०१ पूर्वा

ॐ श्रीवेङ्कटेश तापिन्युपनिषत् प्रारभ्यते ॥
तत्र पूर्वतापिनी
मं॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्ये माक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांस स्तनूभिः
व्यशेम देवहितं यदायुः।
मं॥स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तारोक्ष््य अरिष्टनेमिः
स्वस्ति नो बृहस्पति र्दधातु।
ॐ शान्तिः शान्तिः शान्तिः।
॥ हरिः ॐ ॥

१। प्रथमः प्रपाठकः

जनको ह वै नाम राजा वैदेहो राज्ये अमात्यादीन् भ्रातॄंश्च
निधापयित्वेद मशाश्वतं मन्यमानः शरीरं वैराग्य मुपेतोऽरण्यं
निर्जगाम। स तत्र परमं तप आस्थायादित्य मुदीक्षमाण ऊर्ध्वबाहु
स्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिक माजगामाग्नि रिवाऽधूमक स्तेजसा
निर्दहन्निव। सदा तेषां सम्मत आत्मवि च्छाकायन्योऽब्रवी दुत्तिष्ठोत्तिष्ठ
वरं वृणीष्येति राजानम्। स तस्मै नमस्कृत्योवाच भगवन्नह
मात्मवित्त्वं तत्त्वविच्छृणुमो वयं त्वत्तः स्वात्मवेदनसाधनं प्रत्यक्षं
प्रत्यक्ष सिद्धिद मित्युदाहैतद्वृत्तं पुरस्तादशक्यं कथं पृच्चस्येतत्प्रश्नं
वैदेहान्यान् कामान् वृणीष्वेति ॥शाकायन्यस्य तदनु शिरसाऽस्य
चरणावभिमृश्य मानो राजेमां गाथां जगाद ॥
इत्याथर्वणे मन्त्ररहस्ये श्रीवेङ्कटेश
पूर्वतापिन्युपनिषदि प्रथमः प्रपाठकः ॥

२। द्वितीयः प्रपाठकः

भगवन्नस्थि चर्म स्नायु रोम नाडीमांस मेदो मज्जा शुक्र शोणित
श्लेष्माऽसृ क्पूरिते विण्मूत्र वात पित्त सङ्घाते दुर्गन्धे निस्सारेऽस्मिन्
शरीरे किं कामोपभपभोगैः? ॥ १ ॥
काम क्रोध लोभ मोह मद मात्सर्य विषदष्ट वियोगानिष्ट
सम्प्रयोग क्षुत्पिपासा जरा मृत्यु रोग शोकाद्यै रभिभूतेऽस्मिन्
शरीरे किं कामोपभोगैः ॥ २ ॥
सर्वं चेदं क्षयिष्णु पश्यामो यथेमे दंशमशकादयस्तृणवनस्था
उभये प्रध्वंसिनः ॥ ३ ॥
अथ किमेतैर्वा परे महाधनुर्धरा श्चक्रवर्तिनः केचित्प्रद्युम्न
द्युतिद्युम्नेन्द्रद्युम्नाः कुवल यौवनाश्व व्याफ्रू श्वाश्वपति शशिबिन्दु
हरिश्चन्द्राम्बरीषाः अथोऽनुन्मत्ताः स्वर्याति ययात्यनरण्योग्रसे
नादयो मरुद्भरत प्रभृतयो राजानो मिषन्तो बन्धुवर्गं महतीं
श्रियं त्यक्त्वा अस्माल्लोकादमुं प्रयाता इति ॥ ४ ॥
अथ किमेतै र्वा परैः अन्यै र्गन्धर्वाऽप्सरो यक्ष राक्षस भूतगण
पिशाचोरग ग्रहादीनां निरोधनं पश्यामः ॥ ५ ॥
[[585]]
द्वितीयः प्रपाठकः
अथ किमेतैर्वा शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य
चलितं, पातः कल्पक पादपानां, निमज्जनं पृथिव्याः, स्थानादपसरणं,
सुराणा मित्येतद्विधेऽस्मिन् संसारे किं कामोपभोगैः? ॥ ६ ॥
अर्थेष्वेवासक्तस्य सकृदुपावर्तनं दृश्यत इत्युद्धर्तु मरछसि।
अन्धोदपानस्थ भेक इवाह मस्मिन् संसारे भगवंस्त्वं नो गति स्त्वं नो
गति स्त्वं नो गतिः ॥ ७ ॥
अथ जन्म जरा मरण दुःख प्रधाने स्मिन्त्संसारे भगव द्भक्तियोगं
विना नान्य त्परायण मित्यतो वेङ्कटेशस्य सर्वसुलभस्य सर्व
प्रत्यक्षानितरलभ्यस्यास्य सङ्कल्पवशा ज्जातप्रपञ्चे यत्सारभूतं तदेव
ते प्रदर्शयिष्ये वैदेह शृणुष्यैतद्भागवतेनैव चेत्यस्येति ॥ ८ ॥
इत्याथर्वणे मन्त्ररहस्ये श्रीवेङ्कटेश
पूर्वतापिन्युपनिषदि द्वितीयः प्रपाठकः ॥ २ ॥

