नृसिंहतापिन्युपनिषत्
यत् तुर्योङ्काराग्रपरा-
भूमि-स्थिरवरासनम् ।
प्रतियोगि-विनिर्मुक्त-
तुर्यन् तुर्यम् अहं महः ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ॥
१
मन्त्र-दर्शनम्
ॐ आपो वा इदम् आसंस्
तत् सलिलम् एव ।
स प्रजापतिर् एकः पुष्करपर्णे समभवत् ।
तस्यान्तर् मनसि कामः समवर्तत - इदं सृजेयम् इति ।
तस्माद् यत् पुरुषो मनसाभिगच्छति
तद्वाचा वदति
तत्कर्मणा करोति
तद् एषा भ्यनूक्ता ।
कामस्तदग्रे समवर्तताधि
मनसो रेतः प्रथमं यदासीत् ।
सतो बन्धुमसति निरविन्दन्
हृदि प्रतीष्या कवयो मनीषेति
उपैनं तदुपनमति
यत् कामो भवति
य एवं वेद
स तपोऽतप्यत
स तपस्तप्त्वा
स एतं मन्त्रराजं नारसिंहम् आनुष्टभम् अपश्यत्
तेन वै सर्वम् इदम् असृजत
यदिदं किञ्च ।
अनुष्टुप्त्वात् सर्वत्वम्
तस्मात् सर्वम् आनुष्टुभम् इत्याचक्षते
यदिदं किञ्च ।
अनुष्टुभो वा इमानि भूतानि जायन्ते
अनुष्टुभा जातानि जीवन्ति
अनुष्टुभं प्रयन्त्यभिसंविशन्ति
तस्यैषा भवति अनुष्टुप्प्रथमा भवति
अनुष्टुब् उत्तमा भवति
वाग्वा अनुष्टुप्
वाचैव प्रयन्ति
वाचोद्यन्ति
परमा वा एषा छन्दसां यद् अनुष्टुबिति ॥ १॥
पादानां व्याहृतित्वम्
ससागरां सपर्वतां सप्तद्वीपां वसुन्धरां
तत्साम्नः प्रथमं पादं जानीयात्
यक्षगन्धर्वाप्सरोगणसेवितम् अन्तरिक्षं
तत्साम्नो द्वितीयं पादं जानीयाद्वसुरुद्रादित्यैः
सर्वैर्देवैः सेवितं दिवं
तत्साम्नस्तृतीयं पादं जानीयात्
ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं
तत्साम्नश्चतुर्थं पादं जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
पादानां वेदत्वम्
ऋग्यजुःसामाथर्वाणश् चत्वारो वेदाः साङ्गाः सशाखाश् चत्वारः पादा भवन्ति
प्रश्नः
किं ध्यानं
किं दैवतं
कान्यङ्गानि
कानि दैवतानि
किं छन्दः
क ऋषिर् इति ॥ २॥
सामाङ्गानि
स होवाच प्रजापतिः
स यो ह वै सावित्र्य् अस्याष्टाक्षरं पदं श्रियाभिषिक्तं
तत् साम्नोऽङ्गं वेद
श्रिया हैवाभिषिच्यते
सर्वे वेदाः प्रणवादिकास्
तं प्रणवं तत् साम्नोऽङ्गं वेद
स त्रील्ँ लोकाञ् जयति
चतुर्-विंशत्य्-अक्षरा महा-लक्ष्मीर् यजुस्
तत्-साम्नोऽङ्गं वेद
स आयुर्-यशः-कीर्ति-ज्ञानैश्वर्यवान् भवति
तस्मादिदं साङ्गं साम जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
अधिकारः
सावित्रीं प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति
द्वात्रिंशदक्षरं साम जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
सावित्रीं लक्ष्मीं यजुः प्रणवं यदि जानीयात्
स्त्री शूद्रः स मृतोऽधो गच्छति
तस्मात्सर्वदा नाचष्टे
यद्याचष्टे - स आचार्यस् तेनैव स मृतोऽधो गच्छति ॥ ३॥
सामपादाः
स होवाच प्रजापतिः
अग्निर्वै देवा
इदं सर्वं विश्वा भूतानि
प्राणा वा इन्द्रियाणि
पशवो ऽन्नम् अमृतं सम्राट् स्वराड् विराट्
तत्साम्नः प्रथमं पादं जानीयात्
ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तर् आदित्ये हिरण्मयः पुरुषस्
तत्साम्नो द्वितीयं पादं जानीयात्
य ओषधीनां प्रभुर्भवति ताराधिपतिः सोमस्
तत्साम्नस्तृतीयं पादं जानीयात्
स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट्
तत्साम्नश्चतुर्थं पादं जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
पादेषु १-२
उग्रं प्रथमस्याद्यं
ज्वलं द्वितीयस्याद्यं
नृसिंहं तृतीयस्याद्यं
मृत्युं चतुर्थस्याद्यं
साम जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे
यदि दातुम् अपेक्षते पुत्राय शुश्रूषवे दास्यत्य्
अन्यस्मै शिष्याय वा चेति ॥ ४॥
पादेषु ३-४
स होवाच प्रजापतिः
क्षीरोदार्णवशायिनं नृकेसरिविग्रहं
योगिध्येयं परं पदं साम जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
“वीरं” प्रथमस्याद्यार्धान्त्यं
“तं स” द्वितीयस्याद्यार्धान्त्यं
“हं भी” तृतीयस्याद्यार्धान्त्यं
“मृत्युं” चतुर्थस्याद्यार्धान्त्यं
(variation found with syAdyArdhAntyam vs syArdhAntyam)
साम तु जानीयाद्
यो जानीते
सोऽमृतत्वं च गच्छति
फलम्
तस्मादिदं साम येन केनचिदाचार्यमुखेन यो जानीते
