेषु वेदस्तावत् प्रमाण-
सार्वभौमः, यतो ह्यलौकिकार्थबोधकस्सः। प्रमाणान्तरैरनधिगतमप्यर्थं
प्रबोधयितुमीष्टे। न तथेतराणि प्रमाणानि। अलौकिकत्वं हि प्रमाणान्तर-
व्यावर्तकत्वमेव । अनुभूयमानात् स्रक्चन्दनादेरिष्टमवगमयति प्रत्यक्षम् ।
स्वेनानुभविष्यमाणात्पुरुषान्तरगताच्च तस्मात्तदवगमयत्यनुमानम् । खेदात् स्त्रीषु
प्रवृत्तिर्भवति । समानश्च खेदविगमः गम्यायामगम्यायाञ्च । तत्रेयं गम्या
इयमगम्या इति योऽयं नियमः क्रियते स च तेनैवेति महाभाष्यकारः ।
अपि च तेन विना केनचिदपि कश्चिदपि यागादेरिष्टप्राप्तिं कलञ्जमक्षण-
वर्जनादेरनिष्टपरिहारञ्च न विजानाति-तथा प्रमाणान्तर सहस्रेणापि सहस्रं
वा न विजानीयादिति वेदभाष्यकारः । अत एव ‘तर्काप्रतिष्ठात्’
‘शास्त्रयोनित्वात्’ इति सूत्रयति पाराशर्यः । अतीन्द्रियार्थद्रष्टारस्सत्यवचसस्ते
महर्षयः’ न ह्यन्यथा वक्तुमभिप्रयन्ति । अत एव ह्याप्ता भवन्ति यथार्थदर्शिनः।
यथार्थवादिनश्चाप्ता भवन्तीति प्रमाणसरणिः ।
xv
तथाविधः प्रमाणसार्वभौमो वेदः भगवदाराधनौपयिकः स भागद्वयात्मना
चकास्ति । तत्र प्राधान्येन पूर्वो भागस्तावदमूर्ताराधनौपयिकः, उत्तरो
भागस्तावत् समूर्ताराधनौपयिकः । समाराधनञ्च जपहुतार्चनध्यानरूपैश्चतुर्धा
अवतिष्टत इति महर्षयः । अत्रैवान्तर्भावस्त्वितरयोरित्यन्ये । तत्रेवान्तर्भाव-
स्तेषामित्यपरे। समीक्षायां सम्पन्नमेव सर्वमिति परे। अस्तु नामैतत्। एतच्च
करणत्रयैकप्राधान्येनेति प्राचामाशयः । तथापीतरयो - रत्रान्वयस्सम्भवत्येव।
अन्तिमेत्वितरयोरप्रवेशः । अनुभवात् । अतः परिशेषात्तस्यैव प्रधानस्य
प्रवेशः । यतो हि तेन विना संसर्ग नोन्मिषति प्रत्ययः । प्रत्ययान्तरन्तु
इतरापेक्षमपि भवतु । तावता न हि किं नश्छिन्नम्? प्रत्ययविशेषरूपञ्चेदं
तदेकसाध्यं भवति । प्रत्ययविशेषस्य सजातीय प्रवाहात्मकतायामेव
स्वरूपसिद्धिर्भवति । नेतरधा विजातीय प्रत्ययान्तरितत्वे भवति । तच्च
प्रधानं प्रतिकलमर्थान्तरस्पर्शनशीलं नातस्तत्प्र-वाहरूपतायास्सौलभ्यम् ।
अत एव महर्षयः तार्तीयस्यैव श्रैष्ठ्यमज्ञासिषुः। ‘सदा ध्यातुमशक्यत्वात्’
इत्यादिना । तथाऽवादिषुश्च । अत एव समासव्याससाधारण्येन सर्वमपि
समालोड्यैवास्याव्यवहितोपायतां निश्चिनोति भाष्यकारः । एवञ्च
तार्तीयमाराधनं नान्तरीयकतया दिव्यमङ्गलविग्रहमन्तरा न सिद्ध्यतीति
समूर्तसंसिद्धिः । अन्यथा न सम्भवति पत्रादिप्रदानम् । उपहृतं भक्त्या
तदेव भोग्यतायामन्तरङ्गमिति हि भगवद्वचनम् । तथा चात्रालम्बने रम्ये
