गुर्जरप्रदेशे प्राचीनगुरुकुलपरम्परायाः पुनः संस्थापकाः परमपूज्याः सद्विद्यासद्धर्मरक्षकाः शास्त्रिजीमहाराजाः श्रीधर्मजीवनदासजीस्वामिन आसन् । श्रीमाधवप्रियदासस्वामिचरणाः तेषां स्वनामधन्यानां सद्गुरूणां प्रिया अन्तेवासिनस्सन्ति । एतेषां स्वामिवर्याणां जन्म १९५० तमे ख्रीष्टाब्दे, अक्टुबरमासे, २६ तमे दिनाङ्के अभवत् । एतैः स्वामिचरणैः १९६८ तमे क्रीष्टाब्दे राजदुर्गनगरस्य श्री-स्वामि-नारायणगुरुकुले मध्यमाकक्षाया अध्ययनं परिसमाप्य भागवती दीक्षा गृहीता । तदनन्तरं स्वगुरुचरणानामादेशेन सम्पूर्णानन्दसंस्कृतविश्वविद्यालये ई.
१९७२ तः १९७७ पर्यन्तं वाराणस्यां शास्त्राभ्यासः कृतः ।
सद्गुरुचरणानां प्रियैरन्तेवासिभिः स्वामिवर्यैः १९७७ तमे ख्रीष्टाब्दे सम्पूर्णानन्दविश्वविद्यालयस्य वेदान्ताचार्यपरीक्षा प्रथमस्थानप्राप्तिपूर्वकमुत्तीर्णा
सुवर्णपदकत्रयप्राप्तिपुरस्सरम् आचार्यपदवी चाधिगता ।
वाराणस्याम् अभ्यासकाले पूज्यैः स्वामिचरणैः १९७४ तमे वर्षे तिरुपतौ आयोजितायामखिलभारतीयसंस्कृतस्पर्धायां सांख्ययोगदर्शने वेदान्तदर्शने च प्रथमस्थानं प्राप्य सुवर्णपदकद्वयं प्राप्तम् । एतदतिरिच्य राज्यस्तरे राष्ट्रियस्तरे च जातायां नैकविधशास्त्रीयस्पर्धायां भागं गृहीत्वा पूज्यैः स्वामिभिः नैकानि सुवर्णरजतपदकानि च लब्धानि सन्ति ।
श्री-स्वामि-नारायणसम्प्रदायस्य वृत्तालयगादीसंस्थानस्य आचार्यवर्यैः पूज्याः स्वामिचरणाः सद्गुरु इति पदव्या सम्मानिताः सन्ति ।
२००२ तमे वर्षे पोरबन्दरनगरस्थसान्दीपनिविद्यानिकेतनसंस्थाऽध्यक्षैः पूज्यश्रीरमेशभाईओझामहोदयैः देवर्षिः इति पदव्या पूज्याः श्रीमाधवप्रियस्वामिनः विभूषिताः ।
२००२ तमे वर्षे पूज्यस्वामिवर्या अमेरिकादेशे आयोजितायाम् WORLD RELIGIOUS CONFERENCE इति नाम्नि वैश्विकधार्मिकपरिषदि भागं अगृह्णन् ।
२००५ तमे वर्षे ROTARY INTERNATIONAL CLUB इत्यनया संस्थया PROFESSIONAL EXCELLENCE इत्याख्या विशिष्टप्रशस्त्या पूज्याः स्वामिचरणाः सम्मानिताः ।
[[१५३]]
२००९ तमे वर्षे कर्णाटकराज्यस्य मेलुकोटग्रामे स्थितया संस्कृतसंशोधनसंसदा तथा गुजरातविद्वत्परिषदा विद्वद्विभूषणम् इति प्रशस्त्या श्रीमन्तः स्वामिवर्याः सभाजिताः ।
२०१४ तमे वर्षे वेरावलस्थश्रीसोमनाथसंस्कृतविश्वविद्यालयेन विद्यावाचस्पति इत्युपाधिना पूज्याः स्वामिनो विभूषिताः ।
२०१९ तमे वर्षे शिक्षणक्षेत्रे सामाजिकक्षेत्रे च पूज्यानां स्वामिवर्याणां सेवाकार्यमनुलक्ष्य बृहद्गुजरातिसमाजद्वारा स्वामिचरणाः GUJARATI GAURAV AWARD इत्यनेन विशिष्टसम्माननेन सम्मानिताः ।
भगवता श्री-स्वामि-नारायणेन शिक्षापत्र्यां प्रबोधितं तथैव सद्विद्यासद्धर्मरक्षक- शास्त्रिजीमहाराजगुरुवर्येण गुरुकुलमाध्यमेन प्रवर्तितं सर्वजीवहितावहात्मकम् , सद्विद्याप्रवर्तनात्मकम् इति सेवाकार्यं स्वामिपादैः जीवनमन्त्रत्वेन स्वीकृतमस्ति ।
अस्य सेवाकार्यस्य प्रचारप्रसारार्थं स्वामिवर्या अजस्रं देशेषु विदेशेषु च परिभ्रमणं कुर्वन्ति । सनातनभारतीयसंस्कृतेः तथा च श्री-स्वामि-नारायणसम्प्रदायस्य सिद्धान्तानां तथा च राष्ट्रभक्तेः संरक्षणाय संवर्धनाय स्वामिचरणानां जीवनं जाग्रत्प्रहरिवद्वर्तते ।