३। तृतीयः प्रपाठकः

अथ भगवा ञ्छाकायन्यस्त्व ब्रवी द्राजन्! जनक! वैदेह! मैथिल
वंशध्वजशीर्ष! अत्मज्ञः कृतकृत्यस्तं राजर्षे! ब्रह्मविच्छ्रेष्ठ इति विश्रुतो
भवसीत्ययं वा खलु पन्थानो भगवान् पुरा समुपदिदेश। अथ वै ते
ऽहं तद्वक्ष्याम्येतत्सर्वं विदितं भवति ॥ १ ॥
अथ य एषो त्यवष्टम्भेने त्यूर्ध्व मुत्क्रान्तो व्यधमानो व्यधनप्रीत
स्तस्य तमः प्रणुदत्येष आत्मेत्याह भगवान् ॥ २ ॥
अथ य एष सम्प्रेत्यास्मा च्छरीरा त्समुत्थाय परं ज्योति
रुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृत
मभयमेतत्परायणमेतद्ब्रह्मेति ॥ ३ ॥
अथ खल्वियं ब्रह्मविद्या सर्वा सर्वोपनिषद्विद्या राजन्नस्माकं
भगवता मैत्रेयेण व्याख्याताऽहं ते कथयिष्यामि। तद्यथाऽपहत
पाप्नान स्तिग्मतेजस ऊर्ध्वरेतसो वालखिल्या वैखानसाश्चेति श्रूयन्ते।
अथ ते प्रजापति मब्रुव ञ्छकट मिवाचेतन मिदं शरीरं, तस्वैष
खल्वीदृशो महिमाऽतीन्द्रियेण येन तद्विधमेत च्चेतनवत्प्रतिष्ठापितम्।
प्रचोदयिता वैषोऽस्य को भगव न्निद मस्माक मादौ ब्रूहीति। स
तानुवाच ॥ ४ ॥
एतत्भलु वा व सर्ववरिष्ठः श्रूयते उत्तमपुरुषः स एष शुद्धः
पूतः शान्तोऽप्राणोऽनिशमात्मानोज्ञेयः शाश्वतश्च स्थिर ईशः
स्वतन्त्रः स्वमहिम्नि तिष्ठति। अनेनेदं शरीरं चेतनव त्प्रतिष्ठापितं
प्रचोदयिता वैषोऽस्येति तदधीनोऽयमात्मा पराधीन चेतनोऽनादि
कर्मबद्धः पुरुषसञ्ज्ञो बुद्धिपूर्व मिहैवावर्ततेऽंशेन सुप्तस्येव
बुद्धिपूर्वं विबोधयत्यग्रे। यो ह खलु वावांशांशितामात्रः
प्रतिपुरुषं क्षेत्रज्ञः सङ्कल्पाध्यवसायाभिमानलिङ्गः प्रजापति र्विश्वो
ऽक्षरस्तेन चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितं प्रचोदयिता वैषो
ऽस्येति ॥ ५ ॥
ते होचु र्भगव न्नीदृशस्य कथ मंशीभूत स्यानुरूप स्यात्मनः
पराधीनचैतन्यत्वेन तस्य तु स्वाधीनचैतन्यत्वेन च वर्तनमिति ॥ ६ ॥
प्रजापतिर्वा एकोऽग्रे तिष्ठन्त्स नारभतैकः स आत्मान मभिध्यायन्
बह्वीः प्रजा असृजत। अस्मै वा प्रबुद्ध अप्राणः स्थाणुरिव तिष्ठमाना