स तेनैव शरीरेण संसारान् मुच्यते, मोचयति, मुमुक्षुर् भवति
जपात् तेनैव शरीरेण देवतादर्शनं करोति
तस्माद् इदम् एव मुख्यद्वारं कलौ।
नान्येषां भवति
तस्माद् इदं साङ्गं साम जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति ॥ ५॥
ऋतं सत्यं परं ब्रह्म पुरुषं (“नृकेसरिविग्रहम्” इत्य् अधिकः पाठः) कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥
उमापतिः पशुपतिः पिनाकी ह्यमितद्युतिः ।
ईशानः सर्वविद्यानाम् ईश्वरः सर्वभूतानां
ब्रह्माधिपतिर् ब्रह्मणोऽधिपतिर्
यो वै यजुर्वेदवाच्यस् तं साम जानीयाद्
यो जानीते
सोऽमृतत्वं च गच्छति
विश्वास-टिप्पनी
अत्र शरीरशरीरि-भावम् आश्रित्य सामञ्जस्यं कलयन्ति श्रीवैष्णवाः।
केचित् तु (प्रणव-प्रसिद्धा) उश् च मा चोमेत्यादि व्याख्यातवान्। Source: TW
अथवा तद्-रूपे यथा विष्णुश् शिववद् भवती,
तथा श्रीर् उमावद् भवतीति सरसतरम्।
मध्वस्यानुव्याख्याने पूर्वार्धस्य विष्णुपरत्वं, अपरस्य रुद्रपरत्वं उपपादितम् -
तस्माद् विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः । ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥ ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः । ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥ इत्यर्थमेतमेवाऽह नीलग्रीवश्रुतिः परा ।
अनयोः भिन्नविषयत्वं तत्रैव सुधायां च पुनरुक्ति-परिहारादि-रूपेण समर्थितम्।
(कृष्णपिङ्गलम् = नीललोहितं इति पुनर्-उक्तिः।)
महाप्रथमान्तार्धस्याद्यन्तवतो
द्वितीयान्तार्धस्याद्यं षणं तृतीयान्तार्धस्याद्यं नामा चतुर्थान्तार्धस्याद्यं
साम जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम
सच्चिदानन्दमयं परं ब्रह्म तमेववंविद्वानमृत
इह भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते
सोऽमृतत्वं च गच्छति ॥ ६॥
विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त
तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः
सलोकतां सार्ष्टितां सायुज्यं यान्ति तस्मादिदं
साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
विष्णुं प्रथमान्त्यं मुखं द्वितीयान्त्यं भद्रं
तृतीयान्त्यं म्यहं चतुर्थ्यान्तं साम जानीयाद्यो
(var chaturthasyAntaM)
जानीते सोऽमृतत्वं च गच्छति स्त्रीपुंसयोर्वा इहैव
स्थातुमपेक्षते तस्मै सर्वैश्वैर्यं ददाति यत्र कुत्रापि
म्रियते देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे
येनासावमृतीभूत्वा सोऽमृतत्वं च गच्छति
तस्मादिदं साम मध्यगं जपति तस्मादिदं सामाङ्गं
प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति
महोपनिषत् । य एतां महोपनिषदं वेद स
कृतपुरश्चरणो महाविष्णुर्भवति महाविष्णुर्भवति ॥ ७॥
इति प्रथमोपनिषत् ॥ १॥
२
देवा ह वै मृत्योः पाप्मभ्यः संसाराच्च बिभीयुस्ते
प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराजं
नारसिंहमानुष्टुभं प्रायच्छत्तेन वै ते मृत्युमजयन्
पाप्मानं चातरन्संसारं चातरंस्तस्माद्यो मृत्योः
पाप्मभ्यः संसाराच्च बिभीयात्स एतं मन्त्रराजं
नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं तरति
स पाप्मानं तरति स संसारं तरति तस्य ह वै प्रणवस्य
या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा
वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमः पादो भवति
द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णुरुद्रास् त्रिष्टुब्दक्षिणाग्निः सा साम्नो द्वितीयः पादो भवति
तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा
आदित्या जगत्याहवनीयः सा साम्नस्तृतीयः पादो भवति
यावसानेऽस्य चतुर्थ्यर्धमात्रा स सोमलोक ओङ्कारः
सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो
विराडेकर्षिर्भास्वती स्मृता सा साम्नश्चतुर्थः
पादो भवति ॥ १॥
अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः
पादा भवन्त्येवं द्वात्रिंशदक्षराणि सम्पद्यन्ते
द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा
सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतं
तस्य हैतस्य पञ्चाङ्गानि भवन्ति चत्वारः
पादाश्चत्वार्यङ्गानि भवन्ति सप्रणवं सर्वं
पञ्चमं भवति हृदयाय नमः शिरसे स्वाहा
शिखायै वषट् कवचाय हुं अस्त्राय फडिति
प्रथमं प्रथमेन संयुज्यते द्वितीयं द्वितीयेन
तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं
पञ्चमेन व्यतिषजति व्यतिषिक्ता वा इमे
लोकास्तस्माद्व्यतिषिक्तान्यङ्गानि भवन्ति
ओमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत
ओङ्कारो भवति अक्षराणां न्यासमुपदिशन्ति
ब्रह्मवादिनः ॥ २॥
तस्य ह वा उग्रं प्रथमं स्थानं जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
वीरं द्वितीयं स्थानं
महाविष्णुं तृतीयं स्थानं
ज्वलन्तं चतुर्थं स्थानं
सर्वतोमुखं पञ्चमं स्थानं
नृसिंहं षष्ठं स्थानं
भीषणं सप्तमं स्थानं
भद्रम् अष्टमं स्थानं
मृत्युमृत्युं नवमं स्थानं
नमामि दशमं स्थानम्
अहम् एकादशं स्थानं जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति
एकादशपदा वा अनुष्टुब् भवत्य्
अनुष्टुभा सर्वम् इदं सृष्टम्
अनुष्टुभा सर्वम् इदम् उपसंहृतं
तस्मात् सर्वानुष्टुभं जानीयाद्
यो जानीते सोऽमृतत्वं च गच्छति ॥ ३॥
देवा ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत
उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना
सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतान्युद्वृह्णात्यजस्रं सृजति विसृजति
विवासयत्त्युद्ग्राह्यत उद्गृह्यते स्तुहि श्रुतं गर्तसदं
युवानं मृगं न भीममुपहन्तुमुग्रं
मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः
var सिंहस्तवानो
तस्मादुच्यत उग्रमिति ॥
अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना
सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति
यतो वीरः कर्मण्यः सुदृक्षो युक्तग्रावा जायते
देवकामस्तस्मादुच्यते वीरमिति ॥
अथ कस्मादुच्यते महाविष्णुमिति यस्मात्स्वमहिम्ना
सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
भूतानि व्याप्नोति व्यापयति स्नेहो यथा
पललपिण्डं शान्तमूलमोतं प्रोतमनुव्यासं
variation पललपिण्डमोतप्रोतमनुप्राप्तं
व्यतिषिक्तो व्यापयते
यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा
प्रजापतिः प्रजया संविदानः त्रीणि ज्योतींषि सचते
सषोडषीं तस्मादुच्यते महाविष्णुमिति ॥
var षोडषीति ।
अथ कस्मादुच्यते ज्वलन्तमिति यस्मात्स्वमहिम्ना
सर्वाॅंल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते सविता प्रसविता
दीप्तो दीपयन्दीप्यमानः ज्वलं ज्वलिता
तपन्वितपन्त्सन्तपन्रोचनो
रोचमानः शोभनः शोभमानः कल्याणस्तस्मादुच्यते
ज्वलन्तमिति ॥
अथ कस्मादुच्यते सर्वतोमुखमिति यस्मात्स्वमहिम्ना
सर्वाल्ँलोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि
स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति
सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति ।
एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
यमप्येति भुवनं साम्पराये नमामि तमहं
सर्वतोमुखमिति तस्मादुच्यते सर्वतोमुखमिति ॥
अथ कस्मादुच्यते नृसिंहम् इति
यस्मात्सर्वेषां भूतानां ना वीर्यतमः श्रेष्ठतमश्च
सिंहो वीर्यतमः श्रेष्ठतमश्च ।
तस्मान् नृसिंह आसीत् परमेश्वरो
जगद्धितं वा एतद्रूपं
यदक्षरं भवति प्रतद्विष्णुस्तवते
(variation प्रतद्विष्णुः स्तवते)
वीर्याय
मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्व्
अधिक्षियन्ति भुवनानि विश्वा
तस्मादुच्यते नृसिंहमिति ॥
अथ कस्मादुच्यते भीषणमिति
यस्माद्भीषणं यस्य रूपं दृष्ट्वा
सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि भीत्या पलायन्ते
स्वयं यतः कुतश्च न बिभेति
भीषास्माद्वातः पवते भीषोदेति सूर्यः
भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम
इति तस्मादुच्यते भीषणमिति ॥
अथ कस्मादुच्यते भद्रमिति
यस्मात्स्वयं भद्रो भूत्वा सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः शोभमानः कल्याणः ।
