Source: परिष्कृततरा
श्रीरामतापिन्युपनिषत्
मङ्गलम्
श्री-राम-तापनीयार्थं
भक्त-ध्येय-कलेवरम् ।
विकलेवर-कैवल्यं
श्री-राम-ब्रह्म मे गतिः ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा
भद्रं पश्येमाक्षभिर् यजत्राः ।
स्थिरैर् अङ्गैस् तुष्टुवाँसस् तनूभिर्
व्यशेम देव-हितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्ध-श्रवाः
स्वस्ति नः पूषा विश्व-वेदाः ।
स्वस्ति नस् तार्क्ष्यो अ-रिष्ट-नेमिः
स्वस्ति नो बृहस्पतिर् दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
१ परिचयः
व्युत्पत्तयः
ॐ
चिन्मये ऽस्मिन् महाविष्णौ
जाते दशरथे हरौ ।
रघोः कुले, ऽखिलं राति
राजते यो मही-स्थितः ॥ १॥
स राम इति लोकेषु
विद्वद्भिः प्रकटी-कृतः ।
राक्षसा येन मरणं
यान्ति स्वोद्रेकतो ऽथवा ॥ २॥
राम-नाम भुवि ख्यातम्
अभिरामेण वा पुनः ।
मार्गान् राति
राक्षसान् मर्त्य-रूपेण
राहुर् मनसि-जं यथा ॥ ३॥
प्रभा-हीनांस् तथा कृत्वा
राज्यार्हाणां मही-भृताम् ।
धर्म-मार्गं चरित्रेण
ज्ञान-मार्गं च नामतः ॥ ४॥
तथा ध्यानेन वैराग्यम्
ऐश्वर्यं स्वस्य पूजनात् ।
तथा रात्य् अस्य रामाख्या
भुवि स्याद् अथ तत्त्वतः ॥ ५॥
ब्रह्मपरं व्युत्पत्तिः
रमन्ते योगिनो ऽनन्ते
नित्यानन्दे चिद्-आत्मनि ।
इति राम-पदेनासौ
परं ब्रह्माभिधीयते ॥ ६॥
रूप-कल्पना
चिन्मयस्याद्वितीयस्य
निष्कलस्याशरीरिणः ।
उपासकानां कार्यार्थं
ब्रह्मणो रूप-कल्पना ॥ ७॥+++(5)+++
रूप-स्थानां देवतानां
पुं-स्त्र्य्-अङ्गास्त्रादि-कल्पना ।
द्वि-चत्वारि-षड्-अष्टानां
दश द्वादश षोडश ॥ ८॥
अष्टा-दशामी कथिता
हस्ताः शङ्खादिभिर्युताः ।
सहस्रान्तास्, तथा तासां
वर्ण-वाहन-कल्पना ॥ ९॥
शक्ति-सेना-कल्पना च
ब्रह्मण्य् एवं हि पञ्च-धा +++(हस्त-वर्ण-शक्ति-सेना-वाहनानि)+++।
कल्पितस्य शरीरस्य
तस्य सेनादि-कल्पना ॥ १०॥
मन्त्रार्थः
ब्रह्मादीनां वाचको ऽयं
मन्त्रो ऽन्वर्थादि-सञ्ज्ञकः ।
जप्तव्यो मन्त्रिणा, नैवं
विना देवः प्रसीदति ॥ ११॥
क्रिया-कर्मेज्या-कर्तॄणाम्
अर्थं मन्त्रो वदत्य्, अथ ।
मननात् त्राणनान् मन्त्रः
सर्व-वाच्यस्य वाचकः ॥ १२॥
यन्त्रम्
सोऽभयस्यास्य देवस्य
विग्रहो यन्त्र-कल्पना ।
विना यन्त्रेण चेत् पूजा
देवता न प्रसीदति ॥ १३॥
इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् ॥ १॥
२ बीजम्
स्वर्-भूर्-ज्योतिर्-मयो, ऽनन्त-
रूपी, स्वेनैव भासते ।
जीवत्वेन, समो यस्य
सृष्टि-स्थिति-लयस्य च ॥ १॥
कारणत्वेन चिच्-छक्त्या
रजः-सत्त्व-तमो-गुणैः ।
यथैव वट-बीजस्थः
प्राकृतश् च महान् द्रुमः ॥ २॥
तथैव राम-बीज-स्थं
जगद् एतच् चराचरम् ।
रेफारूढा मूर्तयः स्युः
शक्तयस् तिस्र एव च ॥ ३॥
इति रामपूर्वतापिन्युपनिषदि द्वितीयोपनिषत् ॥ २॥
३ पूज्यौ
सीता-रामौ तन्-मयाव् अत्र पूज्यौ
जातान्य् आभ्यां भुवनानि द्वि-सप्त ।
स्थितानि च, प्रहितान्य् एव तेषु
ततो रामो मानवो मायया ऽधात् ॥ १॥
जगत्-प्राणायात्मनेऽस्मै नमः स्यान्
नमस् त्व् ऐक्यं प्रवदेत् प्राग्-गुणेन ॥ २॥
इति रामतापिन्युपनिषदि तृतीयोपनिषत् ॥ ३॥
४
मन्त्रांशार्थः
जीव-वाची नमो नाम
चात्मा रामेति गीयते ।
तदात्मिका या चतुर्थी
तथा मायेति गीयते ॥ १॥
मन्त्रोयं वाचको रामो
रामो वाच्यः स्याद्, योग एतयोः ।
फलतश् चैव सर्वेषां
साधकानां न संशयः ॥ २॥
बीजम्
यथा नामी वाचकेन
नाम्ना यो ऽभिमुखो भवेत् ।
तथा बीजात्मको मन्त्रो
मन्त्रिणो ऽभिमुखो भवेत् ॥ ३॥
बीज-शक्तिं न्यसेद् दक्ष-
वामयोः स्तनयोर् अपि ।
कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् ॥ ४॥
सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ।
अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥
सत्त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ।
उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा ॥ ६॥
प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ।