अपश्यन्त्स आरभतान्यथैतासां प्रतिबोधनायाऽभ्यन्तरं विशामीति।
[[586587]]
श्रीवेङ्कटेश तापिन्युपनिषत्तृतीय प्रपाठकः
स चतुर्भुजः करवरदरारिपो वेङ्कटेश चित्प्रभारूपो दहर वैकुण्ठ
रथ भूतसङ्घः स्वस्थः स्वतन्त्रः पुनः स वायु मिवात्मानं
कृत्वाभ्यन्तरं प्राविशत्स एको नाशकत्स पञ्चधाऽऽत्मानं
प्रविभज्योद्यतो यः प्राणोऽपानस्समानो व्यान उदान एवैताः शिरा
अनुव्याप्ता एष वा व स व्यानः ॥ ७ ॥
अथोपांशु रन्तर्याम्यभिभवत्यन्तर्यामी उपांशु मनयो
रन्तराले चौष्ण्यं प्रास्रव द्यथौष्ण्यं पुरुषोदयः पुरुषस्सोऽग्नि र्वैश्वान
रोऽसौ। अन्यत्राप्युक्तं अग्नि र्वैश्वानरो योऽयमन्तः पुरुषो येनेद
मन्नं पच्यते यदिद मद्यते तस्यैष घोषो भवति। यदेतत्कर्णौ च
पिधाय शृणोति च यदाक्रमिष्यन् भवति नैनं घोषं तं शृणोति। स
एष पञ्चधात्मानं विभज्य निहितो गुहायां मनोमयोऽशरीरो
भारूपः सत्यसङ्कल्प आत्मा दिव्यशरीरः श्रीवेङ्कटेश इति ॥ ८ ॥
सवा एषोऽस्य हृदन्तरे तिष्ठन्नकृतार्थो मन्यते यत्त्वोदन मश्नाती
त्यथेमानि भित्वौदिनः पञ्चभी रश्मिभि र्विषया नत्तीति। बुद्धीन्द्रियाणि
यानीमा न्येतान्यस्य रश्मयः कर्मेन्द्रिया ण्यस्य हया रथः शरीरं
मनोऽभियन्ता प्रकृतिमयोऽस्य प्रचोदसेन खल्वीरितं परिभ्रमतीदं
शरीरं चेतनवत् प्रतिष्ठितं प्रचोदयिता वैषोऽस्येति ॥ ९ ॥
स वा योऽयं हृद्यन्तः पुरुषो भगवान् वेङ्कटेशस्तुरीयो
वासुदेवात्मा स एषदहराकाश मादित्यरूपः शरीर मित्थं रथीकृत्य
स्वयं रथिको भूत्वैवमेव पिण्डब्रह्माण्डरथरथिको बभूव ॥ १० ॥
स वा एष आत्मेहात्मनि वसितानि तैः कर्मफलैः परिभूयमान इव
शरीरे वा विचरत्यव्यापकत्वात्सूक्ष्मत्वा ददृश्यत्त्वा दग्राह्यत्त्वा
न्निर्ममत्वाच्च नावस्थाकर्ता कर्तेह न पश्यः ॥ ११ ॥
स वा एष शुद्धः स्थिरोऽचल सालेपो व्यग्रोऽप्रेक्षकव दस्थितः स्वस्थ
श्चरितभू गुणमयेन पटेन नात्मान मन्तर्दायावस्थित इत्यवस्थितः ॥
१२ ॥
इत्याथर्वणे मन्त्र रहस्ये श्री वेङ्कटेश
पूर्वतापिन्युपनिषदि तृतीयः प्रपाठकः

