तत्रोत्तरतापिन्युपनिषत्- ॐ भद्रं कर्णेभिरिति शान्तिः ३॥ यदाहुः स्वस्तिनइंद्रो… बृहस्पतिर्दधातु ।
प्रजापति रुवाचोर्ध्वरेतसः ॐ आपो वा इदमासन् सलिल मेव स
प्रजापति रेकः पुष्करपर्णे समभव द्भगवतोऽस्यान्तर्मनसि काम
स्समवर्तत इदं सृजेय मिति। स तपोऽतप्यत। स तपस्तप्त्वा स एतं
संसृष्टं वेङ्कटेशेति चतुरक्षरं समलभत। ततः कालेन आदितः श्रीबीजं
च खादेवालभत। एवं पञ्चाक्षरं स्मरणीय मभवत्। तं पञ्चाक्षरं
मन्त्रं स्मरन् स्थित्वा ततः कालेन तन्मन्त्रमहिम्ना सहस्र शीर्षादि
लक्षितं पुरुषं प्रत्यक्षीचकार। तथा च यजूंषि - सहस्रश्रीर्षा पुरुष
इत्यादीनि षोडश प्रसिद्धानि। ततो ब्रह्मा बिभयाञ्चकार अलौकिक मप्रतिमं
रूपं वीक्ष्य। स तमाश्वासयत्। ततो भगवान् तस्य दिव्यदृष्टिं प्रददौ
च। ततो ब्रह्मा कस्त्वं को हमित्युवाच। नारायणः क एवाहं
कस्त्वमेवासीति। तस्माद्भगवतो नारायणस्य क इति मुख्यनाम तथैव क
इति ब्रह्मणश्च नामासीत्। अतः क इति नारायणकृतं ब्रह्मनाम
जानीयात् - यो जानीते सोऽश्वमेधफलमाप्नोति।
अथ नारायणो ब्रह्मणे नाभिपद्मगताय वेङ्कटेशाख्यं रूपं
दर्शयामास। इद मतिरहस्यं गोप्याद्गोप्यतरम्। एतत्परं नवाक्षरं
’’ॐ नमः श्रीवेङ्कटेशाय’’ इत्युपादिशत्।
तज्जपा दुद्बुद्धतत्त्वः स्रष्टु मुपाक्रामत्। भगवन्किमिद मादौ
चतुरक्षर मनु पञ्चाक्षरं तदनु नवाक्षरं मन्त्रं पर मुपदिष्टवा
निति। सोऽब्रवीत्। ब्रह्मा त्वत्तः सृष्टिकामोऽह मद्य त्वं तद्विधाने
नानुष्ठानं विना तस्य न शक्नोषि किं बहुना अहमपि। मम
तद्रूपानुसन्धानं प्रेक्षितुं न शक्नुया इति। अथ विस्मितो महाप्रसाद
इति ब्रह्मा प्राणमत्।
तमनु ततः शिरः स्पृष्ट्वा हृदये वेङ्कटेशाख्यं दिव्यं रूपं
चतुर्भुजं वक्षःस्थलस्थित दिव्यमङ्गल दीप्यमानं कटिवरद शङ्खचक्र
कर चतुष्टयं पीताम्बरं नीलमेघश्याम मप्रतर्क्य प्रत्यङ्ग
शोभाभिरामं ध्यानगोचरं कारयित्वा मुख्याष्टाक्षर महामन्त्र
मुपदिदेश। तस्य ब्रह्मा ऋषिः। गायत्री छन्दः। इति सकल चराचर
नियामिका वेङ्कटदेवतेति पूर्वोक्तमेव ध्यानमिति।
अदौ प्रणवं दक्षिणे कर्णे व्याहरत्, नम इति पश्चात्, वेङ्कटेशाये
त्युपरिष्टात्। ॐ इत्येकाक्षरं, नम इति द्वे अक्षरे, वेङ्कटेशायेति
पञ्चाक्षराणि। एतद्वेङ्कटेशस्याष्टाक्षरं पदम्। योह वै श्रीवेङ्कटेश
स्याष्टाक्षरं पदमध्येति, अनुपद्रवः सर्वमायुरेति, विन्दते प्राजापत्यं
