०५ श्री-स्वामि-नारायणमहामन्त्रार्थविचारः

मूलसम्प्रदाये श्री-स्वामि-नारायणमहामन्त्रः केवलस्य इष्टदेवस्य पूर्णपुरूषोत्तमनारायणस्य एव बोधकः, न तु अक्षरपुरुषोत्तमयोरुभयोः बोधकः । अस्य मन्त्रस्य व्यक्तिद्वयवाचकत्वकल्पनं सर्वथा असाधु, सम्प्रदायशास्त्रविरुद्धत्वात् व्याकरणशास्त्रविरुद्धत्वाच्च ।

अस्मिन् महामन्त्रे स्वामिपदं न कस्याऽपि अक्षरादेः संज्ञा, अपि त्वनन्यसाधारणम् अपृथक्सिद्धविशेषणं विशेष्यभूतस्य भगवतो नारायणस्य ।

‘स्वमस्ति अस्य अस्मिन् वा’ इति विग्रहे आत्माऽत्मीयज्ञातिधनवाचिन ऐश्वर्यवाचकात् स्वशब्दात् स्वामिन्नैश्वर्ये (पा.सू.५.२.१२६) इति पाणिनीयाऽनुशासनेन मत्त्वर्थे आमिनच्प्रत्यये निपातिते अनुबन्धलोपे प्रथमाविभक्तौ ‘स्वामी’ इति शब्दः सिद्ध्यति । अत्र व्याकरणविस्तरोऽन्यत्र ज्ञेयः ।

नारायणशब्दस्य विशेषणभूतमिदं स्वामिपदं भगवतो नारायणस्य अनन्याऽसाधारणं स्वाभाविकाऽनवधिकाऽतिशयैश्वर्ययुक्तत्वं बोधयति । आलवन्दारस्तोत्रे भगवता यामुनाचार्येण गीयते यत्

स्वाभाविकाऽनवधिकाऽतिशयेशितृत्वं, नारायण त्वयि न मृष्यति वैदिकः कः ॥ ब्रह्म शिवः शतमखः परमः स्वराडि- त्येते तेऽपि यस्य महिमाऽर्णव विपृषस्ते ॥

श्री-स्वामि-नारायणसम्प्रदाये प्रसिद्धेषु शास्त्रेष्वपि स्वामिपदं भगवतो नारायणस्यैव विशेषणतया प्रयुक्तः । अतो विशेषणभूतोऽयं स्वामिशब्दो गुणपौष्कल्ययोगेन निरवधिकाऽतिशयैश्वर्यं बोधयन् भगवता नारायणेन साकमेव अपृथक्सिद्धसम्बन्धेन संयुज्यते, नान्यत्राऽक्षरादिभिः, तेषु निरवधिकाऽतिशयैश्वर्यस्य अभावात् ।

स्वामिनारायणमहामन्त्रे केचन अक्षरपुरुषोत्तमोपासनासिद्ध्यर्थं ‘स्वामी च

[[१४६]]

नारायणश्चेति’ द्वन्द्वसमासमाश्रित्य स्वामिनारायणमन्त्रं साधयन्ति, तन्न साधु, यतो हि स्वामिशब्दस्तु विशेषणमस्ति, न व्यक्तिविशेषबोधकं विशेष्यपदं संज्ञापदं वा । अतोऽत्र द्वन्द्वसमासो न सम्भवति ।

अत्र केचन विप्रलिप्सया ‘राधया सहितः कृष्णः’ इतिवत् ‘स्वामिना सहितो नारायणः’ इति मध्यमपदलोपितत्पुरुषसमासं कर्तुं प्रयतन्ते । एतादृशः प्रयास अपि मूलसम्प्रदायशास्त्रविरुद्धत्वात् व्याकरणशास्त्रविरुद्धत्वाच्च अप्रामाणिकः एव ।

एकतस्तु एते अक्षरपुरुषोत्तमुपासकाः ‘स्वामिना सहितो नारायणः’ इति मध्यमपदलोपितत्पुरुषसमासं स्वीकुर्वन्ति । अपरतस्तु एते एव स्वकल्पितस्वामिनारायणसिद्धान्तसुधानाम्नि ग्रन्थाभासे -