४। चतुर्थः प्रपाठकः

ते होचुर्भगवन् यद्येवमात्मनो महिमानं सूचयसि,
तरछ्ययं वाव जीवात्मा कथं सितासितैः कर्मफलै रभिभूयमानः
सदसद्योनि मापद्यते अवाचीं वोर्ध्वां वा गतिं द्वन्द्वै रभिभूयमानः
परिभ्रमतीति। अस्योपव्याख्यानम् पञ्च तन्मात्राणि। भूतशब्देनोच्यन्ते।
पञ्च महाभूतानि भूतशब्देनोच्यन्ते। अथ तेषां यः समुदाय
स्तच्छरीर मित्युक्तम्। अथ यो ह खलु वाव आशरीर इत्युक्तः स
भूतात्मेत्युक्तोऽथास्ति तस्यात्मबिन्दुरिव पुष्कर इति ॥ १ ॥
स वा एषोऽभिभूतः परकृतै र्गुणै रित्यंशाभिभूतत्वा त्सम्मूढः
प्रयातः। सम्मूढत्वादात्मानं प्रभुं भगवन्तं कारयितारं
नापश्यत्। गुणौघैस्तप्यमानः कलुषीकृत हृच्चित्त श्चञ्चलो लुप्यमानः
सस्पृहो व्यग्रश्चाभिमानित्वं प्रयात इत्याह सोऽहं ममेदमिति।
एवं मन्यमानो निबद्धो ह्यात्मनात्नानं जानन्नेव खचरः कृतस्वानुचरैः
पत्रैरभिभूयमानः परिभ्रमतीति ॥ २ ॥
अथाप्यन्यत्राप्युक्तम् - यथा लोहपिण्ड स्त्वग्निसम्पर्का ल्लोहमयो
लोहगत प्रहारादी ननुभवतीति, तद्व द्देहेन्द्रिय भूतगुणै रयं
पुरुषोऽभिभूयत इव ॥ ३ ॥
[[588589]]
श्रीवेङ्कटेश तापिन्युपनिषत्चतुर्थः प्रपाठकः
अथाप्यन्यत्राप्युक्तम् - शरीर मिदं मैथुना देवोद्भूतं संविद्व्य
पेतं निरय एव मूत्रद्वारेण निष्क्रान्त मस्थिभिश्चितं मांसेना
वलिप्तं चर्मणाऽवबद्धं विण्मूत्र पित्तकफ मज्जा मेदोवसाभि रन्यैश्च
मलैर्बहुभिः परिपूर्णं कोशैरिव निर्मितम् ॥ ४ ॥
अथान्यत्राप्युक्तम् - सम्मोहो भयं विषादो निद्रा तन्द्रा व्रणो
जरा शोकः क्षुत्पिपासा कार्पण्यं क्रोधो नास्तिक्य मज्ञानं मात्सर्यं वै
कारुण्यं मूढत्वं निर्र्वीडत्वं निकृतत्व मुद्धतत्व मसमत्व मिति
तामसान्वितः। तृष्णा स्नेहो रागो लोभो हिंसाऽरतिर्दृष्टि व्यापृतत्व
मित्यस्थिरत्वं चलत्वं व्यग्रत्वं जिहीर्षाऽर्थोपार्जनं मित्रानुग्रहणं
परिग्रहावलम्बोऽनिष्टे ष्विन्द्रियार्थेषु द्विष्टिरिष्टे ष्विन्द्रियार्थे ष्वभिषङ्ग
इति राजसान्वितैः परिपूर्ण एतैरभिभूत इत्ययं भूतजीवात्मा तस्मा
न्नानारूपाण्याप्नोत्याप्नोतीति ॥ ५ ॥
अथान्यत्राप्युक्तम्-महानदीषूर्मय इवानिवर्तक मन्यत्पुरा कृतं
समुद्रवेलेव दुर्निवार्य मस्य मृत्योरागमनं सदसत्फलमयैः पाशैः
