०१ श्रीगोपालानन्दस्वामिकृतं पञ्चाऽनादिभेदनिरूपणम्

जीवेशब्रह्ममायास्तदवनकरो यः परब्रह्मसंज्ञः इत्थं योऽनादिभेदः सनिगमगदितः पंचधा वेद्य एव ॥ सत्यस्तत्रापि जीवावरणगुणयुतानाद्यविद्या जनानां नश्येद्भक्त्येति वेदस्तुतिकथकशुकः प्राह कृष्णस्य योगी ॥

ननु एकमेवाद्वितीयं ब्रह्म , सर्वं खल्विदं ब्रह्म , तदैक्षत बहुस्यां प्रजायेय इत्यादिकासु कासुचिच्छ्रुतिषु तु पूर्वमेकमद्वितीयादिशब्दवाच्यं यद्ब्रह्म, तदेव चेतनाऽचेतनात्मकबहुरूपेण जातमस्तीति आधुनिकविद्वद्भिः सिद्धान्तितम्, भवद्भिस्त्वत्र जीवेश्वरादिपञ्चविधो भेदोऽनादित्वमालम्ब्य पारमार्थिकः कथमुक्तः ? इति चेत् अत्रोच्यते एकमेवाऽद्वितीयमित्यादिब्रह्मस्वरूपनिरूपकश्रुतीनामेकादिपदैः सजातीयादिभेदत्रयरहितं ब्रह्मेत्येवं रूपेऽर्थे क्रियमाणे सच्छब्देनाऽविनाशित्वम्, चिच्छब्देन च प्रकाशरूपत्वम्, आनन्दशब्देन च सुखरूपत्वमित्येवं स्वगतभेदप्राप्तिः दुर्वारैव । अतो निर्भेदं ब्रह्मेति श्रुत्यर्थविधानमनुभवरहिताऽधुनातनज्ञानिकृतम् इत्यवधेयम् ।

न च मिथ्याजडदुःखरूपमायासम्बन्धेन सच्चिदानन्देति त्रीणि विशेषणानि सन्तीति वाच्यम् । तथा सति एतद्विशेषणत्रयरूपब्रह्मलक्षणात्पृथग्भूतं ब्रह्म किं वस्त्वस्ति तत् कथयत । यद्युच्येत सच्चिदानन्देत्येतद्धर्मत्रयरूपमेव ब्रह्मेति । तदाऽपि भवन्मते धर्मत्रिकत्वेन ब्रह्मत्रिकत्वं स्यात् । अथ च ब्रह्मणो धर्मरूपत्वेन कथने धर्माणां निराधारतयाऽवस्थानाऽभावात् धर्मत्रयाऽऽधारभूतब्रह्माऽस्तीति ब्रूत । तथा सति धर्मधर्मिणोः नित्यसम्बन्धात्त्वदुक्त्यैव ब्रह्मणो धर्मित्वप्राप्तावागतोऽसि मदीयं पन्थानम् ।

२. अथ च यदि कथञ्चिद्ब्रह्मणो निर्धर्मतायां प्रतिपादितायां सत्यामपि

[[१२८]]

ऐक्षत , तदैक्षत , तत्तेजोऽसृजत , सिसृक्षयैक्षत यदा सा चुक्षौभ तदैवहि , तस्याऽपि द्रष्टुरीशस्य , विहर उदीक्षया , ईक्षतेर्नाऽशब्दम् इत्यादिश्रुतिस्मृति- न्यायेषु ब्रह्मण ईक्षणादिधर्मविधानादीक्षणादेश्च नेत्रादिसाध्यत्वान्नेत्रादेश्च मूर्त्तिस्थत्वान्मूर्त्तिमदेव ब्रह्मेति सिद्धम् ।

३. अथ यदि वदिष्यथ ‘एकमेव ब्रह्म बहुजीवरूपेण जातम्’ इति । तदाऽपि सदा ज्ञानवतः स्वतन्त्रस्य निर्मायस्याऽक्षराच्युतादिशब्दवाच्यस्य निर्बन्धस्य ब्रह्मणोप्यज्ञानादिविपरीतधर्मप्रादुर्भावादिनाऽज्ञानित्वम्, परतन्त्रत्वम्, समायत्वम्, क्षरत्वम्, सबन्धत्वं जातमेव । एवं च सति यद्भजनादिनाऽऽत्मबन्धनस्य या निवृत्तिचिकीर्षा सा तु दुरापास्तैव । सबन्धब्रह्मसेवया सबन्धजनबन्धस्य अनाश्यत्वात् । (सम्बन्धब्रह्मसेवया अर्थात् बन्धयुक्तस्य वा बद्धस्य ब्रह्मणः सेवया)

