०२ सम्पादकीयं २०२१

कारुणिकेन महर्षिणा भृगुणा प्रणीतानाम् ‘अधिकार’ग्रन्थानां मध्ये

विषयगरिम्णा ‘‘खिलाधिकारः’’ प्रमुखं स्थानमावहति। त्रिचत्वारिंशदध्या-

यात्मकेऽस्मिन् ग्रन्थे ॠषिप्रश्नोत्तरमादाय स्नपनविधिपर्यन्तं भगवत्कैङ्कर्यविधिः

समग्रं प्रादर्शिषत। विशेषेण - षष्ठेऽध्याये निरूपिताः द्वात्रिंशत्सङ्ख्याकाः

विमानभेदाः, चतुर्दशाध्याये निरूपिताः प्रतिमावयवभेदाः, पञ्चदशाध्याये

प्रोक्ताः परिषद्देवताः, षोडशाध्यायोक्ताः यज्ञाङ्गपात्रादिविशेषाः, पञ्चविंशाध्याये

प्रपञ्चिताः देव-ॠषि-पितृ-दानवासुर-गन्धर्वप्रभृतिगणविशेषाः इत्यादयः

पठितॄणामाश्चर्यं जनयन्ति। चतुस्त्रिंशदध्यायादारभ्य नानाप्रकाराः प्रायश्चित्त-

विशेषाः समलिख्यन्त।
ग्रन्थस्यास्य अनुबन्धे वाग्देवीकल्पः, दुर्गाकल्पः इत्यादयः विषयाः

समयोज्यन्त। भृगुमहर्षिः ज्येष्ठादेव्याः उल्लेखं परिषद्देवतासु विधाय

एकादशश्लोकैः तस्याः वर्णनं, स्तुतिं च विधत्ते। काश्मीरेषु ज्येष्ठादेव्याः

मन्दिरमद्यापि विराजते। लक्ष्मीदेव्याः इयमग्रजा इति, सा सकलविद्यानाम्

अधिष्ठात्री इति च तद्देशवासिनां सम्प्रदायः। सरस्वती इति नाम्ना अत्र

प्रसिद्धैव। तत्र ज्येष्ठेति नाम्ना पूजां लभते।

vi

तिरुपतिः

२७-०९-२०२१

वन्दारुः

वेदाचार्य सन्निधानं सुदर्शनशर्मा

कुलपतिः