अथ प्रथमं प्रकरणम्
ॐ कृष्णाय नमो नमः ।
श्रीपरमात्मने नमः ।
ॐ श्रीगुरवे नमः।
ॐ शिवो जयति ॥
वेद्य-वेदक-रूपेण
बहिर् अन्तर्-व्यवस्थया
भेद-प्रधान-संकल्पो
विभेदयति तत् तथा …
न तद् अन्तर् न तद् बाह्ये
न वेद्ये वेदके न च
नान्तरा न च मध्येऽपि
सर्वथापि तद् अन्यथा …
यद् विकल्पैर् अनाक्रान्तं
यच् छब्दैर् अकदर्थितम्
यद् उपाधिभिर् अम्लानं
नौमि तद् वैष्णवं पदम्
दूरापास्त-विकल्पेन
न चेन् माया ऽनुभूयते 3
माध्यमां+++(=??)+++ वृत्तिम् आस्थाय
स संवित्-प्रसरो ऽमलः
सर्वः स्वरूपं जानाति
परो ज्ञेयो न कस्यचित्
रूपं स्वं, सर्व-गं च त्वं,
त्वयेदं पूरितं जगत्
प्रकाशकानां स्वे रूपे
प्रकाश्यत्वं न दुर्लभम्
यद् अनिर्भक्त-रूपास् ते
स्वरूपस्य प्रकाशकाः
केवलं वाक्य-भावोऽयं,
यद् अभिन्नम् अपि स्वयम्
“विभेदयति तद् वस्तुष्व्
इति-कर्तव्यता-वशात्”
यथा “राहोः शिर” इति
शब्दे भेदो न वास्तवः
तथा स्वात्मनि वेद्यत्व-
भेद-शब्दो न वास्तवः
यथा चक्षुः-स्थितं रूपं
बाह्यं स्वं रूपम् ईक्षते +++(←कथम्??)+++
तथा ज्ञान-स्थिता संविज्
ज्ञेयं स्वं रूपम् ईक्षते ॥ ९ ॥
यथाग्निना समाविष्टं
सर्व तद् रूपम् ईक्ष्यते ।
तथा ज्ञान-समाविष्टं
सर्वं तद् रूपम् ईक्ष्यताम् 1
2प्रमातृ-पक्ष-भावेषु
न ह्य् अवस्थावकल्पते
यतस् ततः प्रकाशसे
स्वयम् एव तदात्मना +++(=??-)+++॥ ११ ॥
त्वद्-आत्मकत्वं भावानां
विवदन्ते न केचन
यत्-प्रकाश्य-दशां ध्यातो
नाप्रकाशः प्रकाशते ॥ १२ ॥
अपरोक्षे भवत्-तत्त्वे
सर्वतः प्रकटे स्थिते
यैर् उपायाः प्रतन्यन्ते
नूनं त्वां न विदन्ति ते
देश-काल-क्रियाकारैर्
अवच्छिन्नेषु वस्तुषु
अनवस्थित-रूपस् त्वं
भासे भास्य् अबहिः स्थितः
त्वया सर्वम् इदं व्याप्तं
त्वयि सर्वम् इदं स्थितम्
भावकश् च त्वम् एवास्य
सर्वस्य जगतः प्रभो
सर्वेश्वरत्वे सर्वज्ञे
सर्वत्वे यैस् तव प्रभो
प्रमाणम् उच्यते नूनं
भवन्तं ते न जानते
मातृत्वं यत्र मानत्वाद्
व्यतिरिक्तं न किञ्चन
मेयत्वाद् वा जगन्नाथ
तत्र कस्येदृशी कथा
कालान्तस्थ महाभूत3
यथेष्ट-विनियोजक 4
सर्गेण देह-दृष्टस् त्वं
यदा सर्वेश्वरस् तदा
सर्वज्ञश् चेतनः संस् त्वं
यतः कारणतां गतः
सर्वस्याव्यतिरेकेण
स्वरूपेणापरिच्युतः
[[3]]
सर्वज्ञः सर्वदैव त्वं
सर्वस्य हृदये न चेत्
केनान्यथास्य सम्भाव्या
नष्टार्थविषया स्मृतिः ॥ २० ॥
मनः संक्षिप्य विषयात्
त्वय्य् आसीनो जितेन्द्रियः ।
यद् यद् विधित्सति तथा