द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥
प्रसन्नवदनो जेता घृष्ट्यष्टकविभूषितः ।
प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् ॥ ८॥
हेमाभया द्विभुजया सर्वालङ्कृतया चिता ।
श्लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः ॥ ९॥
दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः ।
हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् ॥ १०॥
तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया ।
एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः ॥ ११॥
देवकृतरामस्तुतिः
स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् ।
कामरूपाय रामाय नमो मायामयाय च ॥ १२॥
नमो वेदादिरूपाय ओङ्काराय नमो नमः ।
रमाधराय रामाय श्रीरामायात्ममूर्तये ॥ १३॥
जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने ।
भद्राय रघुवीराय दशास्यान्तकरूपिणे ॥ १४॥
रामभद्र महेश्वास रघुवीर नृपोत्तम ।
भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते ॥ १५॥
त्वमैश्वर्यं दापयाथ सम्प्रत्याश्वरिमारणम् ।
कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः ॥ १६॥
ऋषिकृतरामस्तुतिः
स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः ।
रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे ॥ १७॥
स रावण इति ख्यातो यद्वा रावाच्च रावणः ।
तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ १८॥
विचेरतुस्तदा भूमौ देवीं सन्दृश्य चासुरम् ।
हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया ॥ १९॥
पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् ।
आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ ॥ २०॥
स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः ।
विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ २१॥
सप्त सालान्विभिद्याशु मोदते राघवस्तदा ।
तेन हृष्टः कपीन्द्रोऽसौ स रामस्तस्य पत्तनम् ॥ २२॥
जगामागर्जदनुजो वालिनो वेगतो गृहात् ।
तदा वाली निर्जगाम तं वालिनमथाहवे ॥ २३॥
निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः ।
हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना ॥ २४॥
आदाय मैथिलीमद्य ददताश्वाशु गच्छत ।
ततस्ततार हनुमानब्धिं लङ्कां समाययौ ॥ २५॥
सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् ।
आगत्य रामेण सह न्यवेदयत तत्त्वतः ॥ २६॥
तदा रामः क्रोधरूपी तानाहूयाथ वानरान् ।
तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ ॥ २७॥
तां दृष्ट्वा उदधीशेन सार्धं युद्धमकारयत् ।
घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे॥ २८॥
हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् ।
आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः ॥ २९॥
पट्टाभिषिक्तरामविभूतिः
ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः ।
धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः ॥ ३०॥
मुद्रां ज्ञानमयीं याम्ये वामे तेजप्रकाशिनीम् ।
धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः ॥ ३१॥
उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः ।
हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् ॥ ३२॥
भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् ।
पश्चिमे लक्ष्मणं तस्य धृतच्छ्रत्रं सचामरम् ॥ ३३॥
तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् ।
एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ३४॥
द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः ।
तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ ३५॥
बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् ।
जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ ३६॥
विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ।
अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः ॥ ३७॥
ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः ।
इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः ॥ ३८॥
बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः ।
वसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ ३९॥
यन्त्रलेखनप्रकारः
एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ।
त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ ४०॥
तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।
द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा ॥ ४१॥
कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् ।
तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् ॥ ४२॥
दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः ।
कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४३॥
क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् ।
वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् ॥ ४४॥
केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् ।
तेषु मालामनोर्वर्णान्विलिखेदूर्मिसङ्ख्यया ॥ ४५॥
अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् ।
तेषु नारायणाष्टार्णांलिख्य तत्केसरे रमाम् ॥ ४६॥
तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् ।
अथों नमो भगवते वासुदेवाय इत्ययम् ॥ ४७॥
आदिक्षान्तान्केसरेषु वृत्ताकारेण संलिखेत् ।
तद्बहिः षोडशदलं लिख्य तत्केसरे हृयम् ॥ ४८॥
वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् ।
तत्सन्धिष्विरजादीनां मन्त्रान्मन्त्री समालिखेत् ॥ ४९॥
ह्रं स्रं भ्रं व्रं लूॅं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः ।
द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् ॥ ५०॥
विलिखेन्मन्त्रराजार्णांस्तेषु पत्रेषु यत्नतः ।
ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै ॥ ५१॥
द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः ।
भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् ॥ ५२॥
द्वारोपतं च राश्यादिभूषितं फणिसंयुतम् ।
अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः ॥ ५३॥
महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः ।
एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च ॥ ५४॥
नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा ।
कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः ॥ ५५॥
यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि ।
अन्त्याङ्घ्रीशवियद्बिन्दुनादैर्बीजं च सौकरम् ॥ ५६॥
मलान्मंत्रोद्धारः
हुङ्कारं चात्र रामस्य मालमन्त्रोऽधुनेरितः ।
तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका ॥ ५७॥
रुद्रेण संयुता वह्निमेधामरविभूषिता ।
दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घसमायुता ॥ ५८॥
क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ।
युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी ॥ ५९॥
सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा ।
ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता ॥ ६०॥
कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ ।
स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ॥ ६१॥
कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा ।
तापनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः ॥ ६२॥
नारायणात्मकः कालः प्राणाभो विद्यया युतः ।
पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः ॥ ६३॥
