०४ अथाऽक्षरशब्दमुख्यार्थविचारः

श्रुतिस्मृतिषु ब्रह्मशब्दवत् ‘अक्षर’ शब्दस्याऽपि बहुधा प्रयोगो दृश्यते । अक्षरात् परतः परः । (मु.उ.२.१.२) इत्यत्राऽक्षरशब्दस्य प्रयोगः प्रधाने अव्याकृते वाऽव्यक्ते प्रधाने वर्तते । यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । (भ.गी.१५.१८) इत्यत्र अक्षरशब्दप्रयोगोजीवेश्वरनित्यमुक्ताऽक्षरब्रह्मादिषु दृश्यते । योऽक्षरमन्तरे सञ्चरन् यस्याऽक्षरं शरीरं यमक्षरं न वेद । (सु.उ.६) इत्यत्राऽक्षरशब्दस्य प्रयोग अक्षरब्रह्मणः कृते वर्तते । तदक्षरे परमे व्योमन् ।

(तै.ना.उ.१.२)

तदाहुरक्षरं ब्रह्म सर्वकारणकारणं विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः । (भा.पु.३.११.४१) इत्यत्राऽक्षरशब्दस्य प्रयोगो भगवतो दिव्याक्षरधाम्नः कृते कृतोऽस्ति । एवमक्षरशब्दस्य श्रुतिस्मृतिषु बहुविधः प्रयोगो दृश्यते । तथाऽयं सङ्ग्रहः (१) प्राण्यप्राणिसाधारणविनाशसामान्याभाववाची (२) आत्मा (३) चिरकालस्थायी (४) न क्षरतीति नित्यविभूतिः (५) मुक्तानां स्थानभूतपरमाकाश अर्थात् दिव्यं ब्रह्मधाम (६) मूलप्रकृत्यवस्थाविशेषाः प्रधानाऽव्यक्ताऽव्याकृतादयः

(७) मोक्षः (८) परं ब्रह्म इति ।

अक्षरः इति शब्दस्य व्युत्पत्तिर्द्विधा भवति । ‘अशु व्याप्तौ संघाते च’ इत्यस्माद्धातोः ‘अश्नुते व्याप्नोतीति अक्षरम्’ । ‘क्षर संचलने’ इति धातोः ‘न क्षरतीति अक्षरम्’ । क्षरणं नाम स्वस्थितेः चलायमानत्वं, स्खलनं, न्यूनीभवनं, नाशनम्, नश्वरत्वं, स्वरूपपरिवर्तनमित्यादिकम् ।

अवयवार्थपौष्कल्यं यत्र सम्भवति तदेव यौगिकशब्देन स्वरसतः प्रतीयते । अत एव व्याप्नोतीत्यवयवशक्तिः मुख्यवृत्त्या त्रिविधपरिच्छेदरहिततयाऽसंकुचित- व्यापनशीलं परब्रह्मपरुषोत्तमनारायणमेव बोधयति । व्यापकशब्दस्य प्रधानपुरुषाऽक्षरब्रह्माऽक्षरमुक्तेषु प्रयोग उपचारेण । अक्षरादिषु स्वरूपतः स्वभावतश्च त्रिविधपरिच्छेदरहितव्यापकत्वं नाऽस्ति । सर्वत्र व्यापनशीलत्वेऽपि अक्षरब्रह्मणः परब्रह्मणि व्यापकत्वं नैव संभवति ।

न क्षरतीत्यवयवशक्तिरसंकुचिततया सर्वथाऽक्षरणशीले भगवति नारायण एव

ब्रह्माक्षरादिशब्दानां मुख्यार्थविचारः

[[१४४]]

वर्तते, नाऽन्येष्वक्षरादिषु । उक्तञ्च विष्णुसहस्रनामभाष्ये अक्षरस्थैः मुक्तैः निरन्तरमनुभूयमानोऽपि मधूत्सवत् निःसीमगुणोन्मज्जनेन उपर्युपरि भोग्यतया उपचीयते । (वि.स.भा.७७) इति । सदाऽनुभूयमानोऽपि निःसीमगुण- गौरवात् मुक्तैः क्वचिन्न क्षरतीत्यक्षरः परिकीर्तित इति विष्णुसहस्रनामनिर्वचनम् ।

अतः येनाऽक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् (मु.उ.१.२.१३) इति मुण्डकोपनिषदादिषु स्वरूपतो गुणतश्च सर्वथाऽक्षरणशीलत्वं भगवतो नारायणस्यैव प्रतिपाद्यते, न त्वक्षरब्रह्मादीनाम् । यद्यप्यक्षरादीनां नित्यमक्षरणशीलत्वमस्ति तथाऽपि तदक्षरत्वं परमात्माऽधीनं वर्तते । कदाचित् तत्र क्षरणस्य सम्भावना चाऽपि वर्तते ।

कथयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे अस्मत्सम्प्रदाये सद्गुरुमुक्तानन्दस्वामिसद्गुरुगोपालानन्दस्वामिनौ महान्तौ सन्तौ स्तः , परन्तु यद्यतिशयमानसन्मानयोः योगः स्यात् , विपुलधनसम्पत्तेः पुष्कलसुवर्ण- मुद्रिकाणां योगः स्यात् , रूपवतीनां स्त्रीणाञ्च योगः स्यात् , तदा एतयोः महत्त्यागपरायणसत्वेऽपि तादृश्युत्तमा स्थितिः कदाचिदचला भवेन्न वा भवेत् ? रमणीयेषु च पञ्चविषयेषु भगवान् नारायण एव निर्विकारः तिष्ठति । तथा चोक्तं भागवते ‘ऋषिं नारायणमृते योषिन्मयेह मायया’

(भा.पु.३.३१.३७) इति । (दुर्ग.अं.वच.३३)

सद्गुरुगोपालानन्दस्वामिप्रभृतीनां सतां महिमा श्री-स्वामि-नारायणसम्प्रदाये सुप्रसिद्धोऽस्ति । ते तु भगवता श्री-स्वामि-नारायणेन साकमेव अक्षरधामतो भुव्यवतीर्णाः । तेषां नित्यनिर्दोषत्वमविवादास्पदमचलञ्च तथाऽपि विषमदेश- कालादिना तेषां हृदयेऽपि विकाराणामाविर्भावेन चाञ्चल्यस्य संभावना वर्तते, किन्तु तादृशी संभावना भगवति नारायणे कथञ्चिदपि नाऽस्ति । अतः सर्वथाऽक्षरणशीलत्वं भगवतः पुरुषोत्तमनारायणस्यैव इत्यस्य वचनामृतस्य हार्दं ज्ञेयम् ।

एवमेव श्रीमद्रामानुजाचार्यसद्गुरुमुक्तानन्दस्वामिसद्गुरुगोपालानन्दस्वामि- प्रभृतिभिः सर्वैः पूर्वाचार्यैः श्रुतिस्मृतिब्रह्मसूत्रेषु वचनामृतग्रन्थे च सृष्टेः असाधारणकारणप्रकरणे, ध्यानोपासनाप्रकरणे, कर्मफलप्रदातृत्वप्रकरणे च पठिता आत्मेश्वराऽक्षरब्रह्मेत्यादयः शब्दा मुख्यवृत्त्या परस्य ब्रह्मण एव वाचका नाऽक्षरादीनामिति सिद्धम् ।

[[१४५]]