रायस्पोषं गोपत्यम्। ततोऽमृतत्वमश्नुत इति। प्रत्यगानन्दं
[[594595]]
श्रीवेङ्कटेश तापिन्युपनिषत्शान्तिमन्त्रमु
ब्रह्मपुरुषं प्रणवस्वरूपं अकारः उकारः इति। तदेकं समभवत्तदो
मिति’यमुक्त्वा मुच्यते योगी जन्म संसार बन्धनात्’। ॐ नमो
वेङ्कटेशाये त्यष्टाक्षर मूल मन्त्रोपासकः श्रीवेङ्कटेश सकृद्दर्शनपरः
श्री वैकुण्ठभवनमेकस्मिन्नेव जन्मनि गमिष्यति। तदिदं पुरुषं पुण्डरीकं
विज्ञानघनम्। तस्मात्तटिदाभमात्रो ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो
मधुसूदन इति। सर्वभूतस्थ मेकं वै वेङ्कटेशं कारण पुरुष
मकारणं परं ब्रह्म। ॐकारेण सहितं भवत्योमि त्येतदक्षर मिदं
सर्व मित्याद्येत दथर्वण शिखा वेङ्कटेश मन्त्र वैभवं योऽधीते स
सर्व महा पातकोपपातका त्प्रमुच्यते। तस्य श्रीवेङ्कटेशस्य नारायणस्य
सायुज्यमाप्नोति। य एवं वेदेत्युपनिषत् ॥ १ ॥
अथाहाष्टाक्षरं वै वेङ्कटेशं ध्यायन् जपं स्तन्महिम्ना मन्त्रराज
मानुष्टुभं वेङ्कटेश मपश्यत्। तेन च वै सर्व मिद मसृज दष्टाक्षरेण
यदिदं किं च। तत एवाष्टाक्षरेण वा इमानि भूतानि जायन्ते,
अष्टाक्षरेणैव जातानि जीवन्ति, अष्टाक्षरं प्रयं त्यभिसंविशन्तीति। तेनैव
सर्वा वाचोऽपि सम्पद्यन्ते। तस्ता त्सर्वात्मक मष्टाक्षरं य एवं वेद
स सर्वात्मवान् भवति ॥ २ ॥
अथाह श्रीमन्नारायणाष्टाक्षरं ब्रह्मणे समुपदिश्य तन्महिम्ना
प्रपञ्चं तन्मुखाद्विचय्य तदनुजिघृक्षुः पुनः कदाचि दागत्य ब्रह्मन्
वत्सत्वं प्रपन्नोऽसि रहस्यद्वयं न गृहीत्वा भगवानसीति, तदा
निगर्वितः पुत्रः प्रणिपातादि कुर्वन्ननुशाधि मामिति, ततो मूर्धान
मभिमृश्य, शृणु वत्स महाचक्रविधानमिदं ब्रह्माहोमिति।
अथाह नारायणः इदं सार्वकामिकं मोक्षद्वारं यद्योगिन
उपदिशन्ति षडरं वा एतत्सुदर्शनं महाचक्रं तस्मा त्सहस्रारं
हुम्फडिति षडक्षरं भवति षट्कोणं चक्रं भवति। षड् वा ऋतवः
ऋतुभिः सम्मितं भवति। मध्ये नाभि र्भवति। वृत्ताकारेण नाभ्यां वा
एते अराः प्रतिष्ठिताः मायया वेष्टितव द्भवन्ति। अत एव
माययात्मानं स्पृशन्ति। तन्मध्ये श्री ॐ नमो वेङ्कटेशाय ग्लैमिति
लेखनीयं भवति।
अथाष्टाक्षर मष्टपत्रं चक्रं भवति। तन्मध्ये श्रीवेङ्कटेशाय नमः,
ॐ नमो नारायणाय, ॐ नमः श्रीवेङ्कटेशाय, ॐ नमो
वेङ्कटेशायेति मालाष्टाक्षरो मन्त्रः प्रधानतया लेख्यो भवति। अष्टाक्षरा