यदि ब्रविष्यथ ‘मायासम्बन्धेनैतस्मिन्नेते दोषाः सन्ति न स्वतः’ इति चेत्तत्रोच्यते ब्रह्मणोऽयं मायासम्बन्धः स्वेच्छया मायेच्छया वोभयनियन्तृपरेच्छया वा ? नाऽद्योऽपि संभवति, नह्यनुन्मत्तः स्वेच्छया स्वैश्वर्यविघातकं स्वदुःखजनकं च कर्म करोति । तथा च यद्गत्वा न निवर्तन्ते तद्धाम परमं मम इति भगवद्वाक्याद्यद्धामगतानामपि अपुनरावृत्तिरस्तीह तु तद्धामस्वामिनोऽप्यनादि- जीवबन्धनकर्त्र्याः जडदुःखमिथ्यादिधर्मवत्या मायायाः सम्बन्धेन स्थाल्यधोगताऽग्निसम्बन्धेन तत्स्थजलाऽन्तर्गततन्दुलविक्लृप्तिभाववत्, धर्मतप्तदेहस्य देहिनो व्याकुलत्वादिवच्च जडादयस्तद्धर्माः स्वदुःखकर्तारो जीवानामिवाऽऽत्मसंसृतिदाश्च भवेयुः । एवं च सति चतुःसाधनैः प्रत्यक्षीकर्तव्यस्य तस्य परमेश्वरस्याऽनीश्वरत्वप्राप्त्यादिनाऽन्यबन्धनाऽनिराकर्तृत्वात् तत्साक्षात्काराय जनानां साधनाविधानप्राप्तिश्च ।

नाऽपि द्वितीयः, मायेच्छया मायाया ब्रह्मसम्बन्धोक्तौ भवन्मते जडादिगुणवत्या मायाया इच्छाद्यनुपपत्तेः तत्कृतोऽपि स्वेच्छया ब्रह्मसम्बन्धो न संगच्छते । कथञ्चित्तद्वत्तासिद्धौ सत्यामपि पूर्वोक्ताः तत्स्वतंत्रतानाशत्व- मायाधीनत्वभजनाविधेयत्वादयो ब्रह्मणि दोषा दुर्वाराः स्युः ।

यदि तृतीयपक्षे ब्रह्ममायोभयनियन्तुः परस्येच्छयैवाऽयं ब्रह्मणो मायासम्बन्ध इति चेत् अजां ध्रुवाम् , अनादी उभावपि , अजामेकाम् , अनाद्यविद्योपहता आत्मसंविदः , बन्धोऽस्याऽविद्ययाऽनादिः , अनाद्यविद्यायुक्तस्य , अजो नित्यः शाश्वतोऽयम् , अक्षरात्परतः परः , अनादिरात्मापुरुषः , अक्षरादपि

[[१२९]]

चोत्तमः , त्वत्तः पुमान्समधिगम्य ययाऽस्य वीर्यम् इत्यादिवाक्यैः अजनित्यजीवेश्वराणामनादिबन्धनाऽऽवरणकारिणी त्रिगुणमयी माया तदन्यत्तन्नियंत्र्यक्षरब्रह्म च तस्य मायासम्मुखीभावविधायकः सर्वनियन्ता सर्वसृष्टा सर्वकारणं पुरुषोत्तमश्चैषामनादिविद्यमानत्वात् त्वन्मते ब्रह्मव्यतिरिक्ताऽन्य- पदार्थाऽसत्वाच्च स्वमतविघातविधानपूर्वं पञ्चभेदसत्यतारूपं मत्पन्थानं पुनरागताः स्थ । एवं च सति चैतन्यजात्या जीवेश्वरब्रह्मपरब्रह्मणामच्छैद्यादिधर्मसाम्यात् सजातीयत्वम् । अतः सजातीयभेदोऽप्यागतः ।