सप्तचत्वारिंशद्वर्णगुणान्तःस्पृङ्मनुः स्वयम् ।
राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् ॥ ६४॥
यंत्रस्तुतिः
इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् ।
सेवकानां मोक्षकरमायुरारोग्यवर्धनम् ॥ ६५॥
अपुत्राणां पुत्रदं च बहुना किमनेन वै ।
प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि ॥ ६६॥
इदं रहस्यं परममीश्वरेणापि दुर्गमम् ।
इदं यन्त्रं समाख्यातं न देयं प्राकृते जने ॥ ६७॥ इति॥
इति तुरीयोपनिषत् ॥
५
भूतशुद्ध्यादिपीठार्चनान्तपूजा
ॐ
भूतादिकं शोधयेद्द्वारपूजां
कृत्वा पद्माद्यासनस्थः प्रसन्नः ।
अर्चाविधावस्य पीठाधरोर्ध्व-
पार्श्वार्चनं मध्यपद्मार्चनं च ॥ १॥
कृत्वा मृदुश्लक्ष्णसुतूलिकायां
रत्नासने देशिकमर्चयित्वा ।
शक्तिं चाधाराख्यकां कूर्मनागौ
पृथिव्यब्ज स्वासनाधः प्रकल्प्य ॥ २॥
विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं
बीजादिकांश्चाग्निदेशादिकांश्च ।
पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च
नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्च ॥ ३॥
मध्ये क्रमादर्कविध्वग्नितेजां-
स्युपर्युपर्यादिमैरर्चितानि ।
रजः सत्वं तम एतान् वृत्त-
त्रयं बीजाढ्यं क्रमाद्भावयेच्च ॥ ४॥
आशाव्याशास्वप्यथात्मानमन्त-
रात्मानं वा परमात्मानमन्तः ।
ज्ञानात्मानं चार्चयेत्तस्य दिक्षु
मायाविद्ये ये कलापारतत्त्वे ॥ ५॥
आवरणपूजा
सम्पूजयेद्विमलादीश्च शक्ती-
रभ्यर्चयेद्देवमवाहयेच्च ।
अङ्गव्यूहानिलजाद्यैश्च पूज्य
घृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः ॥ ६॥
वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यै-
राराधयेद्राघवं चन्दनाद्यैः ।
मुख्योपहारैर्विविधैश्च पूज्यै-
स्तस्मै जपादींश्च सम्यक्प्रकल्प्य ॥ ७॥
प्रसादद्वारा मोक्षप्राप्तिः
एवम्भूतं जगदाधारभूतं
रामं वन्दे सच्चिदानन्दरूपम् ।
गदारिशङ्खाब्जधरं भवारिं
स यो ध्यायेन्मोक्षमाप्नोति सर्वः ॥ ८॥
विश्वव्यापी राघवो यस्तदानी-
मन्तर्दधे श्ङ्खचक्रे गदाब्जे ।
धृत्वा रमासहितः सानुजश्च
सपत्तनः सानुगः सर्वलोकी ॥ ९॥
तद्भक्ता ये लब्धकामांश्च भुक्त्वा
तथा पदं परमं यान्ति ते च ।
इमा ऋचः सर्वकामार्थदाश्च
ये ते पठन्त्यमला यान्ति मोक्षम् ॥ १०॥
इति पञ्चमोऽपनिषत् ॥
चिन्मयेऽस्मिंस्त्रयोदश । स्वभूर्ज्योतिस्तिस्रः ।
सीतारामावेका । जीववाची षट्षष्टिः ।
भूतादिकमेकादश । पञ्चखण्डेषु त्रिनवतिः ।
इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता ॥
रामोत्तरतापिन्युपनिषत्
ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् । यदनु कुरुक्षेत्रं
देवानां देवयजनं सर्वेषां भूतानां
ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं
सर्वेषां भूतानां ब्रह्मसदनम् । तस्माद्यत्र क्वचन
गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां
देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं
ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति ।
तस्मादविमुक्तमेव निषेवेत । अविमुक्तं न विमुञ्चेत् ।
एवमेवैतद्याज्ञवल्क्य ॥ १॥
अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं
तारकं किं तारयतीति । स होवाच याज्ञवल्क्यस्तारकं
दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां
नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः
सच्चिदानन्दाख्या इत्युपासितव्यम् । अकारः प्रथमाक्षरो
भवति । उकारोद्वितीयाक्षरो भवति । मकारस्तृतीयाक्षरो
भवति । अर्धमात्रश्चतुर्थाक्षरो भवति । बिन्दुः पञ्चमाक्षरो
भवति । नादः षष्ठाक्षरो भवति । तारकत्वात्तारको भवति ।
तदेव तारकं ब्रह्म त्वं विद्धि । तदेवोपासितव्यमिति ज्ञेयम् । गर्भजन्मजरामरणसंसारमहद्भयात्सन्तारयतीति ।
तस्मादुच्यते षडक्षरं तारकमिति । । य एतत्तारकं ब्रह्म
ब्राह्मणो नित्यमधीते । स पाप्मानं तरति । स मृत्युं तरति ।
