विस्तारः (द्रष्टुं नोद्यम्)
Source: TW
संवित्प्रकाशः
सम्पादकः
डॉ० भागीरथप्रसादत्रिपाठी ‘वागीशः शास्त्री’
निवेशकः, अनुसन्धानसंस्थानस्य
सम्पूर्णानन्दसंस्कृतविश्वविद्यालये
वाराणस्याम्
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः
वि० सं० २०५०
DR BHAGIRATHA PRASADA TRIPATHI VAGISA SASTRI
Director, Research Institute
Sampurnanand Sanskrit University
Varanasi
अनुसन्धान - प्रकाशन- पर्यवेक्षकः- निदेशकः, अनुसन्धान संस्थानस्य सम्पूर्णानन्द-संस्कृत-विश्वविद्यालये
वाराणसी ।
प्रास्ताविकम्
कालः
संवित्-प्रकाशाख्योऽयं ग्रन्थः काश्मीरिकेण विपश्चिद्-अपश्चिमेन वामनदत्तेन प्राणायि । तेनैतस्मिन् ग्रन्थे सर्वत्र विष्णुर् अभ्युपगतः परमतत्त्वरूपतया । एवं सत्यपि वामनदत्तः सादरं स्मर्यते काश्मीर-शैव-दर्शन-लब्ध-वर्णैः । प्रत्य्-अभिज्ञा-दर्शन-सूरिणा श्रीमद्-अभिनव-गुप्त-पादेन स्वकीये ‘तन्त्रालोक’-नामके ग्रन्ये ( ५,१५५ ) संवित्-प्रकाश-स्थित-श्लोकोद्धरणावसरे तद्-उक्ति गुरु-भाषिततया ऽङ्गीकृतवता सप्रश्रयं सभाजितो वामनदत्तः । गुरु-भाषित-शब्दं व्याख्याति तट्टीकाकारो जयरथः – ’ गुरुभिः = वामनदत्ताचार्येण भाषितम् इति संवित्प्रकाशे’ ।
तन्त्रालोकीये श्लोकान्तरे यत्राभिनवगुप्त-पादेन स्व-गुरूणां प्रशंसा समुदीर्यते, तत्र तन्-मध्ये वामनकाभिधः कश्चिद्-अभिष्टूयते कृती। पूर्वोद्धरण-परामर्शेन संवित्-प्रकाश-विभावयिता वामनदत्त एवासौ भवेद् इति पार्यते निश्चेतुं यथा-यथम् । एवं तावद् एतस्य जीवनकालो नूनं श्रीमद्-अभिनव-गुप्त-पादेभ्यः प्राक्तनो दशम्याम् आहोस्विद् एकादश्यां ख्रीस्त-शताब्दयां मन्तव्यः।
काश्मीर-शैवाद्वय-सादृश्यम्
जगत्-सत्यत्वम्
संवित्-प्रकाशस्याद्वय-वादे
काश्मीर-शैवाद्वय-शासनस्य
स्पष्टं विलोक्यते प्रभावः ।
आदि-शेष-कृताधार-कारिकाद्वैत-वादस्य
संवित्-प्रकाशाद्वैत-वादेन सार्धं विहिते तौल्ये
वामन-दत्तीयाद्वय-वादस्यासाधारणानि लक्षणानि प्रकटी-भवन्ति ।
आदि-शेषस्याद्वय-वादस् तावद् अद्वैत-वेदान्तानुगुण्याद् इतो व्यपवृक्तः+++(=अनुषक्त-कल्पः)+++ ।
यद्य् अप्य् आदि-शेष-मतानुसारेण
परतत्त्वं मायेश्वरो विष्णुर् ऊरीक्रियते,
तथाप्य् असाव् अद्वैत-वेदान्त-वादीव जगतो मिथ्यात्वम् उद्घोषयति ।
यद्य् अपि वामन-दत्तोऽपि विष्णोः परत्वम् आमनति,
तथापि तन्-मतानुसारेण जगतो मिथ्यात्वं नास्ति ।
एवं सत्य् अपि
तदीयम् अस्तित्वं वेदकस्यायत्तं तिष्ठति वेदकेन विना वेद्यस्यासम्भाव्यात् ।
वेद्य-वेदकयोर् विष्णुमयत्वम्
वस्तुतस् तु
सर्वत्र सदैव
वेद्य-वेदकैकत्वं चकास्ति ।
संविदस् तु बहिर्-मुखत्व-हेतुत्वाद्
विकल्पना-शक्ति-प्रभावेण
