१० द्वयोपनिषत्

द्वयोपनिषत्

ॐ अथातः श्रीमद्-द्वयोत्पत्तिः ।

वाक्यो द्वितीयः ।

षट्-पदानि।

विस्तारः (द्रष्टुं नोद्यम्)

साध्योपायोपेयोभयम् अप्य् अत्र निरूप्यते तच्छेषतया । अत एवोक्तम्, ‘उपायोपेयरूपः प्रतिपादकत्वात् द्वयम्’ इति श्रीमद्रहस्य-त्रय-सारे ।
‘वरण-समर्पणयोः खण्ड-द्वये क्रमेण प्रतिपादनात् द्वयम् इत्य् अपि केचित्’
इति द्वितीयपक्षश् च तत्र निर्दिष्टः ।
तत् फलान्तर-कामनया ऽपि द्वयस्य प्रयोज्यत्वे
तत्र द्वयत्व-निर्वाहायेति ध्येयम् ।+++(4)+++

अथ श्रीमन्नारायण स्वामिन्
दासोऽहं तव तस्य वै ।
परम् ईप्सुस् तम् एवार्थम्
अनुकूलो, विवर्जयन्
प्रातिकूल्यं सुविसस्रब्धः,
संप्रार्थ्य शरणं परम् ।
व्रजामि युष्मच्चरणं
तत्रैवाहं मयाऽर्पितः+++(5)+++

इति लोक-द्वयात्मके प्रपत्ति-मन्त्रान्तरे ऽपि
द्वयम् इति व्यवहार-सद्भावात्
तद्व्यावृत्तं प्रकृत-मन्त्र-स्वरूपम् आह
षट्पदानीत्यादिना

अर्धा/अर्था दश ।

विस्तारः (द्रष्टुं नोद्यम्)

अर्धा दशेति पाठः साधीयान् वाक्य-पद-तद्-एकदेश+अक्षर-संख्यान-क्रमात् ।
अर्धः शकलम्।
दश चेमे ‘एकाक्षरपदः प्रथमः’ इत्य् आरभ्य दर्श्यन्ते,

श्री-मत्-नारायण-चरणौ-शरणं प्रपद्ये श्रीमते नारायण-आय नमः

इति ।
न च “मत् इत्य्-अस्य पृथक्-करणे प्र इत्यस्यापि पृथक्कारः कुतो ने"ति शंक्यम्।
एकाक्षर-पदः इति पद-शब्द-प्रयोगात् अर्थवतो भागस्यैवार्धशब्देन विवक्षणात् ।
प्रेत्यस्य चोपसर्गतया केवलं व्यञ्जकत्वात्
धातुनैव तदभिमतार्थ-वचनात् ।

ननु पूर्वार्धे मद्-इत्य्-अस्य पृथक्-कारे
उत्तरत्रापि तथा किं न स्याद् इति चेत्
उक्तार्थत्वात्,
उपरि चतुर्थी सत्वाच् चाविभजनम् ।

चरणाव् इत्य्-आदौ विभक्तेः अपृथक्-कारेपि
आयेति पृथक्कारः -
तस्य पुरुषार्थ-रूप-प्रधानार्थ-परत्वात् ।

नम इत्यत्रापृथक्-करणं तु

विरोधिनि मन्त्रार्थ समाप्तिर्मा भूत्,
किं तु विरोधि-प्रहाणे इत्याशयेन ।

नेत्यस्य पृथक्-पदत्वेऽपि इति षष्ठ्याः
नञा मेलनं विना ऽर्थ-समाप्त्य्-अभावात्,
अभावस्य च प्रतियोगिं विना बोधाभावाद् इति विमृश्यम् ।

अर्थाः दशेति पाठे एतद्-अर्ध-दशक-विवक्षितार्थ-दशकम् एवात्र ग्राह्यम् ।

[[825]]
तद् इदम् अष्ट-श्लोक्याम्,

“नेतृत्वं नित्य-योगं समुचित-गुण-जातं तनुख्यापनञ्
चोपायं कर्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धम् ।
स्वामित्वं प्रार्थनाञ्च प्रबलतर-विरोधि-प्रहाणं दशैतान्
मन्तारं त्रायते चेत्य् अधिगत-निगमः षट्पदोऽयं द्विखण्डः”

इत्युक्तम् ।
शब्दतो ऽर्थतश् चात्रासौष्ठव-बाहुल्याद् अस्य श्रीभट्टारक-श्लोकत्वे विवदन्ते ।

