३ विकल्प-विप्लवः

तृतीयं प्रकारणम् अथ तृतीयं प्रकरणम्

यस्य माया-परिस्पन्द-
विहिता विश्व-संस्थितिः।
1 अस्मद्-विकल्प-संकल्प-
संहर्ता तम् अहं नतः2

3 “सर्वो विकल्पः संसार
इत्य् उक्तेर् अयम् आशयः
यद्-अ-सत्त्वं सृतेः 4 सत्त्वं
शुद्धायाः संविदः स्थितम्

विकल्प-शब्दो लोकार्थ-
प्रसिद्ध्या 5 न हि सार्थकः
किन्तु शास्त्र-प्रसिद्ध्यैव,
सा चास्मिन्न् अप्रतिष्ठिता+++(=??)+++

सत्सु शब्देषु चार्थेषु,
संवृतो वाथ वास्तवः
संबन्धस् तेषु संभाव्यो
विकल्पार्थो बहिः, क्व सत् ॥ ४ ॥

अर्थ-वन्तः सर्व-शब्दा
विकल्पार्थेन यन् मतम्
औपचारिकया+++(=??)+++ वापि
सत्तया तन्-मत-द्वये

भवेद् एतद् विकल्पार्थो
यदि कश्चित् स्थितो भवेत्
यावद् एतत् तद्-अर्थस्य
नाद्याप्य् अस्ति प्रतिष्ठिति 7+++(=??)+++

न चोपचार-सत्तापि
विकल्पार्थात् परा मता
पृथक्त्वं वास्तवत्वं स्याद्
उपचारेऽस्तमायाति

विकल्पशब्दस्यान्ये किं
शब्दाः पर्यायतां गताः
सा वा तेषां यद् एतस्य
तेषां चैकार्थतोच्यते?

विकल्प-शब्दो नाप्य्-अर्थस्
तेषां ते न तद्-अर्थता ।
उच्यते सर्वशब्दानां
यदि लोको ऽनुमन्यते

विकल्प-शब्दत्वं वाच्यं
यदि किञ्चित् प्रकल्पयेत् ।
इतरेऽपि तद्-अर्थं न
नार्थवन्तः कथं किल

B:-विकल्पसे 2. B: नगः A: सर्वे 3. 4. A: - सत्त्वमृतैः 5. B: - प्रसिद्धा 6. B: प्रतिधितो 7. B: yffer: 8. AMU: नयति संवित्प्रकाशः ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ | ॥ १४ ॥ I ॥ १५ ॥

“विकल्पार्थश् च शब्दार्थ”
इत्य् उक्तिः पर्यवस्यति
निरर्थकत्वे शब्दानां
विकल्पार्थो यतो गतः

स्थित्य्-उत्पत्ती विना शब्दौ
यदा मोह-विमोहिताः ।
पतन्ति प्रतिपत्तारः
स विकल्पो विविच्यते

विविच्यते विकल्पोऽपि
विकल्पेन तद्-आत्मना
विचार-रहितं येन
निर्विकल्पं स्व-वेदनम्

विचार्यते विकल्पस्य
व्यापार-स्थितिर् उद्भवः
स्वरूपं वेत्ति नैतेभ्यो
यद् विचारपदं परम्

तत्र स्वरूपं शब्दो वा
ऽप्य् अर्थो वा ज्ञानम् एव वा
शब्दार्थयोर् विकल्पत्वं
न तावल्लोकसंमतम्

शिष्यते केवलं ज्ञानं
न तत्रापि विकल्पता
सर्वत्रास्ति विशेष्यत्वं
विकल्पेन चितो यतः

संभवे व्यभिचारे च
विशेषणप्रदा चितिः
विशेषण-पदस्यार्थे
प्रसिद्ध्य् आङ्गीकृते सति

यावद् विकल्पशब्दस्य
कश्चिदर्थो न साधितः ।
तावद् विशेषणं 10 नायं
शब्दमात्रो निरर्थकः ॥ १८ ॥

उद्भवश्चिन्त्यते तस्य
यस्य व्यापारसंस्थितिः 11 ।
ज्ञायते तदभावे तु 12
कस्य कस्मात् समुद्भवः ॥ १९ ॥

  1. AB: नमन् 2. AB: शाब्दी 3. B: प्रतिपन्नातः
  2. B: विरिच्यते

A: चेति 6. B: नाव- 7. B: विकल्पना 8. B: मुनि 9. B: मापितः 10. B: विशेषणे 11. AB-संस्थिती 12. B:-भावेन 23 24

स्थितिर् अव्यापृतस्यापि
न कस्याप्य् उपलभ्यते ’
व्यापारेण पदार्थानां ±
यत्-स्वरूपाव-धारणम्

अर्थ-क्रिया-समर्थत्वाल्
लक्षणत्वाद् +धि वस्तुनः
यद् अनर्थक्रियाकारि
न तत् सद् इति युज्यते