सति दृष्टिर्बद्ध्यते, यदा बन्धस्तस्यास्तदा मनसोऽपीत्यार्थिकः । ततः
प्रत्ययान्तरस्यापि । ‘ता राघव’मिति न्यायात् । ततस्समुल्लसति
प्रीतिरात्यन्तिकी । ततस्सा चास्पृशन्ती विषयान्तरं तदेकतानतां लभेत ।
उत्कटतां प्राप्ता चेत्सा सर्वत्रापि कलयेत्सारूप्यम् । ‘सा सा सा’ सेति
न्यायात् । अत एव तां तथाभूतां याचते प्रह्लादोऽपि ‘या प्रीति’रिति ।
अतस्सौलभ्यं चातुर्थिकात् । श्रैष्ठ्यञ्च तत्कार्यकरत्वात् । अत एव
xvi
तस्याप्यङ्गभावं सञ्जगदिरे ह्यनुभोक्तारो महर्षयः । आचार्यपादास्तु
एतत्सर्वमपि समालोच्यैव संसिद्धिसाधकतामस्यैवानुजगृहुरिति न नापरोक्षं
विदुषाम् । न स्यादत्राङ्गाङ्गि भावपरिकल्पनेऽन्यथा भावः । स चायमार्षः
पन्थाः । आर्षमतानुरोधेनार्थपरिकल्पने न कापि विप्रतिपत्तिः । अपि च
भगवानेवात्र प्रमाणम् । अतः को वा न विश्वसेत् । सर्वत्रापि तदनुरोधेनैव
खलु सिद्धान्तः कर्तव्यः । भवतु वाऽन्यत्र विप्रतिपत्तिः । नात्र विप्रतिपत्तिं
कोऽपि प्रब्रूयात् । तत्र तत्र भगवद्वचनं तदेव प्रबोधयितुमीष्टे । तत्राप्यन्य-
योगव्यवच्छेदपरश्चैवकारोऽपि सन्दृश्यते। अन्यस्य व्यवच्छेद अस्यैव खलु
प्राधान्यं सम्भवति। तदेवोद्घाटयति गीतान्तिमं भगवद्वचनम्। अन्यथा जागर्ति
सिद्धान्तव्याकोपः, भगवद्वचनविरोधश्च । महर्षयस्तदुक्तिमेव प्रमाणयन्तः
स्वाभिमतं प्रकाशयन्ति । तच्चाभिमतं तेनाप्यनुमतमित्येव जानन्ति । भगवानपि
स्वाभीष्टेषु तत्तदिच्छायाः प्राधान्यमभ्युपगच्छतीत्यतो नार्गलगन्धः।
ततस्तथाविधे चास्मिन् तदाराधनौपयिकाः पूर्वकालीनाः तदौपयिका-
श्चोत्तरकालीनाश्च विषया निगमवचोभिरनुज्ञाताः प्रतीक्षमाणा विवृति-
मागमवचोभिः सफलीकृताः । तत्राभ्यर्हिततमं शास्त्रं श्रीवैखानसमित्येव
प्रामाणिका । यतो हि वर्णत्रयसमारूढाः महर्षयस्तदेवाभिप्रयन्ति ।
ताद्रूप्येणाख्यातास्संहिताश्चतुर्भिर्महर्षिभिरुपदिष्टाः चरितक्रियाज्ञा-
नयोगरूपविषयप्रबोधनपराश्च भवन्ति । सर्वाश्चेमाः श्रीसूत्रैकदेशविवरणरूपा
इति प्रात्यक्षिकम् । चतुर्विधे निगमे काण्डमण्डलार्चिकादिभेदकप्रवृत्तिरिव
चतुर्विधेऽस्मिन्नागमेऽपि काण्डाधिकारतन्त्रादिभेदकप्रवृत्तिरिति प्राचीनाः ।
नियममेवात्र परिपालयन्ति यमिन इति न हेतुवादः फलायत्तः, अशोकवनिका-
न्यायग्रस्तत्वात् । किञ्चास्मिन् चतुर्विधेऽप्यागमे श्रौतमार्गसमारूढानि
सप्तविंशतिसङ्ख्याकान्यार्षाण्याचार्यभावानुबन्धीनि प्रवृत्तानीति विद्वांसः ।
अत्र स्वयूथकलहस्तु निर्निबन्धनः । सर्वत्र विषयाणां षाडिध्येऽपि न
xvii
पौनक्त्यप्रसक्तिः । विषयान्तरविभेदात् भवत्येव चारितार्थ्यम्, पौराणिकवत्।