श्री-तत्त्वं नित्य-योगं गुणिनम् अपि परं विग्रहं प्रापकत्वं
कर्तव्यं प्राप्य-युग्मं फलम् अतुलम् अपि प्राप्ति-रोधिग्रहणम्

इति रीत्या स्याद् इति।

एवं पुरुषकारत्वम्, उपायोपेयात्मक-सिद्ध-वस्तु-द्वयम्,
साध्योपेयम्, साध्योपायः, तदङ्गानि च पञ्चत्य् अपि दशकं स्यात् ।

श्रुतत्वाद् अर्ध-दशकम् अस्तु, शब्दतोऽर्थतश् चानेकार्थ-परत्वात् किम् एवं प्रमेय-दशकेनेति च मन्यन्ते इत्यलम् ।

पञ्च-विंशत्य्-अक्षराणि ।
पञ्च-दशाक्षरं पूर्वम् ।
दशाक्षरं परम् ।

विस्तारः (द्रष्टुं नोद्यम्)

पञ्चविंशतिः अक्षराणि । खण्डद्वयगतानि अक्षराणि पञ्चविंश- तिरित्यर्थः । पञ्चदशाक्षरं पूर्वम्= पूर्वखण्डे अक्षराणि पञ्चदश । शिष्टं स्पष्टम् ।

नवाक्षरं प्रथमपदम् ।
द्वितीयतृतीयचतुर्थं त्र्यक्षराणि ।
पञ्चाक्षरं पञ्चमम्।
द्वचक्षरः षष्ठः ।

एकाक्षरपदः प्रथमः ।
एकाक्षरो द्वितीयः ।
चतुरक्षरस् तृतीयः ।
चतुर्थ-पञ्चम-षष्ट-सप्तमा एवं त्र्यक्षराणि ।
अष्टमश् चतुरक्षरः ।
द्व्यक्षरो नवमः ।
दशो द्व्यक्षरः ।

एतन्मन्त्रश् च प्रपत्तिः ।
(एतन्मन्त्रस्य प्रतिपत्तिः (प्रपत्तिः)। )

पूर्वो नारायणः प्रोक्तो
ऽनादिसिद्धो मन्त्र-रत्नः सद्-आचार्य-मूलः ।

आचार्यो वेदसम्पन्नो
विष्णुभक्तो विमत्सरः ।
मन्त्र-ज्ञो मन्त्र-भक्तश् च
सदा-मन्त्राश्रयः शुचिः ॥

विस्तारः (द्रष्टुं नोद्यम्)

(1 क्वचित् कोशे, ‘आचार्यो वेदसंपन्नः’ इति पादम् उपक्रमस्थं पठित्वा
सर्वश्लोकावसानस्थं,
‘तद् गुरुतरो गुरुः’ इति पादमात्रं प्रहारेणेव पठितम् ।)

आचार्य इत्यादयः श्लोकाः येन पठिताः,
तत्रान्तिम-श्लोक-द्वयम्

‘मन्त्रराजमिमं विद्याद्
गुरुवन्दनपूर्वकम्’

इत्यर्धानन्तरं पठित्वा, उपरि,

‘नानुकूल्यं न नक्षत्रं’ इत्यादि च पठित्वा,
सर्वमिदं प्रपत्तिमन्त्रान्तरोपयेऽपि ग्रहीतुं साम्प्रतम् इत्य् उक्तं द्वयाधिकारे।

गुरु-भक्ति-समायुक्तः
पुराण-ज्ञो विशेष-वित् ।
एवं लक्षण-सम्पन्नो
गुरुर् इत्य् अभिधीयते ॥

आचिनोति हि शास्त्रार्थान्
आचार-स्थापनाद् अपि ।
स्वयम् आचरते यस् तु
तस्माद् आचार्य उच्यते ॥

गु-शब्दस् त्व् अन्ध-कारः स्यात्
रु-शब्दस् तन्-निरोधकः ।
अन्ध-कार-निरोधित्वाद्
गुरुर् इत्य् अभिधीयते ॥

गुरुर् एव परं ब्रह्म
गुरुर् एव परा गतिः ।
गुरुर् एव परं विद्या
गुरुर् एव परं धनम् ॥

गुरुर् एव परः कामः
गुरुर् एव परायणः ।
यस्मात् तद्-उपदेष्टासौ
तस्माद् गुरुतरो गुरुः ॥

यस् सकृद् उच्चारणः संसार-विमोचनो भवति ।
सर्व-पुरुषार्थ-सिद्धिर् भवति ।
न च पुनर्-आवर्तते,
न च पुनरावर्तत इति ।
य एवं वेदेत्य् उपनिषत् ॥

इति द्वयोपनिषत् समाप्ता ।