विस्तारः (द्रष्टुं नोद्यम्)
Vamanadatta: Svabodhodayamanjari
Vamanadatta: Svabodhodayamanjari
Based on Torella, Raffaele: “The Svabodhodayamañjarī, or How to Suppress the Mind with No Effort”. IN:
R. Tsuchida and A. Wezler: Harānandalaharī. Studies in Honour of Prof. Minoru Hara on His Seventieth Birthday.
Reinbeck : 2000, pp. 387-410.
Input by Daniele Cuneo
[GRETIL-Version: 2017-04-27]
वामनदत्तः स्वबोधोदयमञ्जरी
सम्यग्बोधविचारेण भावनाम् अस्वभावतः ।
लब्धबोधदयानन्दं वन्दे संस्थानम् आत्मनः ॥ १ ॥
रूपादिपञ्चवर्गो ऽयं विश्वम् एतावद् एव हि ।
गृह्यते पञ्चभिस् तच् च चक्षुरादिभिर् इन्द्रियैः ॥ २ ॥
चक्षुः सर्वास्व् अवस्थासु देहिनां मनसि स्थितम् ।
तत् प्रलीनं भवेद् यस्य तस्य सर्वं प्रलीयते ॥ ३ ॥
तस्यैव विलयोपायः प्रदिष्टो गुरुभिः पुरा ।
तदागमपरिभ्रंशभयात् स्पष्टीकृतो मया ॥ ४ ॥
जात्यादिकल्पनारूपव्यवहारो मनःस्थितः ।
वस्तुतो न तु ताः सन्ति निश्चित्यैतच् छमं व्रजेत् ॥ ५ ॥
शुक्रशोनितसंश्लेषकाले नास्ति मनः क्वचित् ।
न बुद्बुदे न पेष्यां वा न शरीरे क्वचित् स्थितम् ॥ ६ ॥
शरीरं गर्भवासान्तः कौमारे यौवने तथा ।
क्षणक्षयि विनाशान्तं तच् च नैवोपलभ्यते ॥ ७ ॥
पृथग् नाम पृथग् रूपं लोमादीनां पृथक् स्थितिः ।
पृथक् सर्वं यथा दृष्टं क्व शरीरं तदा स्थितम् ॥ ८ ॥
एवम् एव विचार्योक्ता जातिस् तथैव बाध्यते ।
न च सा वस्तुतो युक्ता कस्यचिद् वावभासते ॥ ९ ॥
नाम पित्रा कृतं मिथ्या क्रिया न नियता यतः ।
गुणी यदि भवेत् कश्चिद् भवन्ति बहवो गुणाः ॥ १० ॥
इत्थं मिथ्याविकल्पोत्थवासनाभिर् अभिप्लुतम् ।
चञ्चलं मनसो रूपं निश्चित्यैतन् निरोधयेत् ॥ ११ ॥
पूर्वैर् निरोधो कथितो वैराग्याभ्यासय्पोगतः ।
अयत्नेन निरोधो ऽयम् अस्माभिर् उपदिश्यते ॥ १२ ॥
ग्राह्यं यच् च भवेत् किञ्चित् तत् तल् लीनं तदा भवेत् ।
अन्यस्याग्रहणाच् चित्तं स्वात्मन्य् एव प्रशाम्यति ॥ १३ ॥
यथा घनस्वने सान्द्रे क्रमेण विलयं गते ।
तदाश्रयवशाच् चित्तं तस्मिन् क्षीणे प्रशाम्यति ॥ १४ ॥
यद् यन् मनोहरं किञ्चिच् छ्रुतिगोचरम् आगतम् ।
एकाग्रं भावयेत् तावद् यावल् लीनं निरोधकृत् ॥ १५ ॥
रूपादीनां तथैवेत्थं भावयेद् रमणीयताम् ।
विलीनानि स्मरेत् पश्चाद् आतमभावोपबृंहितः ॥ १६ ॥
एवं ग्राह्यसमावेशान् निरोधः कथितो मया ।
ग्रहणाद् एव पूर्वो ऽयम् इदानीं सम्प्रदृश्यते ॥ १७ ॥
ग्रहणानीन्द्रियाणीह समानीति प्रबोधयेत् ।
समत्वं रागहानेः स्याद् द्वेषस्योपक्षयात् तथा ॥ १८ ॥
सर्वरागात् सहानिः स्यात् सर्वद्वेषात् तथैव च ।
बद्धवत् सर्वरागी स्यात् सर्वद्वेष्टा च भैरवः ॥ १९ ॥
अग्राह्यम् इन्द्रियं शून्यं स्वात्मन्य् एव प्रलीयते ।
प्रलीनेन्द्रियवृत्तेस् तु कैवल्याभ्युदयोदयः ॥ २० ॥