स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति। स संसारं तरति ।
स सर्वं तरति । सोऽविमुक्तमाश्रितो भवति । स महान्भवति ।
सोऽमृतत्वं च गच्छति ॥ २॥
अत्रैते श्लोका भवन्ति ।
अकारक्षरसम्भूतः सौमित्रिर्विश्वभावनः ।
उकाराक्षरसम्भूतः शत्रुघ्नस्तैजसात्मकः ॥ १॥
प्राज्ञात्मकस्तु भरतो मकाराक्षरसम्भवः ।
अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः ॥ २॥
श्रीरामसान्निध्यवशाज्जगदाधारकारिणी ।
उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥ ३॥
सा सीता भवति ज्ञेया मूलप्रकृतिसञ्ज्ञिता ।
प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः ॥ ४॥ इति॥
ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव ।
यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं
ह्येतद्ब्रह्म । अयमात्मा ब्रह्म सोऽयमात्मा
चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग
एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः
प्रथमः पादः ॥ स्वप्नस्थानोऽन्तःप्रज्ञः
सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो
द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं
कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् ।
सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो
ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ।
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष
योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् ।
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं
न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्य-
मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य-
मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं
शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा स विज्ञेयः
सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा
द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो
निरस्ताविद्यातमोमोहोऽहमेवेति सम्भाव्याहमोन्त-
त्सद्यत्परम्ब्रह्म रामचन्द्रश्चिदात्मकः ।
सोऽहमोन्तद्रामभद्रपरञ्ज्योतीरसोऽहमोमित्या-
त्मानमादाय मनसा ब्रह्मणैकीकुर्यात् ॥
सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः ॥ इत्युपनिषत् ॥
य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य
एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा
तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः ।
सोऽविमुक्त उपास्योऽयम् । एषोऽनन्तोऽव्यक्त आत्मा
सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति ।
वरणायां नास्यां च मध्ये प्रतिष्ठित इति ॥
का वै वरणा का च नासीति । जन्मान्तरकृतान्सर्वा-
न्दोषन्वारयतीति तेन वरणा भवतीति ।
सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति ।
कतमच्चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च
यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति ।
एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति ॥
सोऽविमुक्त उपास्य इति । सोऽविमुक्तं ज्ञानमाचष्टे यो
वा एतदेवं वेद ॥ अथ तं प्रत्युवाच ।
श्रीरामस्य मनुं काश्यां
जजाप वृषभ-ध्वजः ।
मन्वन्तर-सहस्रैस् तु
जप-होमार्चनादिभिः ॥१॥ततः प्रसन्नो भगवाञ्
छ्री-रामः प्राह शङ्करम् ।
वृणीश्व यद् अभीष्टं तद्
दास्यामि परमेश्वर ॥ २॥
इति ॥
अथ सच्चिदानन्दात्मानं श्रीरामम् ईश्वरः पप्रच्छ ।
मणिकर्ण्यां मम क्षेत्रे
गङ्गायां वा तटे पुनः ।
म्रियेत देही तज्-जन्तोर्
मुक्तिर्, नाऽतो वरान्तरम् ॥ ३॥
इति ॥
अथ स होवाच श्रीरामः ॥
क्षेत्रेऽस्मिंस्तव देवेश
यत्र कुत्रापि वा मृताः ।
कृमि-कीटादयो ऽप्याशु
मुक्ताः सन्तु न चान्यथा ॥ ४॥अविमुक्ते तव क्षेत्रे
सर्वेषां मुक्तिसिद्धये ।