वै गायत्री। गायत्र्या सम्मितं भवति। बहिर्मायया वृत्ताकारेण
वेष्टितं भवति। क्षेत्रं क्षेत्रं वै मायया सम्पद्यते।
अथ द्वादशारं द्वादशपत्रं चक्रं भवति। तन्मध्ये श्रीनिवासाय
वेङ्कटेशाय नमः, ॐ नमो भगवते वासुदेवायेति च लेख्यो भवति।
द्वादशाक्षरा वै जगती। जगत्या सम्मितं भवति। बहिर्मायया वृत्ताकारेण
वेष्टितं भवति, स्थूलदेहं मायया स्पृशति।
अथ षोडशाक्षरं षोडशपत्रं चक्रं भवति। तत्र कादिस्वरा लेख्या
भवन्ति। क्रमात्पुनः कादयः षोडशकला वै पुरुषः। पुरुष एवेदं
सर्वं पुरुषेण सम्मितं भवति। बहिर्मायया वृत्ताकारेण वेष्टितं
भवति। सूक्ष्मदेहं मायया स्पृशति।
अथ चतुर्विंशत्परं चतुर्विंशति पत्रं भवति। श्री वेङ्कटेशाय
परमात्मने नमो महाभीष्टकामानां प्रयच्छ भवति। तद्दलेषु
मालामन्त्रो लेख्यो भवति। चतुर्विंशति मूर्तयः ताभिस्सम्मिता भवन्ति।
बहिर्मायया वृत्ताकारेण वेष्टितं भवति। कारणदेहं मायया
स्पृशति।
[[596597]]
श्रीवेङ्कटेश तापिन्युपनिषत्शान्तिमन्त्रमु
अथ द्वात्रिंशत्पत्रं भवति। तद्दलेषु-
’’नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे।
वासुदेवाय शान्ताय श्रीनिवासाय मङ्गलम्’’ ॥
इति लेखनीयं भवति।द्वात्रिंशदरा वा अनुष्टुभा सम्मितं भवति।
अष्टोत्तर नवतिभिर्वा एतत्सर्वतः सङ्क्रामति। छन्दांसि वै पत्राणि।
अथ तदुत्तरं भूपुरत्रयेण वेष्टितं भवति। द्वारेषु मुखे क्षं
क्षेत्रपालाय नम इति, पृष्ठे तं तण्डुभैरवाय नम इति, दक्षिणे
दुन्दुर्गायै नम इति, वामतो गं गणपतये नम इति, द्वारदेवता
स्थापनं भवति। तद्वाव एतच्छ्रीवेङ्कटेश्वरं महाचक्रं सार्वकामिकं
मोक्षद्वारं ऋङ्मयं यजुर्मयं साममयं ब्रह्ममय ममृत
मयं भवति। तस्य पुरस्ता द्वसव आसते। रुद्रा दक्षिणतः अदित्याः
पश्चा द्विश्वे देवा उत्तरतो, ब्रह्मा विष्णु महेश्वरा नाभ्याम्।
सूर्याचन्द्रमसौ पार्श्वयोः।
तदेत दृचाभ्युक्तम् - ऋचो अक्षरे परमे व्योमन्। यस्मिन्देवा
अधिविश्वे निषेदुः। यस्तं न वेद किमृचा करिष्यति। य इत्त द्विदु स्त
इमे समासत इति।
तदेतच्छ्रीवेङ्कटेश्वरं महाचक्रं बालो वा युवा वा वेद, स
महान् भवति। अष्टाक्षरेण होमं कुर्यादष्टाक्षरेणार्चनम्। तदेत
द्रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ शिखायां वा
बध्नीत। सप्तद्वीपवती भूमि र्दक्षिणार्थं नावकल्पते। तस्माच्छ्रद्धया यां
काञ्चिद्गां दद्यात्सा दक्षिणा भवति।