भद्रं कर्णेभिः शृणुयाम
देवाः भद्रं पश्येमाक्षभिर्यजत्राः
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्
व्यशेम देवहितं यदायुः
तस्मादुच्यते भद्रमिति ॥
अथ कस्मादुच्यते मृत्युमृत्युमिति यस्मात्स्वमहिम्ना
स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति ।
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य
देवाः यस्य छायामृतं यो मृत्युमृत्युः कस्मै
देवाय हविषा विधेम तस्मादुच्यते मृत्युमृत्युमिति ॥
अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति
मुमुक्षवो ब्रह्मवादिनश्च । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं
वदत्युक्थ्यं
variation वदत्युक्थं
यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि
चक्रिरे तस्मादुच्यते नमामीति ॥
अथ कस्मादुच्यतेऽहमिति । अहमस्मि प्रथमजा ऋतास्य
पूर्वं देवेभ्यो अमृतस्य नाभिः । variation नाभायि
यो मा ददाति स इदेवमावाः
अहमन्नमन्नमदन्तमद्मि variation अहमन्नमन्नमदन्तमाद्मि
अहं विश्वं भुवनमभ्यभवां सुवर्णज्योतिर्य एवं वेदेति महोपनिषत् ॥ ४॥
इति द्वितीयोपनिषत् ॥ २॥
३
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं नो
ब्रूहि भगवन्निति स होवाच प्रजापतिर्माया वा
एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति
सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं
विद्याद्य एतां मायां शक्तिं वेद स पाप्मानं
तरति स मृत्युं तरति स संसारं तरति सोऽमृतत्वं
च गच्छति महतीं श्रियमश्नुते मीमांसन्ते
ब्रह्मवादिनो ह्रस्वा दीर्घा प्लुता चेति ॥
यदि ह्रस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं
च गच्छति यदि दीर्घा भवति महतीं
श्रियमाप्नोत्यमृतत्वं च गच्छति यदि प्लुता भवति
ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेतदृषिणोक्तं
निदर्शनं स ईं पाहि य ऋजीषी तरुत्रः श्रियं
लक्ष्मीमौपलामम्बिकां गां षष्ठीं च
यामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं
सरूपामिहायुषे शरणमहं प्रपद्ये सर्वेषां वा
variation सरूपां तामिहायुषे
एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि
भूतान्याकाशादेव जायन्त आकाशादेव जातानि
जीवन्त्याकाशं प्रयत्यभिसंविशन्ति तस्मादाकाशं
बीजं विद्यात्तदेव ज्यायस्तदेतदृषिणोक्तं निदर्शनं
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता
वेदिषदतिथिर्दुरोणसत् ॥
नृषद्वरसदृतसद्व्योमसदब्जागोजा ऋतजा अद्रिजा
ऋतं बृहत् ॥
य एवं वेदेति महोपनिषत् ॥
इति तृतीयोपनिषत् ॥ ३॥
४
देवा ह वै प्रजापतिमब्रुवन्ननुष्टुभस्य
मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो
ब्रूहि भगव इति स होवाच प्रजापतिः प्रणवं
सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्रीमित्यङ्गानि
जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १॥
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भवद्भविष्यदिति सर्वमोङ्कार एव
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं
ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा
चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः
प्रथमः पादः । स्वप्नस्थानेऽन्तप्रज्ञः
सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो
द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं
कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं
सुषुप्तस्थान एकीभूतः प्रज्ञानघन एकानन्दमयो
ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयो पादः ।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट-
मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य-
मैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं
शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ २॥
अथ सावित्री
गायत्र्या यजुषा प्रोक्ता
तया सर्वमिदं व्याप्तं
घृणिरिति द्वे अक्षरे
सूर्य इति त्रीणि??
