०३ ब्रह्माक्षरादिशब्दानां मुख्यार्थविचारः

श्रुतिस्मृतिवचनामृतग्रन्थेषु अक्षरं ब्रह्म इत्यादिशब्दानां नानार्थेषु प्रयोगो दृश्यते ।

यत्र ब्रह्म च क्षत्रं च उभे भवत ओदनः । (कठ.उ.१.२.२५) इत्यत्र ब्रह्मशब्दो ब्राह्मणवर्णपरतया प्रयुक्तः ।

कदाचित् प्रणवस्वरूपे ओङ्कारेऽपि ब्रह्म शब्दप्रयोगो दृश्यते ।

तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः । (भा.पु.१.१.१) अत्र भगवता व्यासेन ब्रह्मशब्दो वेदार्थं प्रयुक्तः ।

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । (भ.गी.१४.३) अत्र भगवता श्रीकृष्णेन ब्रह्मशब्दो मायामयीप्रकृत्यर्थे प्रयुक्तः । भगवान् पुरुषोत्तमनारायणो भूरितेजोमयः सदादिव्यसाकारमूर्तिश्चाऽस्ति । स्वाऽन्तर्यामितया शक्त्या सर्वतो यत्परिपूर्णं सच्चिदानन्दरूपं ब्रह्म , तत्तु मूर्तिमतो भगवतः पुरुषोत्तमस्य तेजो ज्ञेयम् इति । (दुर्ग.प्र.वच.४५)

यथा जलं निराकारम् , जलदेवता वरुणो वरुणलोके साकारः , यथाऽग्निज्वाला निराकाराः , अग्निदेवता अग्निलोके साकारः , यथा सूर्यातपो निराकारः सूर्यमण्डलाऽन्तर्वर्ती सूर्यनारायणश्च साकाररूपोऽस्ति , तथैव दिव्यसाकारतेजोमयमूर्तेः पुरुषोत्तमस्य सर्वत्र परिपूर्णं यत्सच्चिदानन्दं तेजोमयं ब्रह्म तन्निराकारमस्ति , भगवान् पुरुषोत्तमनारायणस्तु साकारोऽस्ति (दुर्ग.प्र.वच.४५) इति । अत्र भगवता श्री-स्वामि-नारायणेन ब्रह्मशब्दो भगवन्मूर्तेः तेजस अर्थे प्रायोजि ।

सर्वकारणकारणोऽक्षरात्परः पुरुषोत्तमो वासुदेवो भगवान् महापुरुषात्मना महामायायां वीर्यमाधत्ते । स एव पुरुषोऽक्षरात्मा , मुक्तः , ब्रह्म चेति संकीर्त्यते (दुर्ग.म.वच.३१) इति । महत्तत्त्वस्य कारणं तु प्रधानपुरुषौ स्तः । एवञ्च तयोः प्रधानपुरुषयोः कारणं मूलप्रकृतिर्ब्रह्मचाऽस्ति (दुर्ग.प्र.वच.६३) इति । अत्र भगवता श्री-स्वामि-नारायणेन ब्रह्मशब्दो महापुरुषाय प्रयुक्तः ।

[[१३९]]

तत्तदवस्थासु जीवस्य कर्माऽनुगुणफलप्रदायकं यत्तत्त्वम् , तत्तुरीयपदम् , अन्तर्यामी , द्रष्टा , ब्रह्म , परब्रह्म चेत्यादिभिः शब्दैः प्रोच्यते (सारंग.वच.६) इति । अत्र भगवता श्री-स्वामि-नारायणेन ब्रह्मशब्दस्य प्रयोगः परब्रह्मणे कृतोऽस्ति । अतः शास्त्रेषु यत्र क्वचिद् ब्रह्मशब्दे दृग्विषये जाते सति तत्तत्सन्दर्भाऽनुगुणमर्थघटनमनुसन्धेयम् ।

