नारायणोपनिषत् वा नारायणाथर्वशीर्षम्

विस्तारः (द्रष्टुं नोद्यम्)

Narayana atharvashira is also called narayana upanishad and associated with Krishna YV. It has an exalted place in vaikhanasa paddhatis and there are reasons to believe that it is a vaikhanasa text which has become very popular later.

Interestingly, it is the Vedic text which still survives in Bali. No other upanishad survives there.. nor any samhita

  • ravilochanaH

नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष

कृष्णयजुर्वेदीया

ॐ सह नाववतु
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

सर्वचेतनाचेतनजन्म

(प्रथमः खण्डः
नारायणात् सर्वचेतनाचेतनजन्म)

ॐ अथ पुरुषो ह वै नारायणोऽकामयत - प्रजाः सृजेयेति ।
नारायणात् प्राणो जायते, मनः सर्वेन्द्रियाणि च,
खं वायुर् ज्योतिर् आपः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।
नारायणाद् इन्द्रो जायते । नारायणात् प्रजापतयः प्रजायन्ते ।
नारायणाद् द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दाँसि ।
नारायणादेव समुत्पद्यन्ते ।
नारायणे प्रवर्तन्ते ।
नारायणे प्रलीयन्ते ॥

(एतदृग्वेदशिरोऽधीते ।)

नारायणस्य सर्वात्मत्वम्

(द्वितीयः खण्डः
नारायणस्य सर्वात्मत्वम्)

ॐ ।
अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः ।
शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः ।
कालश्च नारायणः ।
दिशश्च नारायणः ।
ऊर्ध्वं च नारायणः ।
अधश्च नारायणः । अन्तर्बहिश्च नारायणः ।
नारायण एवेदँ सर्वम् -
यद्भूतं यच्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
शुद्धो देव एको नारायणः ।
न द्वितीयोऽस्ति कश्चित् ।
य एवं वेद ।
स विष्णुर् एव भवति, स विष्णुर् एव भवति ॥

(एतद्यजुर्वेदशिरोऽधीते ।)

नारायणाष्टाक्षरमन्त्रः

(तृतीयः खण्डः
नारायणाष्टाक्षरमन्त्रः)

ओमित्यग्रे व्याहरेत् ।
नम इति पश्चात् ।
नारायणायेत्युपरिष्टात् ।

ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।

यो ह वै नारायणस्याष्टाक्षरं पदम् अध्येति ।
अनपब्रुवस् सर्वम् आयुर् एति ।
विन्दते प्राजापत्यँ रायस्-पोषं गौपत्यम् ।
ततो ऽमृतत्वम् अश्नुते, ततोऽमृतत्वमश्नुत इति ।
य एवं वेद ॥

(एतत्सामवेदशिरोऽधीते । ओं नमो नारायणाय)

नारायणप्रणवः

(चतुर्थः खण्डः
नारायणप्रणवः)

प्रत्यग्-आनन्दं ब्रह्म-पुरुषं प्रणव-स्वरूपम् ।
अकार उकार मकार इति ।
तान् एकधा समभरत् - तद् एतद् ओम् इति ।

यम् उक्त्वा मुच्यते योगी
जन्मसंसारबन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः -
वैकुण्ठभुवनलोकं गमिष्यति ।

तद् इदं परं पुण्डरीकं विज्ञान-घनम् ।
तस्मात् तटिद्-आभ-मात्रम् ।
( भाष्यम् - तस्मात् तटिदिव प्रकाशमात्रम्)

ब्रह्मण्यो देवकीपुत्रो
ब्रह्मण्यो मधुसूदनोम् ।
(var ब्रह्मण्यो मधुसूदनयोम्)

सर्वभूतस्थम् एकं नारायणम् ।
कारण-रूपम् अकार परं ब्रह्मोम् ।

विद्याऽध्ययनफलम्

एतद् अथर्वशिरो यो ऽधीते ॥

प्रातर् अधीयानो रात्रिकृतं पापं नाशयति ।
सायम् अधीयानो दिवसकृतं पापं नाशयति ।
माध्यन्दिनम् आदित्याभिमुखोऽधीयानः
पञ्च-महापातकोपपातकात् प्रमुच्यते ।
सर्व वेद पारायण पुण्यं लभते ।
नारायण-सायुज्यम् अवाप्नोति
नारायण-सायुज्यम् अवाप्नोति ।

य एवं वेद । इत्युपनिषत् ॥

ॐ सह नाववतु
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु ।
मा विद्विषावहै ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