हयग्रीवोपनिषत्
स्वज्ञोऽपि यत्प्रसादेन
ज्ञानं तत्फलमाप्नुयात् ।
सोऽयं हयास्यो भगवान्
हृदि मे भातु सर्वदा ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
१
हरिः ॐ ॥
नारदो ब्रह्माणम् उपसमेत्योवाच -
अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां
यया चिरात् सर्व-पापं व्यपोह्य
ब्रह्मविद्यां लब्ध्वैश्वर्यवान् भवति ।
ब्रह्मोवाच
हयग्रीव-दैवत्यान् मन्त्रान् यो वेद
स श्रुतिस्मृतीतिहास-पुराणानि वेद ।
स सर्वैश्वर्यवान् भवति ।
त एते मन्त्राः ।
१
विश्वोत्तीर्ण-स्वरूपाय
चिन्मयानन्द-रूपिणे ।
तुभ्यं नमो हयग्रीव
विद्या-राजाय विष्णवे
स्वाहा स्वाहा नमः ॥ १॥
२
ऋग्-यजुः-साम-रूपाय
वेदाहरण-कर्मणे ।
प्रणवोद्गीथ-वपुषे
महाश्व-शिरसे नमः
स्वाहा स्वाहा नमः ॥ २॥
३
उद्गीथ प्रणवोद्गीथ
सर्ववागीश्वरेश्वर ।
सर्व-वेद-मयाचिन्त्य
सर्वं बोधय बोधय
स्वाहा स्वाहा नमः ॥ ३॥
४
ब्रह्मात्रि-रवि-सवितृ-भार्गवा ऋषयः ।
गायत्री-त्रिष्टुब्-अनुष्टुप् छन्दांसि ।
श्रीमान् हयग्रीवः परमात्मा देवतेति ।
ह्लौ(ह्सौ)म् इति बीजम् ।
सोऽहमिति शक्तिः ।
ह्लू(ह्सौ)म् इति कीलकम् ।
भोग-मोक्षयोर् विनियोगः ।
अकारोकार-मकारैर् अङ्गन्यासः ।
ध्यानम् ।
शङ्ख-चक्र-महा-मुद्रा-
पुस्तकाढ्यं चतुर्भुजम् ।
सम्पूर्ण-चन्द्र-सङ्काशं
हयग्रीवम् उपास्महे ॥
ॐ श्रीम् इति द्वे अक्षरे ।
ह्लौ(ह्सौ)म् इत्य् एकाक्षरम् ।
ॐ नमो भगवत इति सप्ताक्षराणि ।
हयग्रीवायेति पञ्चाक्षराणि ।
विष्णव इति त्र्यक्षराणि ।
मह्यं मेधां प्रज्ञाम् इति षडक्षराणि ,
प्रयच्छ स्वाहेति पञ्चाक्षराणि ।
+++(इति)+++ हयग्रीवस्य तुरीयो +++(मन्त्रो)+++ भवति ॥ ४॥
५
ॐ श्रीम् इति द्वे अक्षरे । ह्लौ(ह्सौ)म् इत्य् एकाक्षरम् ।
ऐम् ऐम् ऐम् इति त्रीण्य् अक्षराणि ।
क्लीं क्लीम् इति द्वे अक्षरे ।
सौः सौर् इति द्वे अक्षरे ।
ह्रीम् इत्य् एकाक्षरम् ।
ॐ नमो भगवत इति सप्ताक्षराणि ।
मह्यं मेधां प्रज्ञाम् इति षडक्षराणि ।
प्रयच्छ स्वाहेति पञ्चाक्षराणि ।
पञ्चमो मनुर्भवति ॥ ५॥
इति हयग्रीवोपनिषत्सु प्रथमोपनिषत् ॥ १ ॥
२
एकाक्षरम्
हयग्रीवैकाक्षरेण ब्रह्मविद्यां प्रवक्ष्यामि ।
ब्रह्मा महेश्वराय, महेश्वरः सङ्कर्षणाय, सङ्कर्षणो नारदाय,
नारदो व्यासाय, व्यासो लोकेभ्यः प्रायच्छद्
इति हकारो सकारो मकारो त्रयम् एकस्वरूपं भवति ।
ह्लौं(ह्सौं) बीजाक्षरं भवति ।
बीजाक्षरेण ह्लौं(ह्सौं) रूपेण
तज्-जापकानां सम्पत्-सारस्वतौ भवतः ।
तत्-स्वरूप-ज्ञानां वैदेही मुक्तिश् च भवति ।
दिक्-पालानां, राज्ञां, नागानां, किन्नराणाम् अधिपतिर् भवति ।
हयग्रीवैकाक्षर-जप-शीलाज्ञया
सूर्यादयः स्वतः स्व-स्व-कर्मणि प्रवर्तन्ते ।
सर्वेषां बीजानां हय-ग्रीवैकाक्षर-बीजम् अनुत्तमं मन्त्र-राजात्मकं भवति ।
ह्लौं(ह्सौं) हयग्रीव-स्वरूपो भवति ।
अनुषङ्गाः
अमृतं कुरु कुरु स्वाहा ।
तज्-जापकानां वाक्-सिद्धिः श्री-सिद्धिर् अष्टाङ्ग-योग-सिद्धिश् च भवति ।
ह्लौं(ह्सौं) सकल-साम्राज्येन सिद्धिं कुरु कुरु स्वाहा ।
फलम्
तान् एतान् मन्त्रान् यो वेद
अपवित्रः पवित्रो भवति ।
अब्रह्मचारी सुब्रह्मचारी भवति ।
अगम्यागमनात् पूतो भवति ।
पतित-सम्भाषणात् पूतो भवति ।
ब्रह्म-हत्यादि-पातकैर् मुक्तो भवति ।
गृहं गृह-पतिर् इव
देही देहान्ते परमात्मानं प्रविशति ।
“प्रज्ञानम् आनन्दं ब्रह्म”,
“तत् त्वम् असि”,
“अयमात्मा ब्रह्म”,
“अहं ब्रह्मास्मी"ति महावाक्यैः
प्रतिपादितम् अर्थं
त एते मन्त्राः प्रतिपादयन्ति ।
स्वर-व्यञ्जन-भेदेन द्विधा+++(=??)+++ एते ।
अनुमन्त्राः
अथानुमन्त्राञ् जपति ।
यद्वाग्-वदन्त्य् अविचेतनानि
राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयांसि
क्व स्विद् अस्याः परमं जगाम ॥ १॥
गौरीर् मिमाय सलिलानि तक्षत्य्
एकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी
सहस्राक्षरा परमे व्योमन् ॥ २॥
ओष्ठापिधाना नकुली
दन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु
मामिह वादयेति च वाग्रसः ॥ ३॥
ससर्परीर् अमतिं बाधमान
बृहन् मिमाय जमदग्निदत्त ।
आसूर्यस्य दुरिता तनान
श्रवो देवेष्व् अमृतम् अजुर्यम् ॥ ४॥
य इमां ब्रह्मविद्याम् एकादश्यां पठेद्
+हयग्रीवप्रभावेण महापुरुषो भवति ।
स जीवन्मुक्तो भवति ।
उपसंहारः
ॐ नमो ब्रह्मणे
धारणं मे अस्त्व् अनिराकरणं
धारयिता भूयासं
कर्णयोः श्रुतं माच्योढ्वं
ममामुष्य ओम्
इत्य् उपनिषत् ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥
इति हयग्रीवोपनिषत्समाप्ता ॥