तत् तज् जानात्य् असंशयम् ॥ २१ ॥
ज्ञेयं ज्ञानाद् बहिर्-भूतं
स्वप्नेऽपि हि न दृश्यते ।
अतस् त्वद्-आत्मकं विश्वं
ज्ञान-रूपो यतो भवान् ॥ २२ ॥
ततः शुद्ध-चिद्-आत्मत्वाद्
विश्व-रूपस् त्वम् उच्यसे
परिनिष्ठितरूपं हि
कथं रूपान्तरं श्रयेत् ॥ २३ ॥
वेद्यं स्वरूपतां नीत्वा
यदा जानाति वेदनम्
तदानीं वेद्यता का स्यात्
का वा वेदनता परा ॥ २४ ॥
वेद्य-वेदक-रूपाभ्यां
यच् छून्यं भावकं च यत्
तद् एव वासुदेव त्वं
ततः संवित्-समुद्भवः
त्वद्-ध्यानामृत-निःष्यन्द-
निःशेष-क्षालिने नमः
सद्-असद्-वासना-क्षीणे
आनन्दात्मनि दृश्यसे
निर्मलानन्द-बोधैक-
रूपस् त्वं भव्य-बुद्धिभिः
वेद्याद् वा वेदकाद् वापि
लभ्यसे ऽवहितात्मभिः ॥ २७ ॥
तवाचित्रैक-रूपस्य
वेद्य-वेदकता-मयी
नाथ मिथ्यैव मन्यन्ते
सत्य-चिन्-मात्र-रूपिणः ॥ २८ ॥
न शान्तम् उदितं नापि
तव रूपं न मध्यमम्
रूपं, रूपं तव हरे
यन् न केनचिद् उच्यते 5
यदैव विदितं विश्वं
तदानीम् एव चिन्मयम्
यन् नास्ति भागो वेद्योऽसौ
नाथ यो वेदकाद् बहिः ॥ ३० ॥ संवित् त्वदात्मा चेत् सत्यं तदिदं त्वन्मयं जगत् ।
B: तावक
B : वपुं B: व्यञ्जते
B: ख्या
-
AB : इयं पंक्तिर्नास्ति ↩︎
-
AB : -पेक्षा- ↩︎
-
A: महाद्भूत ↩︎
-
AB : - विनियोजकः ↩︎
-
B: केनद्विच्यते 4 संवित्प्रकाशः वेद्यो वेदकतामाप्तो वेदक: संविदात्मताम् विकल्पमूलतादोषाद् भिन्नैः शब्दैर्न तत्कथा ॥ ३१ ॥ चिद्भिन्नोऽपि यच्छब्दः कथं तेनापि तत्कथा ॥ ३२ ॥ सर्वातीतमतः केन तव रूपं निरूप्यते निरूपणा भवेद् भिन्ने भिन्नश्चात्मा न कस्यचित् ॥ ३३ ॥ स च त्वमेव सर्वात्मा ततोऽपि न निरूप्यसे । केवलं निस्तरङ्गेण स्वरूपेण परात्मना परित्यक्तविभागेन ज्ञायसे न विकल्पसे विकल्पातीतरूपत्वात् प्रत्यक्षोऽप्यसि विस्मृतः 6 । ॥ ३४ ॥ । ॥ ३६ ॥ ॥ ३७ ॥ पुरः स्थितो यथा भावश्चेतसो ऽन्याभिलाषिणः ॥ ३५ ॥ अविच्छिन्नापि रविभा भावैस्तेभ्यः पृथग् यथा । तथा प्रकाश्यसर्वार्थास्तेभ्योऽपि अतिरिच्यसे सृजन् विदन् ज्ञापयंश्च त्रिधैकस्त्वं प्रकाशकः व्यतिरिक्तः प्रकाशेभ्यो न यथान्ये प्रकाशका : ० न प्रकाशाः प्रकाशन्ते त्वत्प्रकाशोदयं विना प्रकाशाख्यस्त्वमेकोऽतः सर्वेऽन्ये तमसा समाः 7 अखण्डास्ते न भासन्ते विवेको नावतिष्ठते सर्वे समं समाभान्ति’ चिद्भानावुदिते त्वयि अन्धानामप्यनन्धत्वं1° मूकानामनपायिवाक् । ॥ ३८ ॥ ॥ ३९ ॥ अवचिन्वन्ति 11 मार्ग तं 12 समं सर्वस्य वेदने 13 ॥ ४० ॥ ↩︎