एतद्वै सावित्रस्याष्टाक्षरं पदं श्रियाभिषिक्तं
य एवं वेद श्रिया हैवाभिषिच्यते ।
तदेतदृचाभ्युक्तं ऋचो अक्षरे परमे
व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद
किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत
इति न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति
यः सावित्रीं वेदेति ।
ॐ भूर्लक्ष्मीर् भुवर्लक्ष्मीः स्वर्लक्ष्मीः कालकर्णी
तन्नो महालक्ष्मीः प्रचोदयात्
इत्येषा वै महालक्ष्मीर्यजुर्गायत्री चतुर्विंशत्यक्षरा भवति ।
गायत्री वा इदं सर्वं
यदिदं किञ्च तस्माद्य एतां महालक्ष्मीं
याजुषीं वेद महतीं श्रियमश्नुते ।
ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि ।
तन्नः सिंहः प्रचोदयात् इत्येषा वै नृसिंहगायत्री
देवानां वेदानां निदानं भवति य एवं वेद
निदानवान्भवति ॥ ३॥
देवा ह वै प्रजापतिमब्रुवन्न्
अथ कैर्मन्त्रैः स्तुतो देवः प्रीतो भवति
स्वात्मानं दर्शयति
तन्नो ब्रूहि भगवन्निति स होवाच प्रजापतिः ।
[ॐ यो ह वै नृसिंहो देवो भगवान्]
यश्च ब्रह्मा
[भूर्भुवः स्वस् तस्मै वै नमो नमः] ॥ १॥
[यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यौ]॥
यश्च विष्णुः ॥ २॥
यश्च महेश्वरः ॥ ३॥
यश्च पुरुषः ॥ ४॥
यश्चेश्वरः ॥ ५॥
या सरस्वती ॥ ६॥
या श्रीः ॥ ७॥
या गौरी ॥ ८॥
या प्रकृतिः ॥ ९॥
या विद्या ॥ १०॥
यश्चोङ्कारः ॥ ११॥
याश्चतस्रोऽर्धमात्राः ॥ १२॥
ये वेदाः साङ्गाः सशाखाः सेतिहासाः ॥ १३॥
ये च पञ्चाग्नयः ॥ १४॥
याः सप्त महाव्याहृतयः ॥ १५॥
ये चाष्टौ लोकपालाः ॥ १६॥
ये चाष्टौ वसवः ॥ १७॥
ये चैकादश रुद्राः ॥ १८॥
ये च द्वादशादित्याः ॥ १९॥
ये चाष्टौ ग्रहाः ॥ २०॥ यानि च पञ्चमहाभूतानि ॥ २१॥
यश्च कालः ॥ २२॥ यश्च मनुः ॥ २३॥ यश्च मृत्युः ॥ २४॥
यश्च यमः ॥ २५॥ यश्चान्तकः ॥ २६॥ यश्च प्राणः ॥ २७॥
यश्च सूर्यः ॥ २८॥ यश्च सोमः ॥ २९॥
यश्च विराट् पुरुषः ॥ ३०॥ यश्च जीवः ॥ ३१॥
यच्च सर्वम् ॥ ३२॥
इति द्वात्रिंशत् इति तान्प्रजापतिरब्रवीद्
एतैर्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य
एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं
च गच्छति य एवं वेदेति महोपनिषत् ॥
इति चतुर्थ्युपनिषत् ॥ ४॥
५
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य महाचक्रं नाम
चक्रं नो ब्रूहि भगव इति सार्वकामिकं मोक्षद्वारं
यद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडक्षरं
वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं
भवति षट्पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः
सम्मितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः
प्रतिष्ठिता मायया एतत्सर्वं वेष्टितं भवति
नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं
भवति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा
वै गायत्री गायत्र्या सम्मितं भवति बहिर्मायया
वेष्टितं भवति क्षेत्रं क्षेत्रं वै मायैषा सम्पद्यते ।
अथ द्वादशारं द्वादशपत्रं चक्रं भवति
द्वादशाक्षरा वै जगती जगत्या सम्मितं भवति
बहिर्मायया वेष्टितं भवति । अथ षोडशारं
षोडशपत्रं चक्रं भवति षोडशकलो वै पुरुषः
पुरुष एवेदं सर्वं पुरुषेण सम्मितं भवति
मायया बहिर्वेष्टितं
भवति । अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं
भवति द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा
सर्वमिदं भवति बहिर्मायया वेष्टितं भवत्यरैर्वा
एतत्सुबद्धं भवति वेदा वा एते अराः पत्रैर्वा
एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि ॥ १॥
एतत्सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां
तारकं यदक्षरं नारसिंहमेकाक्षरं
तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं
भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं
भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं
भवति षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः
षोडश स्वरा भवन्ति द्वात्रिंशत्सु पत्रेषु
द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं
भवति तद्वा एतत्सुदर्शनं नाम चक्रं सार्वकामिकं