पङ्गोव बन्धनं, बन्धनस्थस्यैवास्वातन्त्र्यं, यमविषयस्थस्यैव
बहुतरावस्थं, मदिरोन्मत्त इव मोदमदिरोन्मत्तं, पाप्मना गृहीत
इव भ्राम्यमाणं, महोरगदष्ट इव विपद्दष्टं, महान्धकार इव
रागान्धं, इन्द्रजालमिव मायामयं, स्वप्न इव मिथ्यादर्शनं,
कदलीगर्भ इवासारं, नट इव क्षणवेषं चित्रभित्तिरिव मिथ्यामनोमय
मिति। यथोक्तम् -
श्लो॥ ’’शब्दस्पर्शादयो ह्यर्था अनर्था इव ते स्थिताः
एषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम्’’ इति ॥
तेह खलु वा ऊर्ध्वरेतसोऽति विस्मित मभिसमेत्योचु र्भगवन्नमस्ते
त्वं नः शाधि, त्वमस्माकं गति रन्या न विद्यतेऽस्य को विदु र्भूत
जीवात्मनो येनेदं हित्वा सायुज्यमुपैति तं होवाचेति ॥ ७ ॥
आयं वा व खल्वस्य प्रतिनिधि र्भूतात्मनो यदविद्याधिगमः
स्वधर्मस्यानुचरणं, स्वाश्रमेष्वेवानुक्रमणं, स्वधर्म एव सर्वं धत्ते
विशावेव नराणां तेनोर्ध्वभाग वत्यन्यथाधः पतत्येष स्वधर्मोपदेशेषु
स्वधर्मातिक्रमेण नासमभव दाश्रमे ष्वेवावस्थित स्तपस्वी मुच्यते।
एतदप्युक्तं नः -
श्लो ॥ ’’तस्यात्मज्ञाने-धिगमः कर्मबुद्धिर्वै हर्यहम्
तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।
मनसा प्राप्यते ह्यात्मा आत्मना न निवर्तत’’ इति ॥ ८ ॥
अथाह भृशविस्मितास्ते ह्यूर्ध्वरेतसः समुत्थाय पादयोः
पितामहस्य दण्डवत्पुनः पतन्ति। पुन रुत्पतन्तो भगवन् कृपालु
स्त्वमसि सर्वज्ञो हि जगतां धाताऽसि पिताऽसि। वयं किञ्चिद्ज्ञाः
प्रमाथिनो बहु भव्य पराङ्मुखाः संसारभीता हि। अस्माकं सर्वेषां
च यत्सारतरं तत्त्वज्ञानं सूक्ष्मोपदेशेनै वानायासेन मननाय
दृढं भवति, यदनुष्ठान मात्रेण वैकस्मिन्नेव जन्मनि परा गति र्भवति
तद्ब्रूहीति। अथवा शिष्यानुजिघृक्षुः परमसाधनं परमसुलभं परम
श्रेष्ठं परम रहस्यं प्रतिज्ञां चकार। तेन ते कृतकृत्या अभूवन्।
तजाज्ञ नादेव पूर्वे वर्तमाना भविष्यन्तश्च मुक्ता मुच्यमाना मोक्ष्यन्ते
च। तदेवारोपयाम्यनेनैव विमोक्षाय भवत्यस्मिन्निष्ठा परा देहे गेहे
राज्ये वा सुखासीनो विमना न क्लिश्यतीति तद्वक्तुमुपक्रमते ॥ ९ ॥
इत्याथर्वणे मन्त्र रहस्ये श्रीवेङ्कटेश पूर्वतापिन्युपनिषदि
चतुर्थः प्रपाठकः।
[[590591]]
श्रीवेङ्कटेश तापिन्युपनिषत्चतुर्थः प्रपाठकः