अथाह नारायणः कृतकृत्य मात्मानं मन्यमानं वत्स ब्रह्मन्
रहस्यं त्वं यदन्तर्भूतं तृतीयं, तन्न वेत्सि तदुह तमुपदेक्ष्यामि
यदनुपदेक्ष्य नैतद्विद्यायाः पूर्तिर्भवति। जन्मकोट्यापि देवो न प्रसीदति।
न यज्ञ दान मात्रेण सर्वपूर्ति र्भवति। ततः खेचरीं मुद्रां तेऽ
हं दास्यामि। देयं राज्यं, देयं शिरः न विचार्यैषा मुद्रा खेचरी
देया भवति। खेचरी मुद्रायां सद्यः प्रकाशकं परिभासते। अभ्यासा
त्पवनमनः क्षयमूला द्देवस्य प्रत्यक्षं भवति। देहान्ते निस्संशयेन
देवोऽपरोक्षो भवति।
ऋजुकाय स्सिद्धासनोऽधोमुख मुन्नमय्य नासाग्रे षण्मुखी
मुद्रया तेजः पश्येत्। कुलं पवित्रं तस्य कृतार्धा जननी पुण्यवती
विश्वं भारतेन। तस्मा न्नित्य मेककालं द्विकालं त्रिकालं वा खेचरी
मभ्यसेत्। शुचिः पूतः कर्मणो ब्राह्मणः कृतकृत्य इह भुक्त्वा भोगान्
अन्ते सायुज्यं गच्छतीत्युपनिषत् ॥ २ ॥
अथ कैर्मन्त्रैः स्तुतो देवः प्रीतो भवति? येन प्रत्यहं श्रोत्रेण
खेचर्यादि रहस्य त्रयानुसन्धानेन विना वैकल्यसिद्धि र्भवति, तं ते
वदामीति नारायणः, ॐ यो ह वै श्रीवेण्टेश्वरो देवो भगवान्
भूर्भुवस्सुव रेतस्मै वै नमो नमः। ॐ यो ह वै श्री वेङ्कटेश्वरो
देवो भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः। यश्च विष्णुः, यश्च
महेश्वरः, यश्च पुरुषः, यश्चेश्वरः, या सरस्वती, या श्री, र्या
गौरी, या प्रकृति र्या विद्या, यश्चौङ्कारः, याश्च तस्यार्धमात्रा,
वेदास्साङ्गाः सशाखाः, ये पञ्चाग्नयः, या स्सप्त व्याहृतयः, ये
चाष्टौ लोकपालाः ये चाष्टौ वसवः ये च रुद्राः ये चादित्याः, ये
चाष्टौ गृहाः, यानि च पञ्चमहाभूतानि, यश्च कालः यश्च मनुः
यश्च मृत्युः, यश्च यमः, यश्चान्तको, यश्च प्राणः, यश्च सूर्यः
, यश्च सोमः, यश्च विराट्, यश्च जीवः, यश्च सर्वं तस्मै वै नमो
[[598599]]
श्रीवेङ्कटेश तापिन्युपनिषत्शान्तिमन्त्रमु
नमः एतै र्वा मन्त्रैः देवं स्तुहि। ततो देवः प्रीतो भवति, सात्मानं
दर्शयत्यन्ते खेचरी प्रकाशके चक्रराजे। तस्मा देतैर्मन्त्रैः नित्यं देवं
स्तुत्वा देवं पश्यति, सोऽमृतत्वं गच्छति। खेचरी प्रकाशश्च सर्वपूर्तिश्च
सिध्यति। य एवं वेदेति महोपनिषत् ॥ ३ ॥
नारायणो ब्रह्माण मुपदिदेश रहस्य त्रयानुसन्धानस्य फल
माकर्णयेति। एत द्रहस्य त्रय मेककालं वा नित्य मनुसन्धत्ते सो