ब्रह्मशब्दस्य मुख्यार्थविचारः प्रस्तूयते । बृंहति वर्धते इति विग्रहे बंृहि वृद्धौ इति धातोः बृहेर्नोऽच्च इति उणादिसूत्रेण मनिन्प्रत्यये, धातोश्च यो नकारः तस्य स्थाने अत् इत्यादेशे कृते निष्पन्नोऽयं ब्रह्मशब्दः । स्वेतरसमस्तवस्तुवृद्धिकारके तत्त्वे ब्रह्मशब्दः साक्षात्सङ्गच्छतेतमाम् ।

भगवता वेदव्यासेनापि प्रोक्तं बृहत्वात् बृंहणत्वाच्च तद् ब्रह्मेत्यभिधीयते (वि.पु.१.१२.५५) इति । भगवती श्रुतिरपि निर्व्यनक्ति ब्रह्मशब्दं बृहति बृंहयति च सर्वं तस्माद् ब्रह्म उच्यते परं ब्रह्म (शाण्ड.उ.३) इति । तस्माद्धेतोर्ब्रह्म स्वेतरसर्ववस्त्वपेक्षया बृहत् महद्वर्तते । यास्काचार्यो ब्रह्मशब्दार्थमाह ब्रह्म परिवृढं सर्वतः (निरु.१.३.८) इति ।

ब्रह्मशब्दस्य प्रवृत्तिनिमित्तत्वं बृहत्त्वम् । बृहत्त्वं नाम स्वरूपेण स्वभावेन देशतः कालतः स्वरूपतः सर्वथा परिच्छिन्नत्वं निरवधिकातिशयोत्कर्षत्वम् ।

एवं ब्रह्मशब्दो निरवधिकातिशयगुणयोगमाह तत्तु परस्मिन् ब्रह्मण्येव सम्भवति नान्यत्राऽक्षरब्रह्मादिषु । अत एव ब्रह्मशब्दो मुख्यवृत्त्या परब्रह्मपुरुषोत्तम- नारायणस्यैव वाचको नान्यस्य कस्याऽपि । अन्यत्र तु ब्रह्मगुणलेशयोगादौपचारिको भगवच्छब्दवत् । यथा भगवान् वसिष्ठः, भगवान् विश्वामित्रश्चेति ।

कथयति भगवान् पराशरो विष्णुपुराणे

एवमेष महाञ्छब्दो मैत्रेय भगवानिति ॥

परमब्रह्मभूतस्य वासुदेवस्य नाऽन्यगः ॥

तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ॥

शब्दोऽयं नोपचारेण त्वन्यत्र ह्युपचारतः ॥

उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥

भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ (वि.पु.६.५.७६ तः ७९)

ब्रह्माक्षरादिशब्दानां मुख्यार्थविचारः

[[१४०]]

निगदति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे च

भगवतो नारायणस्याऽनुप्रवेशेन ब्रह्मा , शिवः , नारदः , सनकादयोऽपि भगवानिति कथ्यन्ते , तस्यैवाऽनुप्रवेशेन मुक्तानन्दस्वामिसदृशाः सन्तोऽपि भगवानिति कथ्यन्ते ।

तस्य नारायणस्याऽनुप्रवेशं विना अक्षरमपि भगवानिति कथयितुं न शक्यते , तर्हि अन्यस्य का वार्ता ?

भगवतो नारायणसदृशस्तु एको नारायण एवाऽस्ति , नाऽन्यः कोऽपि तत्सदृशो भवितुमर्हति । तथा च श्रुतिः ‘एकमेवाऽद्वितीयं ब्रह्म’ (छा.उ.६.२.१) अयमेव सर्वशास्त्राणां सिद्धान्तोऽस्ति इति । (लौह.वच.१३)

प्रोक्तञ्च सकलशास्त्रपारदृश्वना सद्गुरुवर्येण श्रीशतानन्दस्वामिना श्रीहरिवाक्यसुधासिन्धौ

एवं भूतेन हरिणा साम्यं जानन्ति येऽधियः ॥ अक्षरस्य च मुक्तानां ते त्वज्ञाः पापरूपिणः ॥ ईश्वरत्वं महत्त्वञ्च यत्राऽन्येषामुदीरितम् ॥ तत्राऽस्यैवाऽन्वयेनैव तत् प्रोक्तमिति दृश्यताम् ॥ कार्यार्थं यत्र यत्राऽस्याऽनुप्रवेशोऽस्ति च प्रभोः ॥ स स प्रोक्तोऽस्ति भगवानिति नैव स्वतः क्वचित् ॥ तं विना त्वक्षरस्याऽपि भगवत्त्वं न विद्यते ॥ कुतस्तरां विरिञ्चादेः सनकादेः कुतस्तमाम् ॥