५। पञ्चमः प्रपाठकः

तमो वा इदमेक आसीत्तस्मा त्परेण नोदितः विषमत्वं यात्येतद्वै
रजसो रूपं तेजः खल्वीरितं विषमत्वं प्रयात्येतद्वै सत्त्वस्य रूपं
तत्सत्त्वमेवेरितं रजसोऽपाद्रवत्सोऽंशोऽ यं यश्चैतन्यमात्रः
प्रतिपुरुषं क्षेत्रज्ञः सङ्कल्पाध्यवसायाभिमानलिङ्गः प्रजापतिस्तस्य प्रोक्तो
ऽस्यास्तनवो ब्रह्मरुद्रौ विष्णुरिति। अथ यो ह खलु वा वास्य
राजसांशोल्लासेव योऽयं विष्णुः न वा एकस्तिधा भूत्वा दशधा
अपरिमित भूतोद्भूतत्त्वा द्भूतेषु चरति प्रतिष्ठितः स देवाना मधिपति
र्बभूवेत्यसावात्मान्तर्बहिन्तर्बहिश्च ॥ १ ॥
यो ह वै भगवानात्मा यथान्त र्ब हि र्व्याप्तः प्रसिद्ध स्तथा स्वं
रूपं परमं द्वेधा चकार विष्णु र्वेङ्कटेशाख्यं नारायणाख्यमिति।
अथैत न्नारायणाख्यस्य वैकुण्ठं नित्यनिवासं चकार, वेङ्कटेशाख्यस्य
तु वेङ्कटाचलं नित्यनिवासम्। यथा बिम्बादिवोद्भूतं बिम्बं
तद्वन्नारायणा द्वेङ्कटेशो वैकुण्ठयो र्वेङ्कटाचल स्तदनु वेङ्कटाचल
नामकं संस्थानं वेङ्कटेशोऽहमधिष्ठाय सकल दृग्गोचरत्वेन सकल
तारणाय स्वयं व्यक्तरूपी वक्षःस्थित रमाख्यं मङ्गलं रूपमादाय
स्वामिपुष्करिणीतीरे सन्निहितः समास्ते। अत्रायं श्लोको भवति -
श्लो ॥ ’’मायावी परमानन्द स्त्यक्त्वा वैकुण्ठमुत्तमम् ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥ इति ॥
स्वयं भगवानद्यापि परिदृश्यतेऽद्यापि परिदृश्यते। ततस्सर्वं
सुलभं तदुपासनं यत्र कुत्र वा स्थितस्य सकृद्दर्शन मात्रेण सर्वज्ञो
भक्तस्तदुपासनयैन मुच्यत एवेति तत्सर्वं यथाविभव विस्तरं समासेनैव
वक्ष्यामीति भगवान् प्रजापतिः ॥ २ ॥
श्रुत्वेह ऊर्ध्वरेतसो भगवान् भक्तानुजिघृक्षया यथायोग्य
मन्तर्या म्यरूपा ण्यदधत्तदनु तत्सर्वं विशिष्टाधिकरण मेवोपासना
विषय मेवेति मन्वानः पुनर्दिव्या स्ते ऽर्ध मानुषमयं व्यक्तिभेदभिन्नानि
वा अवतारसहस्राण्यददत्तेभ्योऽभिमुख्यं वेङ्कटेशाख्यं भगवद्व
पुरित्यत एवागम्योऽप्रतर्क्यश्च तन्महिमेत्यत्र सम्प्रदायविदो मुनय
एवमामनन्त्येवं खलु व्यवसायिनी रागिणां साङ्ख्यो योगो रागिणां
कर्मयोगो रागिणि रागिणां भक्तियोग एवं परम तरणोपायः
।भक्तियोगिनां भगवदवताररूप गुण कर्मनामजालं विना नोपासनैव
सङ्गच्छत इति। तत्राद्यवताररूपा अप्रत्यक्षा तदुपासनातीव गहनेत्यथ
दयालुः भगवा नर्चावतार कोटि कोटि श्रेष्ठं सर्वसिद्धिद मित्युक्त्वोपर
राम। तदद्योर्ध्वरेतसोऽभितः किमियं तूष्णीमुपासेति तस्य पद मभिमृ
श्यमाना श्री वेङ्कटेश्वरस्य रहस्य मुपासनायाः प्रकारं सर्वमान्य
मुपदिशन्तं प्रार्थयमाना अभवन्। तदनु पूर्वकृतां श्रीवेङ्कटेश्वर
स्याज्ञां स्मरन् भक्तेभ्योऽवश्य मनुग्रह योग्य मेवेति वालखिल्या
न्प्रतिभूय एव तपसा ब्रह्मचर्येण श्रुत्वा यावत्संवत्सरं
वत्सरानन्तरं रहस्यत्रयं सर्वं ह वो वक्ष्यामीति प्रजापतिः प्रतिज्ञां
चकार ॥
मं॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः
व्यशेम देवहितं यदायुः ॥ हरिः ॐ ॥
इत्याथर्वणे मन्त्ररहस्ये श्री वेङ्कटेश पूर्वतापिन्युपनिषदि
पञ्चम प्रपाठकम्
इति पूर्वतापिन्युपनिषत्।
[[592593]]
श्रीवेङ्कटेश तापिन्युपनिषत्पञ्चमः प्रपाठकः
तत्रोत्तरतापिन्युपनिषत्

शान्तिमन्त्रम्

मं॥ॐ। भद्रं कर्णेभिः शृणुयाम देवाः
भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवांस स्तनूभिः
व्यशेम देवहितं यदायुः।

मं॥स्वस्ति न इन्द्रो वृद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु।
ॐ शान्तिः शान्तिः शान्तिः