द्वितीयोऽनुवाकः
यो वा गविष्ठः परमः प्रधानः पदं वा यस्य सत्त्वमासीत् यस्योपरि त्वं मुनयो न पश्यन्ति तस्मै मुख्याय विष्णवे स्वाहा ॥ १ ॥
[[११४]]
व्याख्या
यो वा गविष्ठ इत्यादि पञ्चमन्त्राननुक्रमात् पञ्चोपनिषन्मन्त्रे यः परमात्मा गविष्ठः भूमिस्थः अवकाशप्रदः । यद्वा चराचरात्मकेषु लोकेषु आकाशरूपेण स्थितः । परमः व्याप्त्या परमः प्रधानः पञ्चभूतेषु प्रधानः कारणभूतः । पदं वा यस्य सत्त्वमासीत् यस्याकाशस्य पदमुत्पत्तिस्थानं त्वमेवासीत् । आसीदिति छान्दसः । यस्य परमात्मनस्तव उपरि त्वं मुनयो न पश्यन्ति । मननशीलो मुनिः नारायणपारायणो निर्द्वन्द्वो मुनिरिति वा मुख्याय तस्मै विष्णवे तुभ्यम् ॥ १ ॥
यो वा वायुर्द्विगुणोऽन्तरात्मा सर्वेषामन्तश्वरतीह विष्णोः स त्वं देवान् मनुष्यान् मृतान् परिसञ्जीवसे स्वाहा ॥ २ ॥
व्याख्या
यः परमात्मा वायुः महाभूतचतुर्थः । द्विगुणः शब्दस्पर्शवान् इति । द्वौ वायोरिति अन्तरात्मा व्याप्तः । सर्वेषामन्तश्चरतीह प्रकृतिमण्डले विष्णोः स वायुः त्वं देवान् मनुष्यान् मृतान् परिसञ्जीवसे देवान् वर्धयसि मृतान् मनुष्यान् सान्दीपनीपुत्रब्राह्मणपुत्रादीन् सञ्जीवसे तुभ्यम् ॥ २ ॥
त्वमग्ने त्रिगुणो वरिष्ठः परं ब्रह्म परं ज्योतिः सर्वेषां त्वं पालनाय हुतममृतं वहिष्यसे स्वाहा ॥ ३ ॥
व्याख्या
हे अग्ने त्वं त्रिगुणो गन्धरसविहीनास्त्रयोरिति वरिष्ठः श्रेष्ठः परंब्रह्म परञ्ज्योतिः “अग्निः सर्वा देवताः" इति श्रुतिः । सर्वदेवात्मकत्वात्परंब्रह्मशब्दप्रयोगः । प्रलयकालापेक्षया उत्कृष्टज्योतिः । सर्वेषां देवमनुष्यादीनां त्वं पालनाय रक्षणाय हुतममृतं वहिष्यसे । अमृतरूपेण सर्वेषां प्रापयिष्यसि । त्वया हुतममृतरूपेण कलाद्वारेण प्रापयिष्यसि । श्रीवैखानससूत्रे “यथावास्य सुषुम्ना ज्योतिष्मती प्राणाहुती रेतोधाः” इत्येता आहुतीर्गृहीत्वा
[[११३]]
रश्मयश्चतस्रः पृश्नौ सन्दधीरन् सह वा शुद्धा अमृतावहाचीनुहि दिव्यालोकपावनीत्येताभिश्चन्द्रमसमाप्याययत्यसौ नु राजा सोम आप्यायितो मूलगामीव पायान्नस्यमृतोद्गारिसुरप्रिया
इत्येताभिरमृतेन तां देवतां तर्पयति । मनुष्याणां त्वधिकं पाकभेदेन प्रापयसि । त्वं समर्थः । एवंरूपायाग्निस्वरूपिण इत्यर्थः ॥ ३ ॥
त्वं जीवस्त्वमापस्सर्वेषां जनिता त्वमाहरः त्वं विष्णो श्रमापनुदाय चतुर्गुणाय स्वाहा ॥ ४ ॥
व्याख्या
हे विष्णो जीवकारणभूता आपस्त्वं छान्दोग्ये ईरितम् “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति” इति ॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥
इति ॥ सर्वेषां जनिता उत्तरोत्तरं कारणत्वेन जनिता । त्वमाहरः त्वमाहर छान्दसत्वात् त्वमाहर इति । सर्वेषां श्रमापनुदः सर्वेषां स्नानपानादिना श्रमशान्तिप्रदः । यद्वा रामकृष्णाद्यवतारादिषु कालिन्द्यादिरूपेण श्रमशान्तिप्रदः ।
सम्भक्षयित्वा भूतानि जगत्येकार्णवीकृते ।
नागपर्यङ्कशयने शेतेऽसौ परमेश्वरः ॥
इति ॥ चतुर्गुणाय गन्धविहीनाश्चत्वारोऽपां गुणा इति तस्मै ॥ ४ ॥
भूमेर्वितन्वन् प्रतरन्प्रकामः पोपूयमानः पञ्चभिः स्वगुणैः प्रसन्नैस्सर्वाणि मां धारयिष्यसि स्वाहा ॥ ५ ॥
व्याख्या
हे परमात्मन् प्रकामः ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ।
[[११४]]
कामभूतः भूमेः पञ्चभिः स्वगुणैः शब्दस्पर्शरूपरसगन्धा इति पञ्चेन्द्रियविषयभूतैर्गुणैः सर्वान् वितन्वन् विस्तारयन् विषयप्रवणान् कुर्वन् पोपूयमानः पवित्रभूतः प्रतरन् तदाक्रम्य स्थितस्सन्, गीतायाम् -
त्रिभिर्गुणमयैर्भावैरैभिस्सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥
इति ॥ स्वतेजसाऽप्याधीतैः प्रसन्नैर्गुणैरिमान् लोकान् धारयिष्यसि । “व्यस्कभ्नाद्रोदसी विष्णुरेते दाधार पृथिवीमभितो मयूखैः" इति श्रुतेः । भूम्या ऐन्द्रियविषयशक्त[[??]]प्रदायेत्यर्थः ॥ ५ ॥
मनस्त्वं भूत्वा मनःप्रदोऽग्रे त्वत्तो भूतं सम्भावयिष्यसि सर्वेषां कायानामर्हमर्हते स्वाहा ॥ ६ ॥
व्याख्या
हे परमात्मन् त्वम् अग्ने सृष्ट्यादौ मनो भूत्वा त्वत्तः त्वत्सकाशादुद्भूतमनोभिमानिदेवतां सम्भावयिष्यसि सङ्कल्पयिष्यसि । सर्वेषां देवमनुष्यादीनां कायानां शरीराणां यथार्हं मनःप्रदः ।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
इति श्रुतेः ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥
इति ॥
मनोरूपेण भवितुम् अर्हते समर्थायेत्यर्थः ॥ ६ ॥
त्वं बुद्धिर्भूतानामन्तरात्मा पुण्यवतां पुण्येषु सज्जमानः त्वं बुद्ध्वा विचिन्वमानः पुण्यरूपाय स्वाहा ॥ ७ ॥
व्याख्या
हे परमात्मन् त्वं बुद्धिः बुद्धिरूपः । भूतानां पञ्चभूतानाम् अन्तरात्मा तत्तदभिमानिदेवतानामन्तरात्मा । पुण्यवतां पुण्येषु सज्जमानः निविष्टः ।
[[११५]]
त्वं बुद्ध्वा विचिन्वमानः “बुद्धिस्तात्कालिकी मता" इति । तया बुद्ध्या विचिन्वमानः पुण्यरूपाय
सत्यं तपो दमः शमो दानं धर्मः प्रजननमग्नयोऽग्निहोत्रं यजमानः संन्यासः
इति ते पुण्यशब्दवाच्याः ।
यद्व्योम्नः स्थानं गलान्तरं बुद्धेर्वचनमहङ्कारस्य हृदयचित्तस्य नाभिरिति बुद्ध्या विचिन्वमानः
इत्युक्तत्वात् । अभ्यासरूपमात्रेण वा विचिन्वमानः तस्मै ॥ ७ ॥