(श्रीहरि.त.१२१.३६ तः ३९)

अनेन भगवच्छब्दस्य यौगिकार्थपौष्कल्यवति भगवति परब्रह्मपुरुषोत्तमनारायण एव मुख्यत्वमुक्तम् । औपचारिकस्तु प्रयोगः ससङ्कोच इष्टः , न तु सार्वत्रिक इति तमिमं न्यायमभिप्रेत्याऽन्यत्राऽमुख्यत्वम् ।

श्रीमद्भागवतेऽपि उक्तं भगवता वेदव्यासेन

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् ॥

ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ इति । (भा.पु.१.२.११) सद्गुरुवर्येण श्रीशतानन्दस्वामिनाऽपि श्रीमत्सत्सङ्गिजीवनग्रन्थे प्रोक्तं यत्

ब्रह्मशब्दो मुख्यतया कृष्ण एव प्रवर्तते ॥ भगवच्छब्दवद्विद्वन्निति जानीहि निश्चितम् ॥

[[१४१]]

स्वरूपेण गुणैश्चाऽपि निरवध्यतिशायिता ॥ तस्यैवाऽस्तीति ब्रह्माख्यामन्वर्थां श्रुतयो विदुः ॥ ततोऽन्यत्र तु विज्ञेया तद्ध्यानोपासनेन वै ॥ तत्साधर्म्यात्तदात्मत्वाद्ब्रह्मसंज्ञाऽनुरागतः ॥ स्वरूपं च स्वभावश्च विभूतिश्च तथा गुणाः ॥ नित्याः सन्ति हरौ ह्येतेऽन्यत्र त्वागन्तुका मताः ॥

(स.जी.४.२१.९ तः १२)

न ब्रह्मशब्दोऽयमपेतार्थः संज्ञामात्रम्, तथा सत्यन्येन येन केनाऽपि डित्थादिधर्मिणा शब्देनाऽपि तस्य निर्देशः स्यान्नाम । यथा भगवच्छब्दः षाड्गुण्ययोगेन केनचित् स्वार्थगुणयोगेन प्रवर्तते तथाऽयं ब्रह्मशब्दोऽपि बृहत्त्वगुणयोगेन मुख्यवृत्त्या परब्रह्मपुरुषोत्तमनारायणे वर्तते ।

श्रीमद्रामानुजाचार्यवर्येण अथातो ब्रह्मजिज्ञासा इति प्रथमे सूत्रे ब्रह्मपदं विवेचयता निगदितं यत् ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषः अनवधिकातिशयाऽसंख्येयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः । बृहत्त्वञ्च स्वरूपेण गुणैश्च यत्राऽनवधिकातिशयं सोऽस्य मुख्यार्थः । स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तिमान् । तस्मादन्यत्र तद्गुणलेशयोगात् औपचारिकः, अनेकार्थकल्पनाऽयोगात् भगवच्छब्दवदिति ।

अथातो ब्रह्मजिज्ञासा , जन्माद्यस्य यतः इत्यादिषु ब्रह्मसूत्रेषु ब्रह्मपदं विवेचयता ब्रह्मसूत्रभाष्यरत्नकारेण परमाप्तेन सद्गुरुवर्येणाऽपि श्रीमुक्तानन्दस्वामिना भाषितं ब्रह्मेति परमात्मेति भगवानिति शब्द्यते इति । सद्गुरुगोपालानन्दस्वामिना अपि स्वरचितभाष्येषु अयमेव पन्था अनुसृतः ।