ऽग्निपूतो भवति। स आदित्यपूतो भवति। स सर्वपाप्मानं तरति। स
भ्रूणहत्यां तरति। स वीरहत्यां तरति। स सर्वं तरति। य एतं
मन्त्रराज मनुसन्धत्ते सोऽग्निं स्तम्भयति। स वायुं स्तम्भयति।
स आदित्यं स्तम्भयति। स सोमं स उदकं स सर्वान् ग्रहान्। स विषं
स्तम्भयति। य एतं मन्त्रराजं नित्यमधीते देवानाकर्षयति, स
यक्षान्, स नागान्। स सर्वा नाकर्षयति य एवं मन्त्रराजं नित्यमधीते
स भूर्लोकं जयति। स भुवः, स सुवः, स महः, स जनः, स तपः, स
सर्व लोकान् जयति। य एतं मन्त्रराजं नित्य मधीते, सोऽग्निष्टोमेन
यजते। स उक्थेन, स षोडशिना, स वाजपेयेन, सोऽतिरात्रेण, स
आप्तोर्यामेन, स सर्वैः क्रतुभिर्यजते।
य एतं मन्त्रराजं नित्यमधीते, स ऋचोऽधीते, स यजूंषि,
स सामानि, सोऽथर्वणं, सोऽङ्गिरसः स शाखाः, स पुराणानि, स
कल्पान्, स गाथाः, स नाराशंसीः, स प्रणवं, स सर्व मधीते। अनुपनीत
शत मेक मेकेनोपनीतेन तत्सम मुपनीतशतं गृहस्थेन रुद्रसूक्तजापकेन,
पुरुषसूक्त जापकेन, अथर्वणशिरो जापकेन, तापनीयोपनिषज्जापकेन,
मन्त्रराज जापकेन तद्वा एतत्परमं धाम मन्त्रराजाऽध्यापकस्य
चक्रपूजकस्य च खेचरी मुद्रा प्रकाशकस्य।
यत्र न सूर्यस्तपति, यत्र न वायु र्वाति, यत्र न चन्द्रमा
भाति, यत्र न नक्षत्राणि भान्ति, यत्र नाग्नि र्दहति, यत्र न मृत्युः
प्रविशति, यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं
सदाशिवं ब्रह्मादि वन्दितं योगिध्येयं परमपदं वेङ्कटेशाख्यं
वैष्णवं, यद्गत्वा न निवर्तन्ते योगिनः।
तदेत दृचाभ्युक्तम् - ’’तद्विष्णोः परमं पदं सदा पश्यन्ति
सूरयः। दिवीव चक्षुराततं। तद्विप्रासो विपन्यवो जागृवांस
स्समिन्धते, विष्णो र्यत्परमं पदम्’’। ’’न तत्र सूर्यो भाति न
चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽय मग्निः?’’ तमेव भान्त
मनुभाति सर्वं तस्य भासा सर्व मिदं विभाति। तदेत न्निष्कामं
भवति’’ इत्युत्तर तापिन्युपनिषत्।
शान्तिमन्त्रमु
मं॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभि र्यजत्राः
स्थिरैरङ्गै स्तुष्टुवांस स्तनूभिः
व्यशेम देवहितं यदायुः।
मं॥ स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्षो्य अरिष्टनेमिः
स्वस्ति नो बृहस्पति र्दधातु।
ॐ शान्तिः शान्तिः शान्तिः
हरिः ॐ, इति श्रीवेङ्कटेश तापिन्युपनिषत्समाप्ता।
श्रीनिवासाय मङ्गलम्। श्रीकृष्णार्पणमस्तु।
[[600601]]