मोक्षद्वारमृङ्मयं यजुर्मयं साममयं
ब्रह्ममयममृतमयं भवति तस्य पुरस्ताद्वसव
आसते रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा
उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ
पार्श्वयोस्तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे
व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद
किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति
तदेतत्सुदर्शनं महाचक्रं बालो वा युवा वा
वेद स महान्भवति स गुरुः सर्वेषां
मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं
कुर्यादनुष्टुभार्चनं कुर्यात्तदेतद्रक्षोघ्नं
मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
शिखायां वा बध्नीत सप्तद्वीपवती भूमिर्दक्षिणार्थं
नावकल्पते तस्माच्छ्रद्धया यां काञ्चिद्गां
दद्यात्स दक्षिणा भवति ॥ २॥
देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि
भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं
नारसिंहमानुष्टुभं नित्यमधीते सोऽग्नोपूतो
भवति स वायुपूतो भवति स आदित्यपूतो भवति
स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो
भवति स विष्णुपूतो भवति स रुद्रपूतो भवति
स सर्वपूतो भवति स सर्वपूतो भवति ॥ ३॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स मृत्युं तरति स पाप्मानं तरति
स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां
तरति स संसारं तरति स सर्वं तरति स सर्वं तरति ॥ ४॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति
स आदित्यं स्तम्भयति स स्तोमं स्तम्भयति स उदकं
स्तम्भयति स सर्वान्देवान्स्तम्भयति स
सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति
स विषं स्तम्भयति ॥ ५॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स देवानाकर्षयति स यक्षानाकर्षयति
स नागानाकर्षयति स ग्रहानाकर्षयति स
मनुष्यानाकर्षयति स सर्वानाकर्षयति स
सर्वानाकर्षयति ॥ ६॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति
स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं
जयति स तपोलोकं जयति स सत्यलोकं जयति स
सर्वांल्लोकाञ्जयति स सर्वांल्लोकाञ्जयति ॥ ७॥
य एतं मन्त्रराजमानुष्टुभं नित्यमधीते
सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना
यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते
सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः
क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते ॥ ८॥
य एतं मन्त्रराजं नारसिंहमानुष्टुभं
नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स
सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते
स शाखा अधीते स पुराणान्यधीते स कल्पानधीते
स गाथामधीते स नाराशंसीरधीते स प्रणवमधीते
यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥ ९॥
अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन
गृहस्थेन तत्समं गृहस्थशतमेकमेकेन
वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन
यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन
रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेन-
अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरः-
शिखाध्यापकशतमेकमेकेन तापनीयोपनिषद-
ध्यापकेन तत्समं तापनीयोपनिषदध्यापक-
शतमेकमेकेन मन्त्रराजध्यापकेन तत्समं तद्वा
एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न
सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति
यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न
मृत्युः प्रविशति यत्र न दुःखं सदानन्दं
परमानन्दं शान्तं शाश्वतं सदाशिवं
ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र
गत्वा न निवर्तन्ते योगिनः ॥
तदेतदृचाभ्युक्तम् ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः
समिन्धते । विष्णोर्यत्परमं पदम् ।
तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति
य एवं वेदेति महोपनिषत् ॥ १०॥
इति पञ्चमोपनिषत् ॥ ५॥
इति नृसिंहपूर्वतापिन्युपनिषत् ॥