अहं सन्निहितस् तत्र
पाषाण-प्रतिमादिषु ॥ ५॥क्षेत्रेऽस्मिन् योऽर्चयेद् भक्त्या
मन्त्रेणानेन मां शिव ।
ब्रह्म-हत्यादि-पापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ ६॥त्वत्तो वा ब्रह्मणो वापि
ये लभन्ते षडक्षरम् ।
जीवन्तो मन्त्र-सिद्धाः स्युर्
मुक्ता मां प्राप्नुवन्ति ते ॥ ७॥मुमूर्षोर् दक्षिणे कर्णे
यस्य कस्यापि वा स्वयम् ।
उपदेक्ष्यसि मन्-मन्त्रं
स मुक्तो भविता शिव ॥ ८॥
इति श्रीरामचन्द्रेणोक्तम् ॥
अथ हैनं भारद्वाजो
याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः
प्रीतो भवति । स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति ।
स होवाच याज्ञवल्क्यः ॥ पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं
शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति ॥
विश्वरूपधरं विष्णुं नारायणमनामयम् ।
पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् ॥
मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् ।
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द
आत्मा यत्परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः ॥ १॥
यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ ॥
यश्चाखण्डैकरसात्मा ॥ २॥ यच्च ब्रह्मानन्दामृतम् ॥ ३॥
यत्तारकं ब्रह्म ॥ ४॥ यो ब्रह्मा विष्णुर्महेश्वरो यः सर्वदेवात्मा ॥ ५॥
ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः ॥ ६॥
यो जीवान्तरात्मा ॥ ७॥ यः सर्वभूतान्तरात्मा ॥ ८॥
ये देवासुरमनुष्यादिभावाः ॥ ९॥ ये मत्स्यकूर्माद्यवताराः ॥ १०॥
योऽन्तःकरणचतुष्टयात्मा ॥ ११॥ यश्च प्राणः ॥ १२॥
यश्च यमः ॥ १३॥ यश्चान्तकः ॥ १४॥ यश्च मृत्युः ॥ १५॥
यच्चामृतम् ॥ १६॥ यानि च पञ्चमहाभूतानि ॥ १७॥
यः स्थावरजङ्गमात्मा ॥ १८॥ ये पञ्चाग्नयः ॥ १९॥
याः सप्त महाव्याहृतयः ॥ २०॥ या विद्या ॥ २१॥
या सरस्वती ॥ २२॥ या लक्ष्मीः ॥ २३॥ या गौरी ॥ २४॥
या जानकी ॥ २५॥ यच्च त्रैलोक्यम् ॥ २६॥ यः सूर्यः ॥ २७॥
यः सोमः ॥ २८॥ यानि च नक्षत्राणि ॥ २९॥ ये च नव ग्रहाः ॥ ३०॥
ये चाष्टौ लोकपालाः ॥ ३१॥ ये चाष्टौ वसवः ॥ ३२॥
ये चैकादश रुद्राः ॥ ३३॥ ये च द्वदिशादित्याः ॥ ३४॥
यच्च भूतं भव्यं भविष्यत् ॥ ३५॥
यद्ब्रह्माण्डस्य बहिर्व्याप्तम् ॥ ३६॥ यो हिरण्यगर्भः ॥ ३७॥
या प्रकृतिः ॥ ३८॥ यश्चोङ्कारः ॥ ३९॥
याश्चतस्रोऽर्धमात्राः ॥ ४०॥ यः परमपुरुषः ॥ ४१॥
यश्च महेश्वरः ॥ ४२॥ यश्च महादेवः ॥ ४३॥
य ॐ नमो भगवते वासुदेवाय ॥ ४४॥ यो महाविष्णुः ॥ ४५॥
यः परमात्मा ॥ ४६॥ यो विज्ञानात्मा ॥ ४७॥
ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा ।
यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै
वै नमो नमः ॥ इति तान्ब्रह्माब्रवीत् । सप्तचत्वारिंशन्मन्त्रैर्नित्यं
देवं स्तुवध्वम् । ततो देवः प्रीतो भवति । स्वात्मानं दर्शयति ।
तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति ।
सोऽमृतत्वं गच्छतीति महोपनिषत् ॥ ५॥
अथ हैनं भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच
श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति । स होवाच याज्ञवल्क्यः ।
स्वप्रकाशः परञ्ज्योतिः स्वानुभूत्यैकचिन्मयः ।
तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः ॥ १॥
अखण्डैकरसानन्दस्तारकब्रह्मवाचकः ।
रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः ॥ २॥
नमःपदं सुविज्ञेयं पूर्णानन्दैककारणम् ।
सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः ॥ ३॥ इति ॥
य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते ।
सोऽग्निपूतो भवति । स वायुपूतो भवति । स आदित्यपूतो भवति ।
स सोमपूतो भवति । स ब्रह्मपूतो भवति । स विष्णुपूतो भवति ।
स रुद्रपूतो भवति । सर्वैर्देवैर्ज्ञातो भवति । सर्वक्रतुभिरिष्टवान्भवति ।
तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।
श्रीरामचन्द्रमनुस्मरणेन गायत्र्यः शतसहस्राणि जप्तानि फलानि
भवन्ति । प्रणवानामयुतकोटिजपा भवन्ति । दश पूर्वान्दशोत्तरान्पुनाति ।
स पङ्क्तिपावनो भवति । स महान्भवति । सोऽमृतत्वं च गच्छति ॥
अत्रैते श्लोका भवन्ति ।
गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः ।
वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः ॥ ४॥
गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः ।
मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ॥ ५॥
षडक्षरोऽयं मन्त्रः स्यात्सर्वाघौघनिवारणः ।
मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः ॥ ६॥
कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् ।
सर्वं दहति निःशेषं तूलराशिमिवानलः ॥ ७॥
ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च ।
स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च ॥ ८॥
कोटिकोटिसहस्राणि उपपातकजान्यपि ।
सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् ॥ ९॥
भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः ।
दूरादेव प्रधावन्ति राममन्त्रप्रभावतः ॥ १०॥
ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् ।
कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति ॥ ११॥
ग्राम्यारण्यपशुघ्नत्वं सञ्चितं दुरुतं च यत् ।
मद्यपानेन यत्पापं तदप्याशु विनाशयेत् ॥ १२॥
अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् ।
सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् ॥ १३॥
श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् ।
रत्नादेश्चापहारेण तदप्याशु विनाशयेत् ॥ १४॥
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् ।
सञ्चिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् ॥ १५॥
गत्वापि मातरं मोहादगम्याश्चैव योषितः ।
उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् ॥ १६॥
महापातकपापिष्ठसङ्गत्या सञ्चितं च यत् ।
नाशयेत्तत्कथालापशयनासनभोजनैः ॥ १७॥
पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् ।
तदनुष्ठानमात्रेणसर्वमेतद्विलीयते ॥ १८॥
यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि ।
नैवापनोद्यते पापं तदप्याशु विनाशयेत् ॥ १९॥
पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् ।
बुद्धिपूर्वमघं कृत्वा तदप्याशुविनाशयेत् ॥ २०॥
कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि ।
पापं च नापनोद्यं यत्तदप्याशु विनाशयेत् ॥ २१॥
आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि ।
किञ्चिदप्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ २२॥
अवस्थात्रितयेष्वेवबुद्धिपूर्वमघं च यत् ।
तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते ॥ २३॥
अवस्थात्रितयेष्वेवं मूलबन्धमन्त्रं च यत् ।
तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति ॥ २४॥
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भ्वाः ।
स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः ॥ २५॥
येषु येष्वपि देशेषु रामभद्र उपास्यते ।
दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन ॥ २६॥
शान्तः प्रसन्नवदनो ह्यक्रोधो भक्तवत्सलः ।
अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते ॥ २७॥
सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् ।
ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् ॥ २८॥
तदेतदृचाभ्युक्तम् ।
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
विष्णोर्यत्परमं पदम् । ॐ सत्यमित्युपनिषत् ॥ ६॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
इति रामोत्तरतापिन्युपनिषत्समाप्ता ॥
इति रामतापिन्युपनिषत्समाप्ता॥