४. अथ यदि वदिष्यध्वे नाऽहं सर्वसत्यतां ब्रवीमि, किन्तु जलसंभृतमृत्पात्रेषु प्रतिबिम्बितसूर्यप्रतिबिम्बवत् मायाप्रतिबिम्बितब्रह्मैव बहुजीवेश्वररूपेणजातमवभासते इति कुतः सर्वेषां सत्यता स्यात् ? इति चेत् गगनैकदेशस्थितस्याऽर्कस्य स्वव्यतिरिक्ताऽन्यदेशवर्तिमृत्पात्राणां तद्गतजलस्य चाऽपेक्ष्यत्वात्त्वन्मते च ब्रह्माऽतिरिक्तवस्तुमात्राऽभावात्प्रतिबिम्बपतनमेव न संगच्छते । दुराग्रहेणैतत्सत्यता- विधानेऽपि विजातीयभेदप्राप्तिर्विजातीयपात्रादिस्थानीयप्रकृत्यभावे प्रतिबिम्बाऽसंगतिश्च ब्रह्मणो व्यापकत्वहानिः अन्धकाररूपमायायां प्रतिबिम्बपतनाऽसंगतिश्च । तस्मान्न शक्यः प्रतिबिम्बवादोऽपि वक्तुम् ।

५. अथ यदि गदिष्यथ घटमठोपाधिना यथैक आकाशस्तद्रूपोजातस्तथा कारणाऽव्याकृतदेहयोगोपाधिनैकं ब्रह्मैव जीवेश्वरादिरूपं जातमिति तदानीम् अद्वितीयत्वहानिः कारणाऽव्याकृतसत्तया विजातीयभेदाऽऽपत्तिश्च दुर्वारा स्यात् । एवं च सत्याकाशपृथिवीतत्कृतमठादितद्रूपोपाध्युत्पादककुलालादिचतुर्भेदसंभवः । तत्राऽऽकाशादित्रिकञ्च शून्यं जडात्मकं चाऽस्ति, घटादिकर्तुः कुलालस्य तु साकारसचेतनत्वादिकं च यदा दृष्टान्ते विद्यते, तदा दार्ष्टान्तिके आकाश- स्थानाऽऽपन्नमेकाऽद्वितीयाकर्तुः चैतन्यात्मकं ब्रह्म, माया च पृथ्वीस्थानाऽऽपन्ना, कारणाऽऽदिशरीराणि घटादिस्थानीयानि सम्मतानि, परंतु घटमठोपाधिस्थानीय- कारणादिशरीरत्रिकनिर्मातृकुलालस्थानीयश्चतुर्थः कः ? इति भण्यताम्, अभणनेऽयं दृष्टान्त एव मिथ्याभूतः । न च घटमठयोः कुलाल इव कारणाऽव्याकृतशरीरयोः कर्तृकाऽनादिजीवकर्मयुता मायैवाऽस्तीति वाच्यम्, यतो हि जडत्वेन मायादेः अकर्तृत्वात् । न हि कुत्राऽपि जडं वस्तु चेतनकर्तृ दृष्टम् ।

६. ननु यथा रज्जुशुक्तिस्थाण्वादिषु सर्परूप्यचौरादिभ्रमवन्मिथ्यैव ब्रह्मणि जीवेश्वरादिरूपः सर्वेषां भ्रमो जातोऽस्ति तस्माद्विश्वनिर्मातुः साकारस्याऽपेक्ष्यैव

परिशिष्टः

[[१३०]]

नाऽस्ति किमनेनाऽऽग्रहेणेति चेन्मयोच्यते स्थानाऽन्तरे सत्यत्वेन दृष्टानां सर्परूप्यचौराणां रज्ज्वादिषु भ्रमस्तु नराणां ध्वान्ततेजाऽऽदिदोषेणाऽभिजायते । भवत्सिद्धान्ते तु जगतः कल्पितत्वेन मिथ्यात्वान्न दृष्टान्तसिद्धान्तसंगतिः । यदि सा संगतिः स्यात्तर्हि मायादिरूपं जगत्स्थानाऽन्तरे सत्यं भवेत् । त्वन्मते तु ब्रह्माऽतिरिक्तस्याऽसत्त्वाज्जीवानामपि ब्रह्माऽनतिरिक्तत्वाच्च सदा ज्ञानवतो ब्रह्मणो भ्रमाऽसम्भवाद्विश्वादिरूपो भ्रमोऽपि ब्रह्मणि न शक्यते वक्तुम् ।