वेद्य-वेदक-भेदः परिलक्ष्यते ।
विष्ण्व्-अनुग्रहेण
यदा कश्चन योगी
स्व-संवित्तिं वेदकं
प्रत्य्-अन्तर्-मुखीं विधाय
‘अहं वेदकः’ इत्य् अहंकृतिं परिहरति,
तदा विष्णोः शुद्धः संवित्-प्रकाशो
वेद्य-वेदक-भेद-विनिर्मुक्तो
निश्शेष-वस्तुषु विश्व-रूपेण
स्वत आविर्भवति ।
अतो मिथ्यात्वम् अबिभ्रतो जगतो
विष्णुत्वेनावस्थानं प्रतिपद्यते ।
एवम् अपि नानात्वं नास्तीत्य् अस्माद्-धेतोर्
विवर्त-वादः परिणाम-वादश् चेति पक्ष-द्वयं शक्यम् अभ्युपगन्तुम् ।
तद् उक्तं वामनदत्तेन (१, १०४; १०६ ) -
[[२]]
अति-निर्मल-बोधैक-
रूपे देह-परिग्रहः । विवर्त-परिणामाभ्यां द्वाभ्याम् अप्य् उपपद्यते ॥विवर्ते ऽप्य् अतथा-रूपस्
तथा भासित्वम् अच्युत ।
परिणामे स एव त्वं
सुवर्णम् इव कुण्डले ।
इति ।
विष्णुश् चित्-प्रकाश-स्वभावः
सर्वेषां वस्तूनां प्रकाशको मतः ।
तदुक्तं श्वेताश्वतरोपनिषदि (६, १४) -
न तत्र सूर्यो भाति, न चन्द्रतारकं
नेमा विद्युतो भान्ति कुतोऽयम् अग्निः । तम् एव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥
इति ।
विष्णोः प्रकाश्य-रूपेणापि विद्यमानत्वाद्
असौ केवलं प्रकाशक एव नास्ति ।
तदुक्तं संवित्-प्रकाशे (१,११) -
तद्-आत्मकत्वं भावानां
विवदन्ते न केचन । यत्-प्रकाश्य-दशां यातो
नाप्रकाशः प्रकाशते ॥
इति ।
यथा काश्मीरीयाद्वय-शैव-दर्शन-वादिनः
शिवस्य प्रकाशात्मकत्वम् उद्धोषयन्ति,
तथैव वामनदत्तोऽपि प्रतिपादयति
विष्णोः स्वरूपम् ।
तस्माद् वामन-दत्तस्य सिद्धान्तः
काश्मीरिक शैव-दर्शन-नीकाशो विभाति,
न त्व् अद्वैत-वेदान्त-सन्निभः ।
स्वातन्त्र्य-शक्तिः
प्रकारान्तरेणापि
तदीयस्य सिद्धान्तस्य
काश्मीरिक-शैव-सिद्धान्त-सादृश्यम् उपपद्यते । तथाहि -
“विष्णुः स्वातन्त्र्य-शक्तिमान्
सर्वत्र विश्व-स्व-रूपतया विजृम्भत”
इति वादः ।
यद्य् अपि पाञ्चरात्र-संहितास्व् अपि विराजते वाद एषः,
तथापि वामन-दत्तीयः सिद्धान्तो
ऽद्वय-वादि-शैव-मतेन समम् एव
सादृश्यं बिर्भात ।
वामन-दत्त-मतानुसारेण
विष्णोश् चतुर्-व्यूहात्मकस्य
प्रमातृ-मेय-मान-रूपता वर्तते ।
अनेन चतुष्कात्मक-रूपेण
संवित्-स्वरूपः परमार्थः
सर्वत्र प्रकटो विलसति ।
अयं वादः खलु काश्मीर-शैव-दर्शनस्य समाम्नायते ।
महा-नय-सिद्धान्तः
एवम् एव महा-नय-सिद्धान्त उररीकृतो वामनदत्तेन ।
तस्माद् असौ
महा-नयस्य परम-देवतां काल-कर्षिणीं
स्तौति संवित्प्रकाश ( ४, १२-१३ ) –
एका सा विविधावस्था
चराचरतया स्थिता ।
द्वि-षट्क-पत्त्रं सा पक्षं
कालम् आधारम् आश्रिता ॥
व्यज्यते कलनात् तस्याः
कालः कालत्वम् आगतः ।
सोत्पाद-क्षय-रूपेण
भावानां कालकर्षिणी ॥
इति ।
[[३]]
लक्ष्मीतन्त्रे विकासः
यद्य् अपि वामन-दत्त-मतस्य
काश्मीरीय-शैव-मतेन सार्धं