अविशेषपुनश्श्रवणादयस्तु प्रतिपत्तृविभेदनिबन्धनास्सन्तोऽलङ्कुर्वन्ति तत् ।
वस्तुतस्तु वक्तृप्रष्ट्टकालादि - भेदादेकस्मिन्नपि विषये प्रवृत्तिनैयत्येन
विशेषविभूषिता सत्याप्नोत्येव साफल्यमिति सुस्थः पन्थाः । एवञ्चैतच्छास्त्रं
श्रीवैखानसस्य महर्षेरनुग्रहाल्लब्धात्मोज्जीवनाश्चत्वारोऽपि महर्षयः ॠषीणां
स्वाभिमत परसाधनस्य साधनविषयफलविशेषजिज्ञासया प्रवर्तयामासु-
रिष्यमाणसम्पादनेन तस्याः साफल्यं गमयामासुः।
तत्र चेममधिकारमादावुपदिशन्ननुक्ताधिकारतायाऽन्यत्र सम्मानयति
भगवान् भृगुः । न हि तथाऽयं सम्मानयतीत्युत्पश्यामः । तदुपदेशानु-
भवयोरान्तरः काल एव सर्वं सम्पादयतीत्यागमवेदिनः । किञ्चाय-
मागमश्चतुर्विधोऽपि सङ्ख्यया बद्धः ।अवान्तरग्रन्थस्तु न तथा बद्धः । बद्ध
इति केचित् । अन्यथा बद्ध इत्यपरे । वैषम्येण बद्ध इत्यन्ये । वैरूप्येण
बद्ध इति परे । एवञ्च बहुधाऽत्रान्यत्र च विप्रतिपत्तयस्सन्तिष्ठन्ते ।
समाधयश्चापि बहुधाऽवतिष्ठन्ते । उपेक्षणीयास्सर्वा इति महान्तः
अतस्सर्वत्राप्यत्र महर्षय एव प्रमाणमिति जोषमातिष्ठामहे ।
अत्रायं विशेषः । वर्णाश्रमधर्मकर्मणामपि मूर्धन्यतयाऽभिमतेन
भगवदाराधनकर्मणा कर्मभूमित्वेन पुलस्त्यवसिष्ठवरप्रदानलब्धपारमार्थ्य-
वेदिभिः पराशरमहर्षिभिः विनिश्चितेऽतिसौलभ्येन मोक्षप्रदान चतुरेऽस्मिन्
भारते देशे श्रुत्युपगीयमानवैभवस्य अखिलाण्ड कोटिब्रह्मण्डनायकस्य
श्रीवेङ्कटाचलनिवासरसिकस्य श्रियःपत्युरर्चावतारधारिणे दिव्यमङ्गलविग्रहस्य
श्रीनिवासस्य भगवतः समाराधनाय तेनैवानुगृहीतं सदेतच्छास्त्रं
विजयतेतरामिति । एवञ्च ‘विष्णवे चार्चत’ इत्यादिवेदप्रमाणविवरणपरेण
ब्रह्मणसदृशेण वेदोभयभागावलम्बनशीलेन श्रीसूत्रेण अनादिसंसार -
प्रवाहसमापति तनिखिलचेतनोज्जिजीविषयाऽनुगृहीतस्य चरमपुरुषार्थ-
xviii
साधनस्य भगवतः श्रीमहाविष्णोराराधनस्य पूर्वोत्तराङ्गैस्सह विवरणपरासु
षड्विधविषय विशेषविभूषितासु आचार्योपदेश पारमार्थ्यपरिकर्मितासु संहितासु
श्रीवैखानसशास्त्रत्वेन प्रख्यातासु अनुक्ताधिकारतया सम्प्रतिपन्नं
परिपूर्णञ्चेममधिकारमनुगृह्याज्ञाताननश्वरपदप्राप्ति सुलभानमूल्यानंशान्
ज्ञापयन्महर्षिः कुलतिलको भगवान् भृगुस्तदा मन्दरे ॠषीणामिव इदानीमत्र
कं नाम न चकारोपकारमस्माकमित्यधमर्णाः सर्वधा सर्वदा वयं तत्रेति
विदां कुर्वन्तु ।
इति
सुधीजनविधेयः
महाविद्वान्, पण्डित, वेदान्तं जगन्नाथाचार्यः
तिरुमल तिरुपति देवस्थान आस्थानपण्डितः
१९.१०.६१
प्लव विजयदशमी
तिरुमल ।
xix