व्यापार-विरहाद् एव
न पुष्पादेर् असत्-प्रथा 5
व्यापारश्च विकल्पस्य
न स्वात्मनि परेऽपि वा ॥ २२ ॥

नाभिमान-गृहीतोऽपि
विकल्पस् तेन नैव सत्
परस्य तेनासंस्पर्शो
यथावद् वस्तुनस् ततः 7 ॥ २३ ॥

व्यापारः स्वात्मनि न च
सिद्धेः स्वात्मनि तेन‍ किम्।
नहि 10 सिद्धेषु भावेषु
व्यापारः फलवान् भवेत् ॥ २४ ॥

अभिमान-गृहीतं तु
भवेत् संभावनास्पदम् विकल्पाद् अभिमानस्य
मतिभेदे प्रसाधिते ॥ २५ ॥

यस्त्वैक्ये 11 नाम भेदोऽयम्
एतयोर् न स्वरूपतः
गृहीतोक्तिर् अतो 12 व्यर्था
स्वात्मैवास्तु13 तथाविधः ॥ २६ ॥

तस्माद् विकल्पः 14 संशुद्धाद्
विज्ञानान् नातिरिच्यते
तेनैव निर्विकल्पो ऽयं
विकल्पः स्वात्मनि स्थितः ॥ २७ ॥

अगृहीते गृहीतोक्तिर्
निश्चितोक्तिर् अनिश्चिते क्रियते मन्द-मतिभिर्
विकल्पस्य कल्पकैः ॥ २८ ॥

B: प्युलभ्यते 2. B: यतव- 3. 4. B:-विरहारे र्वान B: पुण्यादे- 5. B: सन्यथा 6. B: न नैव सत् इति नास्ति 7. A: गते, B:-गत- 8. B: न च इति नास्ति 9. B: नास्ति 10. B: नास्ति 11. B: यद्येक्ये 12. B: न्यर्था 13. B: न्य 14. A: विकल्प

पूर्वापरं न मन्यन्ते
नापि शब्दस्य कारणम्
विकल्पः केवलं ज्ञानं
न च ज्ञानं विशिष्यते

विशेषणं विजातीयं
तच्च ज्ञाने जडं भवेत्
न जडस्य प्रवेशोऽस्ति
ज्ञानात्मनि कथञ्चन

परस्परविरुद्धा हि
जडचेतनयोः स्थितिः
प्रकाशस्य तमः शक्तं
न विशेषयितुं क्वचित्

पूर्वापरेण संबन्धम्
अशक्यं भिन्नकालता
पौर्वापर्ये यतो हेतुस्
तच् चैकः15 कथं न सः

अथ निर्विषयं ज्ञानं
न 16 क्षमं भवितुं यदि
विषयोऽपि कथं शक्तः
स्थातुं विषयिणा विना

परस्परविधातृत्वं
यदि वा मतम् एतयोः
तद् अयुक्तं यतः कार्यात्
कारणं पूर्वम् इष्यते ॥ ३४ ॥

परस्परानपेक्षा चेत्
सत्ता विषय-तद्वतोः सिद्धा सिद्धो विकल्पस्य 17
स्वात्मैव हि तथाविधः 18 ॥ ३५ ॥

विकल्पात्मनि सर्वत्र 19
व्याप्य 20 चेद् आस्थिता चितिः ।
विकल्पस्य विकल्पत्वं 21
किं तज् ज्ञानातिरेकि यत् ॥ ३६ ॥

विषयान् न विकल्पत्वं ±2
न स्वरूपाच् चिदात्मकात् । विकल्पस्य विकल्पोक्तिस्
तदिदं खे विलीयते

यैर् विकल्पात्मनि ज्ञानं
सर्वम् एव प्रतिश्रुतम् 23
24 तैर् अर्थान् निर्विकल्पं तद्
उक्तं स्वात्मन्य् अकल्पनात् ॥ ३८ ॥

  1. AB: स्तौ चेकं 16. B: क्षमं च
  2. B: विकल्पोऽस्य
  3. B: तथाविधिः
  4. B: संवृत्त
  5. B: वेद-
  6. B: विकल्पत
  7. A: विकल्पत्व, B: पिकल्प
  8. B: प्रतिकृतम्
  9. B: तैर 25 26

यैर्वा विकल्प०हेतुस् तद्
विकल्पे किं न बोधता बोधता चेत् कुतो भेदो
न हि स्वात्मनि भिन्नता ॥ ३९ ॥

अबोधता विकल्पे चेत्
कथं विज्ञान-जन्यता नोपादानं विरुद्धस्येत्य्
एवं नान्य-गति-स्थिते:

अन्यत्वे च विरुद्धत्वाज्
ज्ञानं नैवोपपद्यते
विरुद्धत्वं विनान्यत्वे
स्वात्मैव हि न किं परः