नाना-विधं सादृश्यम् अवलोक्यते,
तथापि तस्य दर्शने
पूर्णाहन्ता-भाव-वादो न विद्यते ।
अनया दृशा वामन-दत्तस्य वादे
पाञ्च-रात्राद्वय-वाद-विकासस्य
जायमानम् एकावस्थानं
लक्ष्मी-तन्त्रानुशीलनाद् विज्ञायते ।
भूयांसः श्लोकाः संवित्-प्रकाशाद् उद्धृताः सन्ति
लक्ष्मी-तन्त्रीये चतुर्दशाध्याये ।
एतेन संवित्-प्रकाशाल्
लक्ष्मी-तन्त्रस्यार्वाचीनत्वं सिध्यति ।
यद्यपि वामन-दत्तेन नाङ्गीकृतः पूर्णाहन्ता-भाव-वादः,
तथापि लक्ष्मी-तन्त्रे ऽसौ सर्वत्र प्रतिष्ठितः ।
यथोक्तं तत्रैव लक्ष्मीतन्त्रे ( २, १२-१३ ) –
सर्वावस्था-गता देवी
स्वात्म-भूतानपायिनी ।
अहन्ता ब्रह्मणस् तस्य
सा ऽहम् अस्मि सनातनी ॥आत्मा स सर्वभूतानाम्
अहंभूतो हरिः स्मृतः ।
अहन्ता-सर्व-भूतानाम्
अहम् अस्मि सनातनी ॥
इति ।
अन्यच् चापि ( २,१६ ) तत्रैव -
लक्ष्मी-नारायणाख्यातम्
अतो ब्रह्म सनातनम् । अहन्तया समाक्रान्तो
ह्य् अहम् अर्थः प्रसिध्यति ॥
इति ।
भगवद्-गीतोल्लेखः
श्रीमद्-भगवद्-गीता-दर्शनं
संवित्-प्रकाशस्य तावद् उपजीव्य-भूतं विलसति ।
अत्र ‘नासतो विद्यते भाव, इत्याद्य्-आदेशतः प्रभो’ ( १,१११ ) इत्य् अत्र,
‘भूमिर् आपोऽनलो वायुः, खं मनो धीर् अहंकृतिः’ ( ६ ५ ) इत्यत्र च
तत्रत्यांश् चरणान् स्पष्टतः समुदलेखीद् वामन-दत्तः ।
परवर्तिनि तन्त्रालोकेऽपीयम् एव सरणिर् अङ्गीकृता लक्ष्यते ।
सप्तमे प्रकरणे
‘यज्ञानां जपयज्ञोऽस्मीत्य् एतद् गीतासु यच्छ्रुतम्’ इत्य् अत्र तु
वामन-दत्तेन गीता-ग्रन्थो नाम्नैव व्याहृतः ।
शैव-दर्शने प्रभावः
शैव-दर्शनस्य कश्चित् प्रभावो यथा केषुचन वैष्णवशास्त्रेषु विलोक्यते
तथैव वैष्णवमतस्यापि प्रभावः केषुचित् काश्मीरिकेषु शैव-शास्त्रेष्व् अपि स्पष्टं लक्ष्यते ।
निरीक्ष्यतां पद्यम् इदं
भास्कराचार्य-विरचितस्य कक्ष्या-स्तोत्रस्य -
ज्ञानं प्रशान्तं तव बोध-वृत्तिर्
ऐश्वर्यम् उद्यत्-प्रसरा परेषाम् ।
प्रकाशनं प्रत्य् अपि योग्य-रूपा
शक्तिर्, बहिः स्थैर्य-वती बलं सा ॥
उत्पन्न-बाह्य-प्रसरा तु वीर्यं
तेजश् च बाह्यान् अवभासयन्ती ।
षोढेत्थम् एकैव तव स्व-शक्तिर्
बाह्याविमर्शात् तु भवेद् अविद्या ॥
भास्कराचार्यो यद्यपि वैष्णव-मतानुसारी वर्तते,
तथाप्यत्रासौ विष्णोः शक्तिवच्
छिवस्य शक्तिम् अपि विवृणोति
ज्ञान-शक्त्यैश्वर्यं बल-वीर्य-तेजो-रूपतया ।
भगवद्-उत्पलाचार्य-प्रणीतायां स्पन्दप्रदीपिकायां तु वैष्णव मत-प्रभावस्य विशेषतो दर्शनं जायते ।
[[४]]
तत्र स्थाने स्थाने समुद्ध्रियन्ते संवित्-प्रकाशस्य श्लोकाः ।
यद्य् अपि भगवान् उत्पलाचार्यो
वामन-दत्तवत् काश्मीरको ब्राह्मण आसीत्,
तथापि स वैष्णव-वामन-दत्त-वैसादृश्येन
शिवम् इष्ट-देवतया समाराधयाम् आस ।
