बहुविधापूर्वविषयसमुच्चयविलासविलसितः ‘‘खिलाधिकारः’’ तत्रभवद्भिः
वैयाकरणपञ्चाननेत्यादि नानाबिरुदाङ्कितैः श्रीमान् रोम्पिचर्ल पार्थसारथि
भट्टाचार्यपादैः परिष्कृतः। एवं १९६१ वत्सरे प्रथमवारं तिरुमल तिरुपति
देवस्थानद्वारा मुद्राप्य प्रकाशितः। ततःपरम् अस्य द्वितीयं संस्करणं १९९७
वत्सरे तत्र भवतां श्रीमतां पण्डितप्रवराणां वेदान्तं जगन्नाथाचार्यवर्याणाम्
आमुखेन साकम् अदृश्यत। अस्य पुनर्मुद्रणं २०१८ वत्सरे अभूत्। बहुभिः
प्रार्थितस्य दुष्प्रापस्यास्य खिलाधिकारस्य चतुर्थं संस्करणमुन्नेतुं कृतधियां
तत्परिष्करणकार्यमस्मासु विन्यस्य उपकृतवतां ति.ति.दे. श्रीकार्यनिर्वहणाधि-
कारिणां डा. के.यस्. जवहररेड्डिमहोदयानां कृते कार्तज्ञमाविष्क्रियते।
परिष्करणकर्मणि सहकृतवद्भ्यः आचार्य वेदान्तं श्रीविष्णुभट्टाचार्य,
गोपालकृष्णमाचार्य, श्रीनिवासदीक्षित, श्रीनिवासाचार्यमहाभागेभ्यः
अभिनन्दनानि वितनोमि। तथैव प्रसङ्गेऽस्मिन्, परिष्करणविधौ पण्डित
वेदान्तं जगन्नाथाचार्य तनूभवानां श्रीविष्णुभट्टाचार्याणां योगदानं न कदापि
विस्मरणीयमिति विज्ञाप्य विरमामि विस्तरात्।
vii