तस्माच् चित्तं समादाय शून्ये सङ्कल्पवर्जिते ।
निस्तब्धेन्द्रियवृत्तेस् तु निरोधः सम्प्रजायते ॥ २१ ॥
जृम्भमानस्य सततं क्षुधाविष्टस्य योगिनः ।
ध्यायतो वा किम् अप्य् अन्तः प्रत्यन्ते केवलं भवेत् ॥ २२ ॥
अप्रलीनमनोवृत्तेर् निद्राम् आश्रयतः शनैः ।
विषयाग्रहणात् सर्वनिरोधः सम्प्रजायते ॥ २३ ॥
धावतः पदविक्षेपप्रयत्नानवधारणात् ।
निःसङ्कल्पमनोवृत्तेः परमात्मा प्रकाशते ॥ २४ ॥
आसने ऽप्य् उपविष्टस्य क्व मे चित्तम् अवस्थितम् ।
विचार्यैवं प्रयत्नेन निराधारे प्रशाम्यति ॥ २५ ॥
वयुना स्पन्दनादीनि शरीरस्य करोम्य् अहम् ।
न च चित्ते स्थितो वायुर् न वायौ चित्तम् आस्थितम् ॥ २६ ॥
एवं विमृशतो भावान् न क्वचित् संस्थितं मनः ।
मिथैव वृत्तयस् तस्य सर्वथा केवलं स्थितम् ॥ २७ ॥
यत्र यत्र भवेद् वाञ्छा भोजनादिषु वस्तुषु ।
पूरयेत् ताम् यथाशक्ति भवेत् पूर्णो निराश्रयः ॥ २८ ॥
वाञ्छितं गदितं किञ्चिद् अकस्माद् यदि विस्मृतम् ।
पुनस् तस्यानुसन्धानात् क्षणात् कैवल्यम् आप्नुयात् ॥ २९ ॥
स्थानुः स्यात् पुरुषो वेति दूराद् दृश्ये विकल्पिते ।
सुनिश्चितमतेः क्षिप्रं निरोधः सम्प्रजायते ॥ ३० ॥
दृश्यैः पदार्थैर् द्रष्टारं पश्येद् बुद्ध्या यतो दृशः ।
तं दृष्ट्वा मोक्षम् आप्नोति यो न तद्वत् स बध्यते ॥ ३१ ॥
आलम्ब्य संविदं यत्नात् संवेद्यं न स्वभावतः ।
तस्मात् संविदितं सर्वम् इति संविन्मयो भवेत् ॥ ३२ ॥
पुनर् विशेद् अपानेन हृदयं प्रविकासयेत् ।
तथैव क्षीणवृत्तिः स्याद् अपाने विलयं गते ॥ ३३ ॥
सुषुम्णापथम् आश्रित्य प्रासादध्वनिबोधतह् ।
बिन्दुषट्कपरित्यागाच् छान्तबोधः क्षणाद् भवेत् ॥ ३४ ॥
वामदक्षिणसञ्चारबिन्दुद्वयनिघर्षणात् ।
द्वादशान्ते महाशान्तिः सिद्धैर् उक्ता मुखागमे ॥ ३५ ॥
ऊर्ध्वम् आक्रमतो वायोर् उद्गतान्ते शमो भवेत् ।
पुर्यष्टकविभेदे ऽपि तथैव मनसो लयः ॥ ३६ ॥
विवार्यास्यं क्षणम् स्थित्वा निःसन्दिग्धम् अनाकुलम् ।
स्तम्भितप्राणवृत्तेस् तु निरोधः सम्प्रजायते ॥ ३७ ॥
नाभिमेध्रान्तरे चित्तं सुरतान्ते विनिक्षिपेत् ।
लीयमाने रतानन्दे निस्तरङ्गः क्षणं भवेत् ॥ ३८ ॥
दूरागतसुहृद्बन्धुपरिष्वङ्गनिषेवितम् ।
आनन्दनिर्भरं चित्तं निवृत्तिं लभते क्षणात् ॥ ३९ ॥
दूराद् उच्चरिते शब्दे शब्दार्थानवधारणात् ।
सावधानस्य तज्ज्ञानं क्षीणरोधः प्रजायते ॥ ४० ॥
[…]
पादाभ्यङ्गपरिष्वङ्गाच् चित्तरोधः क्षणं भवेत् ॥ ४१ ॥
रुच्यानां षाडवादीनां स्वलोलाग्रे स्थितिं कुरु ।
क्षियमाणे रसानन्दे कैवल्यम् उपजायते ॥ ४२ ॥
मालत्यादिषु गन्धांश् च तथैव परिभावयेत् ।
तदाश्रयवशाच् चित्तं तेषु लीनेषु लीयते ॥ ४३ ॥
इत्थं प्रतिक्षणं यस्य चित्तम् आत्मनि लीयते ।
स लब्धबोधसद्भावो जीवन्मुक्तो ऽभिधीयते ॥ ४४ ॥
मीमांसावनसिंहस्य हर्षदत्तस्य सूनुना ।
कृता वामनदत्तेन स्वबोधोदयमञ्जरी ॥ ४५ ॥