एवं सत्य् अपि पाञ्चरात्र-संहितानां प्रामाण्यम्
असौ शैवागमवद् एवाङ्गी-कुरुते स्म ।
पूर्णाहन्ताभावः
यथा स्पन्द-कारिकासु पूर्णाहन्ताभावो नास्ति,
तथैव संवित्-प्रकाश-मतानुरोधेन तावद्
अहन्ता-भाव-विहीनं परम-तत्त्वम् उद्घोष्यते ।
गवेषणचोदनम्
अस्या वामन-दत्त-कृतेर् इयम् आविष्क्रिया
शैव-वैष्णवाद्वय-वाद-संबन्ध-विषयकं
किम् अपि गवेषणान्तरं
नूनं प्रेरयेद् इति विभाव्यते ।
विशेषतो बुध-वरैर्
अहिर्-बुध्न्य-संहिता लक्ष्मी तन्त्रं च मृगणीये ।
भाषानियमोल्लङ्घनम्
तान्त्रिक-वाङ्-मय-वद् इहापि
च्छन्दो-भाषादि-नियमोल्लङ्घनानि सन्ति भूयांसि ।
प्रकाशन-स्तुतिः
इदम्-प्रथमतया ग्रन्थस्यास्य प्रकाशन-सोभाग्य-भाग् भवति
सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयः ।
प्रकाश्यमानाद् अस्मात् संस्करणात् प्राग्
वामनदत्तकृते रस्याः केचिद् एव श्लोकाः समैक्षिषत
काश्मीराद्वय-शैव-शास्त्रेषूद्धृता लब्धवर्णैः ।
विशेषतस् तु ते समुद्धृताः सन्ति
भगवद्-उत्पल-विभावितायां स्पन्द-प्रदीपिकायाम् ।
यद्य् अपि तत्र तत्र समुद्धृतैस् तैः श्लोकैर्
वामन-दत्तीय-सिद्धान्त-वैशिष्ट्यं साकल्येन विज्ञातुं न प्राभवन्
सुधियो जिज्ञासु-जनाश् च,
तथापि संवित्-प्रकाश-ग्रन्थस्य गुरुत्वं
तेषाम् अविदितं नातिष्ठत् ।
एवं तावद् असाधारणं महिमानम् आबिभ्रतो ऽस्य सम्पादनं
चिरात् प्रतीक्षितम् आसीद् एव ।
आकरौ
तस्यास्य हस्तलेख-प्रेप्सया
विविध-ग्रन्थालय-सूची-पत्त्र-विलोकन-प्रसङ्गे
काशी-हिन्दू-विश्व-विद्यालयीय-पुस्तकालय-स्थ-ग्रन्थ-सूच्यां
संवित्-प्रकाशस्य मातृकायाः ( सी:४००३ संख्याकायाः ) दर्शनेन
नितरां प्रासीदत् स्वान्त-निशान्तम् आस्माकम् ।
इह संस्करणे तस्याः संज्ञा ‘B’ इति विद्यते ।
ततः परं ग्नोली-महोदय-द्वारा
यस्या अन्यस्या मातृकायाः प्रतिकृतिर् आसादिता,
सा काश्मीरिके श्री-नगर-स्थे पुस्तकालये विराजते
१९७१ संख्याका ।
तस्याः संकेत इह ‘A’ इति संज्ञया विहितोऽस्ति ।
सहाय्यम्
ग्रन्थस्यास्यानुसन्धाने प्रतिलिपीकरणे सम्पादने च साहायकं समर्पयन्तं
नेपालीय-तन्त्र-ग्रन्थ-सम्पादन-योजनायां मत्-सहायकं
मद्-अन्तेवासिनं डॉ० मार्क-डिच्कोव्स्कि-महोदयम्
आशी-राशिभिः सभाजयामि ।
संवित्-प्रकाशस्यास्य प्रकाशनेन
विद्वज्-जनाः प्रीणयेयुर्
जिज्ञासु-जनाश् च नूनम् उपकृता भवेयुर् इति
ध्रुवं प्रत्येति॥
सुखरात्रौ २०५० वि०
वाराणस्याम्
भागीरथप्रसादत्रिपाठी ‘वागोशः शास्त्री’
विषयसूची
विषयाः
- १. प्रथमं प्रकरणम् १ – १४
- २. द्वितीयं प्रकरणम् १५ – २१
- ३. तृतीयं प्रकरणम् २२- २८
- ४. चतुर्थं प्रकरणम् २९-३९
- ५. पञ्चमं प्रकरणम् ४०-४९
- ६. षष्ठं प्रकरणम् ५०-५२
- ७. सप्तमं प्रकरणम् ५३