ननु स्थलान्तरे सत्यसर्पदर्शनेन रज्जौ तद्भ्रान्तिरस्ति तथैवाऽन्यत्र विद्यमानवस्त्वभावेऽपि तथा दर्शनात् यथा चन्द्रस्य द्वित्वाऽभावेऽपि तत् द्रष्टुर्द्विचन्द्रज्ञानं कस्यचिज्जायते तत्र कार्योत्पत्तौ कारणसत्यतायाः किं प्रयोजनमिति चेदुच्यते चन्द्राऽन्यजनानां चन्द्रद्वित्वदर्शनं तु द्रष्टुर्नेत्रस्थदोषेणैवाऽस्ति, न तु स्थलाऽन्तरे सत्यत्वेन दृष्टसर्पस्य रज्जौ भ्रमवदस्ति । भवन्मते तु ब्रह्मभिन्नवस्तु- मात्राऽभावादविद्याकृतं जगद्रूपं द्वित्त्वं मिथ्या स्यात् । अतो बन्धमोक्षयोर्धर्माऽधर्मयोः तत्प्रतिपादकशास्त्रस्य चाऽसत्यत्वाद्दुःसिद्धान्ताऽऽपत्तिः ।

७. अथ च कनककुण्डलद्रष्टान्तेनांऽशांशिवादोऽपि न शक्यो भवता वक्तुम् । यदि ब्रह्मणः स्वेच्छयैव जीवेश्वरादिरूपेण जातत्वात् ब्रह्मशकला जीवा इति दुराग्रहो भवतां संपाद्यः स्यात्तदा तत्पक्षेऽपि विकारिणश्च च्छेद्यस्य सुवर्णस्य कटकाद्याकार- विभागान् भवन्तः कथयन्तु, परंतु निर्विकारस्याऽच्छेद्यादिधर्मवतो ब्रह्मणः खण्डाऽनर्हत्वात् निर्विकल्पस्याऽकर्तुस्तस्य विकारप्राप्त्या जीवरूपविभागकल्पना सुतरां न घटते । तथा च कनकात् कुण्डलकटकयो अपृथक्तवज्जीवब्रह्मणोः एकीभावोऽपि न वक्तव्यः । एकीभावे च सति जीवेष्वजध्रुवनित्यशब्दकृत- विशेषणाऽसंगतिः इत्यपरोऽपि दोषः संगतः ।

अथ च मुहुर्मुहुर्ब्रह्म स्वेच्छया जीवरूपजातमित्युक्तौ युष्माक लज्जाऽपि कथं नायाति ! कुतः ? धीमन्तोऽधीमन्तश्च यथाऽऽत्मना सुखैश्वर्यादिनाशप्रसंगः स्यात्तादृशं कर्म न कुर्वन्त्येव, तर्हि सर्वज्ञं सत्यसंकल्पं सर्वनियन्तृ ब्रह्म स्वेच्छयाऽपि जीवभावं प्राप्य पशुमनुष्यादिदेहेषु मलसंभृतेषु तिष्ठेत्तथा समस्तनरकान् चतुरशीतिलक्षयोनिषु जन्ममरणादिदुःखानि च कथमनुभवेत् ?

तथा च ब्रह्मणो यदीत्थं जीवभावे न दुःखभाक्तं तदाऽनादिबन्धमुक्तये बदरीकाश्रमादिस्थानस्थानामृषीणां वेदाध्ययनसाधनसंपत्तिविधानादिनाऽपि किं प्रयोजनम् ? तस्मादनादी अजन्मानौ नित्यौ चैतन्यधर्मेण ब्रह्मसजाती ब्रह्मभिन्नावेव

[[१३१]]

जीवेश्वरौ बोद्धव्यौ । एतद्ब्रह्म त्वनवधिकातिशयोत्कृष्टगुणयोगात्परमेश्वरपरब्रह्माख्यं ताभ्यां भिन्नमेव ।

८. अथ च यदि वक्ष्यथ यावदज्ञानदशा तावज्जीवेश्वरमायागुरुशिष्याद्यनेक- भेदाऽवच्छिन्नं जगत्सत्यं भासते, तद्दशानिवृत्तौ चिन्मात्रमेकं ब्रह्मैव सत्यमन्यत्सर्वं मिथ्यैवेति चेत्तत्रोच्यते उपदेष्टृज्ञानिगुरूणां प्राचीनानामाधुनिकानां चेदं ज्ञानं जातमस्ति न वा ? जातमस्तीति चेत्, ब्रह्मरूपात् स्वतोऽन्याभावज्ञाच्छिष्योपदेशाऽसंगतिः । शिष्यदर्शनपूर्वकोपदेष्टृ-कृतोपदेशविधानात् न तस्य ज्ञानं जातमित्युक्तावपि अज्ञानिकृतोपदेशेन अज्ञानिगताऽज्ञाननाशाऽभावादज्ञगुरुकृतोपदेशेनाऽज्ञशिष्यस्य का वाऽर्थसिद्धिः ? षंढयोर्योगेन प्रजोत्पत्त्यभाववत्समानयोस्तयोर्योगेन ज्ञानोत्पत्तेः असंभवः ।