पदवाक्यप्रमाणपारावारपारीणेन सद्गुरुवर्येण श्रीनित्यानन्दस्वामिपादेन स्वकीये शाण्डिल्यसूत्रभाष्ये प्रथमसूत्रव्याख्याऽवसरे प्रोक्तं यत् तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाऽक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ (मु.उ.१.२.१३) इति ब्रह्मणो विद्या ब्रह्मविद्या भगवदुपासना इत्यर्थः । ब्रह्मशब्देन स्वभावतो निरस्ताऽखिलदोषः अनवधिकातिशयाऽसंख्येयकल्याणगुणगणः श्रीपुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः । बृहत्त्वञ्च स्वरूपेण गुणैश्च यत्राऽनवधिकातिशयं

ब्रह्माक्षरादिशब्दानां मुख्यार्थविचारः

[[१४२]]

स चाऽस्य मुख्योऽर्थः । तद्वत्तत्त्वञ्च सर्वेश्वर एव । अतो ब्रह्मशब्दो भगवत्येव मुख्यवृत्तिमान् ।

तत्कथितञ्च वासुदेवमाहात्म्यग्रन्थे

यं केचिदाहुः परमात्मसंज्ञां केचित्परं ब्रह्म परात्परं च । ब्रह्मेति केचिद्भगवन्तमेके विष्णुं च भक्ताः परमेश्वरं च ॥

(वासु.मा.१७.१२)

अतो ब्रह्म, परं ब्रह्म, परमात्मा, परमेश्वरः, भगवान्, विष्णुः, वासुदेवः, नारायणश्चेत्यादयः शब्दाः समानार्थकाः सन्ति ।

कथयति सद्गुरुवर्यः श्रीशतानन्दस्वामी श्रीहरिवाक्यसुधासिन्धौ

वेदशास्त्रपुराणेषु ब्रह्मैकं बहुधोदितम् ॥ ज्ञानमानन्दरूपं च सूक्ष्मं तत्त्वं निरञ्जनम् ॥ वासुदेवः परं ब्रह्म क्षेत्रज्ञः पुरुषोत्तमः ॥ परमात्मा निर्गुणश्च विष्णुर्नारायणः शिवः ॥ नामरूपविभेदेन बहुधैवं यदीरितम् ॥ स ब्रह्म कृष्ण एवेति स्पष्टमत्र निरूपितम् ॥ स्तुतिभागेषु सर्वत्र परोक्षब्रह्मवर्णनम् ॥ कृत्वा तत्कृष्ण एवेति प्रत्यक्ष उपसंहृतम् ॥

(श्रीहरि.त.१७२.२२ तः २५)

अत्र प्रत्यक्षश्रीकृष्णो नाम भगवान् श्री-स्वामि-नारायण इति बोद्धव्यम् ।

निरवधिकातिशयबृहत्त्वगुणयोगात् ब्रह्मशब्द अवधिनिर्देशात्मकं बृहत्तरं बृहत्तममिति तरप्तमप्प्रयोगमपि न सहते । तस्मात् नारायणः परं ब्रह्म तत्त्वं नारायणः परः (महा.ना.उ.९.४) इत्यत्र परम् इति विशेषणं त्वौपचारिकव्यावृत्त्यर्थं ज्ञेयम् ।

एवमेव ‘आप्नोति व्याप्नोतीति आत्मा’ इति व्युत्पत्त्या सिद्ध आत्मशब्दोऽपि देशाद्यपच्छिन्नतया व्यापके परब्रह्मपुरुषोत्तमनारायणे एव मुख्यवृत्तिमान् तथापि औपचारिकाणां जीवेश्वराक्षरादीनां व्यावृत्त्यर्थं परमात्मेति शब्दप्रयोगः ।

ईश्वरशब्दोऽपि निरवधिकातिशयैश्वर्यवति भगवति नारायण एव मुख्यवृत्तिमान् तथापि औपचारिकाणां ब्रह्माण्डनायकानामीश्वराणां व्यावृत्त्यर्थं परमेश्वर इति शब्दप्रयोगः ।

एवं सिद्धोऽयमर्थो यत् स्वरूपेण गुणैश्चाऽनवधिकातिशयस्त्रिविध-

[[१४३]]

परिच्छेदरहितः परं बह्म वेदान्ततात्पर्यगोचरः परब्रह्मपुरुषोत्तमनारायणो भगवान् श्री-स्वामि-नारायण एव ।