यः सूक्ष्मान् सञ्चरमाणान् भावाभावान् भव्याभव्यान् कुर्वन्नात्मीयममितो धुनोति धुरं वहिष्यसे स्वाहा ॥ ८ ॥
व्याख्या
यः परमात्मा सूक्ष्मान् भूतसूक्ष्मान् सञ्चरमाणान् विरजापर्यन्तं सञ्चरमाणान् भावाभावान् सूक्ष्मरूपत्वात् भावरूपान् सुखदुःखानुभवाभावात् अभावरूपान् भव्यान्
अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः
इति गुणाष्टकाविर्भावाय भव्यान् अमानवकरस्पर्शात्पूर्वं गुणाष्टकाविर्भावाभावात् अभव्यान् कुर्वन्नात्मीयं ब्रह्मालङ्कारादिनालङ्कृत्य मुक्तं परमात्मसम्बन्धं कुर्वन् अमितः अमानवः सुकृतदुष्कृते धुनोति । कौषीतकिब्राह्मणे -
तमेतं देवयजनं पन्थानमासाद्याग्निलोकमागच्छति । स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् । तस्य ह वा एतस्य ब्रह्मलोकस्यारो ह्रदो मुहूर्तोऽन्वेष्टिहा विरजा नदील्यो वृक्षः सालज्जं संस्थानं अपराजितमायतनम् इन्द्रप्रजापती द्वारगोपौ विभुप्रमितं विचक्षणसन्ध्यमितौजाः पर्यङ्कः प्रिया च मानसी प्रतिरूपा च चाक्षुषी पुष्पाण्यादायावयतौ वै च जगन्यम्बा चाम्बावयवाश्चाप्सरसोऽम्बया नद्यः । तमित्थंविधा गच्छति । तं ब्रह्माहाभिधावत मम यशसा विरजां वा पालयन्नदीं प्रापं न वा अयं जिगीष्यति
इति ॥
[[११६]]
तं पञ्चशतान्यप्सरसां प्रतिधावन्ति । शतं मालाहस्ताः शतमाञ्जनहस्ताः शतं चूर्णहस्ताः शतं वासोहस्ताः शतं फणहस्तास्तं बह्मालङ्कारेणालकुर्वन्ति । स ब्रह्मालङ्कारेणालङ्कृतो ब्रह्मविद्वान् ब्रह्मैवाभिप्रैति । स आगच्छत्यारं ह्रदं तं मनसात्येति । तमृत्वा सम्प्रतिविदो मज्जन्ति । स आगच्छति । मुहूर्तान्विहेष्टिहास्तेऽस्मादपद्रवन्ति । स आगच्छति विरजां नदीं तां मनसैवात्येति । तत्सुकृतदुष्कृते धूनुते । तस्य प्रिया ज्ञातयस्सुकृतमुपयन्त्यप्रिया दुष्कृतम् । तद्यथा रथेन धावयन् रथचक्रे पर्यवेक्षत एवमहोरात्रे पर्यवेक्षते । एवं सुकृतदुष्कृते धूनुते सर्वाणि च द्वन्द्वानि । स एष विसुकृतो विदुष्कृतो ब्रह्मविद्वान् ब्रह्मैवाभिप्रैति ॥
स आगच्छतील्यं वृक्षं तं ब्रह्मगन्धः प्रविशति । स आगच्छति सालज्जं संस्थानं तं ब्रह्म स प्रविशति । स आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति । स आगच्छतीन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः । स आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रविशति । स आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे सामनी पूर्वौ पादौ ध्यैत नौधसे चापरौ पादौ वैरूपवैराजे शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति । स आगच्छत्यमितौजसं पर्यङ्कं तं स प्राणः । तस्य