तस्मादस्तीह विज्ञानं
नित्यं सहजनिर्मलम्
एकं विचाररहितं
यद्योगिभिरुपास्यते

1180 11 ॥ ४१ ॥ । ॥ ४२ ॥

एवं चेज्जगतश् चित्रा
संस्थितिः किं कृता मता
अविचित्रात् तु विज्ञानाद्‍
वैचित्र्यमुपपद्यते ॥ ४३ ॥

अत्रोच्यते न वैचित्र्यं
पदार्थेषूपपद्यते
सर्वस्यात्मैकनिष्ठत्वात्॰
परेण च न संगमात् ॥ ४४ ॥

”तद्वद् भावैकतात्यागात्
तत्त्यागे चित्रता गतेः पृथग्बाह्येषु दृष्टेषु
बहुभिन्नास्ति १ चित्रता

एकबुद्धिसमारूढे
चित्रत्वे का विचित्रता
पृथक्स्थितेषु 10 बाह्येषु
का भावेषु विचित्रता

ज्ञानस्य च विचित्रत्वं 11
स्वप्नेऽपि न यदा हृतम् । प्रबुद्धे तदिहादित्वम्
इति केनावगम्यताम्

जागरायां यथा बुद्धैः 12 13
स्वप्रज्ञानम् असत्कृतम् ।
जागरापि तथा शुद्ध-
ज्ञानात्मभिरसत्कृता

  1. A: भेधता
  2. A: न्याय-
  3. B: राता
  4. A: अविचित्रा तु, B: अविचिन्नान्नः
  5. AB= विज्ञाताद्
  6. B: निष्टत्वात् 7. B: ननुद्धावेकता 8. B: पृथगङ्गेषु 9. B: वङ्गभिज्ञास्ति 10. B: पृथकियतेषु 11. B: स्वमे
  7. B: बुद्धेः
  8. B: स्वम- ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥ 1182 11

तस्माद् यैर् उच्यते
मुढैर् विचित्रेयं प्रथा कुतः
ते प्रत्युक्त्या विचित्रत्वस्यै-
कवस्तु-समाश्रितेः

यस्मान् निरंशे विज्ञाने
चित्रतायाः समुद्भवः

1188 11

सांशे भवेयुस् तेऽप्यंशा
भिन्नता नास्ति वै यतः ॥ ५० ॥

तेन विज्ञानविज्ञेया
’ तत्रान्येन न संस्थितिः
तस्माज् ज्ञानम् असंक्रान्त- रूपं शक्तं न तदृते ॥ ५१ ॥

रूपसंक्रान्तिम् एतस्य
‘भागवृत्तां प्रकल्पयेत् सा चास्मिन् दुःशका ज्ञातुं
तेन न ज्ञानचित्रता ॥५२॥

ज्ञानेन न यदादिष्टं
न तद् ग्राह्येन गम्यते
तथैकतायां चित्रत्वम्
अपि बाह्येऽतिदुष्करम्

अनेकता चित्रता हि
सा चैकत्वविरोधिनी
ज्ञानज्ञेयपरित्यागाच्
चित्रता शब्दमात्रकम्

एवं वैचित्र्यसद्भावे
प्रतिषिद्धे पराकृता मातृमानप्रमेयाणां १
पृथक्त्वानाम् अपि 10 स्थितिः ॥ ५५ ॥11

एतत्-त्रय-परित्यागे
येन रूपेण भूयते
तेनैव सत्यं विज्ञेयं
तद्-अन्यद् असमञ्जसम् ॥ ५६ ॥

विलीयमाने पुरतः
स्वात्मस्थस्यासमञ्जसे 1 प्रपञ्चेऽस्मिन्न् अविश्वासे 12
विश्वस्तास्ते कथं चिरम् ॥ ५७ ॥

स्वप्ने वापि समाश्वास
इत्थं केन निवारितः
नहि स्वप्नेन दृश्यन्ते
भावा बहुविधा बहिः ॥ ५८ ॥

  1. B: संशे
  1. B: भावेयुस् - 3. AB= तेन्य
  2. AB- स्तत्र-
  3. A: तं द्वितौ, B ते द्वतौ
  4. A: भागवतां
  5. A: नास्ति
  6. AB: ग्राह्यैव
  7. B: - प्रमेयानां
  8. B: पृथक्यानामपि
  9. A: श्लोकाः ३/३९-४२ ३/५४-५ श्लोकयोर्मध्ये विद्यन्ते 12. AB: विश्वस्ता:

[[28]]

‘स्वप्ने भीतैः प्रयत्नेन
प्राप्यते जागरा यथा
जागरायां तथा दुःस्थैर्
यत्नाल् लभ्या परात्मता ॥ ४९ ॥

इति वामनदत्तेन
विकल्पोऽपस्तवः कृतः
य एनम् अवगाहन्ते
बाध्यन्ते ते न विप्लवैः 2 ॥ ६० ॥

विकल्पविप्लवो नाम तृतीय प्रकरणम्

  1. B: स्वप्न 2. B: fata:
  2. A: लोका: ६१