अक्षरं ब्रह्म विज्ञेयं मन्त्रे स्वामीति शब्दतः । नारायणेति शब्देन तत्परः पुरुषोत्तमः ॥

इति द्वन्द्वसमासमपि स्वीकुर्वन्ति ।

अतः अत्र वदतोव्याघातन्यायः अपि प्रसज्यते । अत एव एतेषाम् एतादृशं कुयुक्ति पूर्वकं प्रतिपादनं विप्रलिप्सैव ।

श्री-स्वामि-नारायणसम्प्रदायस्य प्रमाणभूतेषु शास्त्रेषु बहुशः स्वामिपदं परब्रह्मपुरुषोत्तमनारायणायैव प्रयुक्तम् । तथा हि सर्वमङ्गलस्तोत्रे ‘स्वामी ब्रह्म परब्रह्म’ (सर्व.स्तो.१) इति सर्वे नाममन्त्रा केवलं परब्रह्मपुरुषोत्तमनारायणमेव बोधयन्ति ।

सर्वमङ्गलस्तोत्रभावप्रबोधिनीटीकायाम् ‘स्वमैश्वर्यम् अस्याऽस्तीति स्वामी सकलैश्वर्यसम्पन्नः ।’ (सर्व.भा.टीका १) ‘स्वमैश्वर्यं विद्यते यस्याऽसौ स्वामी’ स्वामिन्नैश्वर्य इति निपातितः सर्वेषां जीवानाम् ईश्वराणाञ्च नियन्तृत्वं सकलकर्मफलप्रदातृत्वरूपं चैश्वर्यं तद्वान् स्वामिशब्दः । एतेन भगवतो नारायणस्यैव सर्वोपास्यत्वमुक्तम् ।

एक एव हरिः स्वामिशब्दवाच्योऽस्ति सर्वथा ।अन्यस्तु तदुपास्त्याप्तगुणयोगात्तथोच्यते ॥

इति बृहद्विष्णुपुराणोक्तेः । (सर्व.भा.टीका ६)

सत्सङ्गिजीवनहेतुटीकायाम् ‘स्वामी सकलैश्वर्यसम्पन्नो यद्वा पतिपर्यायः’ (स.जी.२.२४.४६) सत्सङ्गिजीवनभावबोधिनीटीकायाम् ‘त्वमसि सर्वेषां निरुपाधिकः स्वामी’ (स.जी.२.२८.१६)

[[१४७]]

श्रीहरिवाक्यसुधासिन्धोः सेतुमालाटीकायामुपोद्धातप्रकरणे

‘स्वामी स्वं क्षराऽक्षरादिनियमनैश्वर्यमस्याऽस्तीति । स्वं धनमस्याऽस्ति इति निरवधिकातिशयसम्पत्त्याढ्यः । कालमायाऽक्षरब्रह्मनित्यैश्वर्याणाम् अणिमाद्यनन्तशक्तीनां पतिः ।’ (श्रीहरि.सेतु.टीका) ‘स्वामी तु ईश्वरः पतिः ईशिता’ इत्यमरः ।

अतोऽस्य शब्दस्याऽन्यत्र प्रयोगो गौणः, भगवच्छब्दवत् । भगवदितरेषु स्वामित्वं भगवदिच्छाधीनं क्वाचित्कञ्च वर्तते । यथा त्रिलोकिस्वामी इन्द्रः, ब्रह्माण्डानामधिपतिः विराट्नारायण इत्यादि ।

लोकेऽपि पितृस्थाने गते पुत्रे पितृवत् व्यवहारः क्रियते, तथैव सम्प्रदाये न मात्रं गुणातीतानन्दस्वामिगोपालानन्दस्वामिप्रभृतयो महान्तः अपि सन्तः, अपि तु सर्वेऽपि साधवः स्वामिशब्देन व्यवह्रियन्ते । वस्तुतस्तु ते परब्रह्मणः ‘दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः’ इति च विष्णुपुराणवचनम् ।

अतः अस्मिन् महामन्त्रे व्यक्तिद्वयकल्पनारूपा मन्त्रविखण्डनात्मिका प्रवृत्तिः भगवतः श्री-स्वामि-नारायणस्यापराधरूपा एव ।