वर्तमानसमये एते च महायशस्विनः स्वामिवर्याः कर्णावतीनगरस्थायाः श्री-स्वामि-नारायणगुरुकुलं विश्वविद्याप्रतिष्ठानम् , गुजरातम् (SGVP) इति संस्थायाः मूलस्तम्भायमानाः सन्तस्तदध्यक्षपदं निर्वहन्ति । संकुलेऽस्मिन् आधुनिकपाश्चात्यज्ञानविज्ञानयोः समन्वयः सम्यक्तया कृतः स्वामिचरणैः । इदं शिक्षणसंस्थानं भारतवर्षस्य श्रेष्ठतमविंशतिशिक्षणसंस्थानेषु राराज्यते ।
भारतीयसंस्कृतेः संस्कृतभाषायाश्च संरक्षणाय संवर्धनाय स्वामिपादैः SGVP विद्यासंकुले दर्शनम् संस्कृतसंस्थानं संस्थापितं वर्तते, यत्र द्विशताधिकाः छात्राः विना मूल्यं वेदादिशास्त्राणामभ्यासं कुर्वन्ति ।
अस्मिन्नेव संकुले स्वामिपादैः योगः-एलोपथी-आयुर्वेदः इत्येतत्त्रितयस्य समन्वयात्मकं विशालकायं अत्याधुनिकं होलिस्टिकहोस्पिटल-चिकित्सालयसंकुलं संस्थापितमस्ति, यत्र सहस्रशो रोगिणां दीनानाञ्च विना जातिधर्मादिभेदभावं सेवा क्रियते ।
श्रीमद्भिः स्वामिवर्यैः विविधविषयानवलम्ब्य पञ्चदशाधिकग्रन्थानां लेखनं
कृतमस्ति तथा च शतशो भावपरिपूर्णानि काव्यान्यपि रचितानि सन्ति । तथा च तैः श्रीमद्भागवतसत्सङ्गिजीवनाद्यनेकसच्छास्त्राणां शतशः कथापारायणानि कृतानि सन्ति ।
स्वामिचरणानां प्रेरणयैव गुर्जरप्रदेशस्य द्रोणेश्वराख्यतीर्थक्षेत्रे ‘गीर’ इति नाम्ना विश्वस्मिन् प्रथितामरण्यानीं निकषा ऋषितोयाऽपरनामधेयायाः मच्छ्रुन्द्रिसरितस्तीरे कन्यानां प्रशिक्षणाय विशिष्टं प्राचीनगुरुकुलसदृशं कन्यागुरुकुलं संस्थापितं वर्तते ।
स्वामिपादैः विदेशेष्वपि सनातनहिन्दुसंस्कृतेः संवर्धनाय परिरक्षणाय च नैकानि केन्द्राणि प्रचाल्यन्ते तथा च अमेरिकाराष्ट्रे ज्योर्जियाप्रान्ते सवानाहनगरे विशालभूभागेऽत्यन्तरमणीयं भव्यं श्री-स्वामि-नारायणसनातनमन्दिरमपि निर्मापितमस्ति ।
देशेषु विदेशेषु च लब्धयशसां स्वामिवर्याणां प्रेरणया १०८ ग्रामेषु स्वच्छताऽभियानं (CLEAN INDIA , GREEN INDIA) प्रचलति । स्वामिचरणानां प्रेरणया प्रयासेन च सौराष्ट्रप्रदेशस्य विविधग्रामेषु पर्यावरणरक्षणाय जलसंरक्षणाय च सहस्राधिकानां जलसेतूनां निर्माणकार्यं तथैव च लक्षाऽधिकवृक्षारोपणं जातमस्ति । स्वामिपादानां प्रेरणया ई.२००१ तमे वर्षे भयङ्करभूकम्पसमये नैकेषु ग्रामेषु पञ्चपञ्चाशदधिकविद्याशालानां निर्माणं जातमस्ति ।
यदा यदा अतिवृष्ट्यनावृष्टिझञ्झावातकोरोनादिदैवप्रकोपो भवति, तदा तदा स्वामिचरणानां प्रेरणया विपुलानि सेवाकार्याणि प्रचलन्ति ।
हिन्दुधर्माऽऽचार्यसभासंस्थापकैः देशे विदेशेषु च सुप्रसिद्धैः शास्त्रपारावार- पारीणैः कोयम्बतूरआर्षविद्यासंस्थानाध्यक्षैः ब्रह्मलीनैः श्रीदयानन्दस्वामिपादैः स्वामिचरणानां हिन्दुधर्माचार्यसभायाः मुख्यसमितौ सदस्यत्वेन वरणं कृतम् अस्ति । स्वं कर्तव्यं निर्वहन्तः स्वामिचरणा अपि हिन्दुधर्मस्य प्रचाराय प्रसाराय सर्वधर्मसमन्वयनाय च निरन्तरं पुरुषार्थपरायणास्सन्ति । हिन्दुधर्मसभायाः सदस्यरूपेण तैः देशेषु विदेशेषु चाऽऽयोजितासु नैकासु वैश्विकधार्मिकपरिषत्सु भागो गृहीतोऽस्ति ।
एवंप्रकारेण पूज्याः स्वामिचरणा धर्मक्षेत्रे, समाजक्षेत्रे, शिक्षणक्षेत्रे नैकविधासु सर्वजीवहितावहसेवाप्रवृत्तिषु निष्कामभावेन निरन्तरं पुरुषार्थशीला वर्तन्ते ।
लेखकस्य परिचयः