भूतं च भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ बृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये शीर्षण्यमृचश्च सामानि च प्राचीनागानं यजूंषि तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः श्रीरुपबर्हणम् । तस्मिन् ब्रह्मास्ते । तमित्थंवित्पादेनैवाग्र आरोहति । तं ब्रह्माह “कोऽसी"ति । तं प्रतिब्रूयात् ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेस्सम्भूतो हाव । एतत् संवत्सरस्य तेजोभूतस्य भूतस्य त्वमात्मासि यस्त्वमसि सोऽहमस्मीति । तमाह “कोऽहमस्मी"ति ॥
[[११७]]
सत्यमिति ब्रूयात् । किं तत्सत्यमिति । यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सद्ध यद्देवाश्च प्राणाश्च तद्यत्तदेतया वाचाभिव्याह्रियते सत्यमिति । एतावदिदं सर्वमिदं सर्वमसीत्येवैनं तदाह ।
तदेतच्छ्लोकेनाप्युक्तम् —
यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः ।
स ब्रह्मेति हि विज्ञेय ऋषिर्ब्रह्ममयो महान् ॥
इति ॥ तमाह केन पौसानि नामान्याप्नोतीति । प्राणेनेति ब्रूयात् । केन स्त्रीनामानीति । वाचेति । केन नपुंसकनामानीति । मनसेति । केन गन्धानिति । घ्राणेनेति ब्रूयात् । केन रूपाणीति । चक्षुषेति । केन शब्दानिति । श्रोत्रेणेति । केनान्नरसानिति । जिह्वयेति । केन कर्माणीति । हस्ताभ्यामिति । केन सुखदुःखे इति । शरीरेणेति । केनानन्दं रतिं प्रजातिमिति । उपस्थेनेति । केनेत्या इति । पादाभ्यामिति । केन धियो विज्ञातव्यं कामानिति । प्रज्ञयेति प्रब्रूयात् । तमाहापैव खलु मे ह्यसावयं ते लोक इति । सा या ब्रह्मणि चिति या व्यष्टिस्तां चितिं जयति तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद । धुरं वहिष्यसे पारमात्मिकोपनिषन्मन्त्राध्येता वैष्णवो मन्त्रार्थवित्परमैकान्ती च तस्य धुरं वहिष्यसे ॥
शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः ।
तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥
“ब्रह्मविदाप्नोति परम्” इति श्रुतेश्च ।
मत्पदद्वन्द्वमेकं ये प्रपद्यन्ते परायणम् ।
उद्धरिष्याम्यहं देवि तस्मात् संसारसागरात् ॥
इति ॥ ८ ॥
[[११८]]
यस्यादौ भयाद्भगवानुत्तस्ते स्वयं सूर्यस्य त्वं कालं वहमानः यस्मात्तेज आत्मीयं कृत्वा सर्वानस्मान् पालयिष्यसि स्वाहा ॥ ९ ॥
व्याख्या
यस्य सृष्टिस्थितिसंहारादिकं परमात्मनो नारायणस्य नियमनातिक्रमभयात् भगवान् -
उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥
उत्पत्त्यादिकं परमात्माधीनमिति यो वेत्ति स भगवान् षाड्गुण्यवित्पूर्वं….
भीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।
कथमुपेति । सत्यं कालं वहमानः ।
कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः ।
अर्धमासा मासा ऋतवः संवत्सरश्च कल्पन्ताम् ।
इति । अहोरात्रादिकालं यथाप्रकारं देवमनुष्यादिषु प्रापय..[[??]]न्नं देहाद्यैः प्रतिदिनं युद्धसामर्थ्यसम्भवकारणात् । आत्मीयं तेजः पराभवाभिभवसामर्थ्यं तेज इति प्रणवादिकं तेजः सर्वानस्मान् सूर्यरूपेण पालयिष्यसि ।
षड्विंशब्राह्मणे –
देवाश्च वा असुराश्च लोकेष्वंसन्ततेऽसुरा आदित्यमभिद्रवन् स आदित्यो.. भित्त..र्मरूपेण तिष्ठत्यप्रजापतिमुपायावत् । तस्य प्रजापतिरेतत् भेषजमश्यत् ऋतं च सत्यं च ब्रह्म चोङ्कारं च त्रिपदां च गायत्रीं ब्रा . . . मपश्यत्
इत्यादि ॥
श्रीविष्णुपुराणे —
मन्देहा राक्षसा घोराः सूर्यमिच्छन्ति घातितुम् ।
प्रजापतिकृतः शापस्तेषां मैत्रेयरक्षसाम् ॥
[[११९]]
अक्षयत्वं शरीराणां मरणं च दिनेदिने ।
ततः सूर्यस्य तैर्युद्धं भवत्यत्यन्तदारुणम् ॥
इत्यादि ।
वैष्णव….. कारं तस्य तत्प्रेरकं परम् ।
तेन तत्प्रेरितं ज्योतिरोङ्कारेणाथ दीप्तिमान् ॥
दहत्यशेषरक्षांसि मन्देहाख्यानि यानि वै ।
ततः प्रयाति… ब्राह्मणैरभिरक्षितः ॥
वालखिल्यादिभिश्चैव प्रभुर्वैखानसैरपि ।
महात्मभिर्महात्मा वै जगतः पालनाद्यतः ॥
इति भगवदाज्ञा ……. यात् जगत्पालनादिकं करोति जगत्पालनादिशक्तिप्रदाय तुभ्यम् ॥ ९ ॥
यं त्वं पालनायाभिभूतं देवास्सर्वे विचरन्ति ते देवास्त्वमेव सर्वे माया मायैषते स्वाहा ॥ १० ॥
व्याख्या
हे परमात्मन् पुत्रेण सह बाणासुरपरिपालनार्थमागतं सर्वं त्वयाभिभूतम् अभिभवं प्राप्तं रुद्रं सर्वदेवाः ब्रह्मादयः प्रमुखं श्रुत्वा अध्याहारः पश्येति जीवभूतेन नरसिंहे कोपशान्त्यर्थं विचरन्ति शरभ …. विनागतिं कुर्वन्ति ये च सर्वे रुद्रदेवाः [?] ब्रह्मादयः विचरन्ति स्वरक्षकत्वेन गतिं कुर्वन्ति देवास्त्वमेव सर्वे
यद्यद्विभूतिमत्सत्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम्
इति ॥ त्वद्विभूतिभूताश्चेच्छरभनिर्माणादिगतं कथं कुर्वन्तीति चेत् तत्राह माया मायैषते पूषा ते माया आश्चर्यकारिणी विद्या सैव माया । अन्येषां माया का माया ।
[[१२०]]
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥
इति भगवद्वचनात् । शरभरूपेण गतानां ब्रह्मरुद्रादीनामपि नृसिंहरूपिणा संहारादिकं नारसिंहपुराणादिष्ववगम्यते सप्तत्रिंशेऽध्याये -
हिरण्यकशिपोस्त्रस्तान् सेन्द्रान् देवान् बृहस्पतिः ।
क्षीरोदस्यान्तरं गत्वा स्तूयतां तत्र केशवः ।
युष्माभिः संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥
इत्यारभ्य
युष्मदागमनं सर्वे जानाम्यसुरसूदनाः ।
हिरण्यकविनाशार्थं स्तुतोऽहं शङ्करेण च ॥
इत्यारभ्य हिरण्यवधानन्तरम् -
तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः ।
दृष्ट्वा भयानकं रूपं तत्रसुर्देवदानवाः ॥
इत्यादिस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य —
तस्मिन् भगवति क्रुद्धे नरसिंहे महात्मनि ।
प्रवेपते जगदिदं देवेशे कुपिते भृशम् ॥
त्वत्तो हि नान्यच्छरणं देवानामिह विद्यते ।
नरसिंहसमुद्भूतं भयं नाशय नो हरे ॥
इत्यारभ्य अनन्तरं रुद्रवचनम् -
हतो हिरण्यकशिपुर्यो स दैत्यो महाबलः ।
को नः शमयिता तस्य . . . हरिमेधसः ॥
त्वं मे जनयिता तात स ते जनयिता हरिः ।
तस्य देवस्य कः शक्तो विष्णोर्वै निग्रहे भवेत् ॥[[१२१]]
यद्भयात्पवते वायुः सूर्यस्तपति यद्भयात् ।
यद्भयाद्धरणी धत्ते निग्रहे तस्य कः प्रभुः ॥
तथाप्युपायं पश्यामः परमेण समाधिना ।
कृते यस्मिन् भवेच्छ्रेयस्तूष्णींभावो न रोचते ॥
अश्वानां माहिषः शत्रुर्वारणानां मृगाधिपः ।
वानराणां तथा मेषः पक्षिणां गरुडः स्मृतः ॥
मूषकानां तु मार्जालो मृगाणां श्वा प्रकीर्तितः ।
वायसानां दिवाभीतः सिंहानां शरभस्तथा ॥
ततः समे भजिष्यामः शरभं भयशान्तये ।
शरभोऽधिष्ठितोऽस्माभिः नृसिंहं शमयिष्यति ॥
इत्येवमुक्तो भगवान् ससर्ज शरभं तथा ।
यस्य सन्दर्शनादेव त्रस्तमासीज्जगत्त्रयम् ॥
ततस्तस्य भवानीशस्तुण्डस्थानमरोचत ।
पृष्ठभागे चतुर्वक्त्रस्तस्य रुद्रो न्यवेशयत् ॥
सोमसूर्यौ नयनयोर्मारुतः पक्षयोर्द्वयोः ।
पादेषु भूधरान् सर्वान् शिवस्तस्य न्यवेशयत् ॥
एवं निर्माय शरभं भवः प्रमथनायकः ।
ससर्ज नरसिंहं तं समुद्दिश्य भयानकम् ॥
ततः क्षणेन शरभो नादपूरितदिङ्मुखः ।
अभ्याशमगमद्विष्णोर्विनदन् भैरवस्वरम् ॥
तमभ्याशगतं दृष्ट्वा नृसिंहः शरभं रुषा ।
जघान निशितैरुग्रैर्दंष्ट्रानखवरायुधैः ॥[[१२२]]
निहते शरभे तस्मिन् रौद्रे मधुनिघातिना ।
तुष्टुवुः पुण्डरीकाक्षं देवा देवर्षयस्तथा ॥
इति ॥
गारुडे -
हन्तुमभ्यागतं रौद्रं शरभं नरकेसरी ।
नखैर्विदारयामास हिरण्यकशिपुं यथा ॥
निकृत्तबाहूरुशिरा वज्रकल्पमुखैर्नखैः ।
मेरुपृष्ठे नृसिंहेन सहस्रार्कसमं च तत् ॥
पाद्मे —
तौ युध्यमानौ तु चिरं वेगेन बलवत्तरौ ।
विनाशं जग्मतुर्देवौ नृसिंहशरभाविति ॥
ततः क्रुद्धो महाकायो नृसिंहेऽभिमुखस्वनः ।
सहस्रशिरसं नेत्रैस्तस्य गात्रं न्यकर्तयत् ॥
पतितं भीममत्युग्रं विबुधा द्रष्टुमागताः ।
ऋषयो देवगन्धर्वा यत्र शेते हरो हतः ॥
तं दृष्ट्वा परमं जग्मुर्विस्मयं ते दिवौकसः ।
प्रशशंसुस्तदा कर्म नरसिंहस्य चाद्भुतम् ॥
इति ॥ १० ॥
इति द्वितीयोऽनुवाकः