ननु गुरोर्ज्ञानित्वेऽपि बाधिताऽनुवृत्त्या शिष्यस्य दृश्यत्वात् तत्कृतमुपदेशविधानं युक्तमेवेति चेदुच्यते - तर्हि गुरोःसम्यग्ज्ञानप्रवृत्तिवेलायां बाधिताऽनुवृत्तिस्तिष्ठति न वा ? तिष्ठतीति चेत् ज्ञानेन तु तदज्ञानं येषां नाशितम् इत्यादिप्रमाणविरोधः अनुभवविरोधश्च रज्जुसाक्षात्कारदशायां सर्पभूतभ्रमाऽनुपलम्भात् । न तिष्ठतीति चेत् उपदेशेन सम्यग्ज्ञानप्रवृत्तौ बाधिताऽनुवृत्तिसंभावनाया अविद्यमानत्वान्न द्वैतदर्शनपूर्वकमुपदेशविधानं युक्तं स्यात् । किञ्च दोषसत्यतामूलकैः रज्जुसर्पादिदृष्टान्तैः दुःसाध्याऽपीयं बाधितानुवृत्तिः कथञ्चिदुच्येत, तर्हि पूर्वोक्तो दोषः कथं न परामर्शनीयः स्यात् ? तस्माद्बहुबाधमेतादृशं ब्रह्मनिरूपणं न महद्विहितमित्यवधेयम् । यदि विदध्युस्तर्हि वेदार्थपरमार्थघ्नास्ते वेदान्ताऽवलम्बेन धनस्त्रीरसाद्यासक्ता नूनमेव वेदितव्याः ।

९. इदानीं पूर्वोक्तरीत्या ब्रह्मनिरूपणे बाधबाहुल्याद्यत्परमार्थं परमार्थज्ञानाऽऽचार्यकृतं तदुच्यते । तत्र परमार्थज्ञानाऽऽचार्यबाहुल्येऽपि तच्छ्रेष्ठशेषाऽवतारश्रीरामानुजाचार्यकृतभगवद्गीताभाष्यव्याससूत्रश्रीभाष्ययोः सम्यक् सच्छास्त्रोदितवाक्यजालयुक्तियुक्तं तदस्ति । तत्राऽपि प्रोक्ताऽऽचार्यज्ञानान्तः प्रेरकश्रीपरब्रह्मनराकृतिप्रत्यक्षपुरुषोत्तमश्रीसहजानन्दस्वामिचरणैः उद्धवाध्वसम्पोषकैः कारितसत्संगिजीवनहरिवाक्यसुधासिन्ध्वोर्ब्रह्मस्वरूपनिरूपणं यदस्ति, तस्यैव सर्वजनहितकारित्वात्तदनुसारेण एतदुच्यते ।

१०. यथा सर्वशास्त्रश्रुतिस्मृतिन्यायेषु भगवतः सर्वोत्कृष्टाऽनवधिकाऽतिशय- सर्वज्ञत्वाद्यनेकगुणगणयुक्तैश्वर्याणां बाहुल्येन महत्त्वात् पूर्वोक्तगुणैर्बंृहति वर्धते

परिशिष्टः

[[१३२]]

तद्ब्रह्मेति ब्रह्मशब्दार्थवाच्यो दिव्यमूर्त्तिः श्रीपुरुषोत्तमः स्वाऽक्षरधामैकदेशस्थः सन्नपि लयावस्थाऽवस्थितक्षेत्रनिकरेषु स्वीयसंकुचिताऽन्तर्यामिशक्त्या प्रलये यथा वर्तते तथा सर्गस्थित्यवस्थितसर्वक्षेत्रज्ञवृन्दानां यथाकर्मफलप्रदानाय विकसिताऽन्तर्यामिशक्त्या बहुत्वं प्राप्याऽन्तर्यामिशब्दवाच्योऽस्ति ।

मायिकावयवरहितदिव्याऽवयवयुक्तः स्वदिव्यमूर्तिः स्फुरिततेजःपुञ्जेन आच्छादिताऽङ्गत्वात् केवलाऽऽत्मज्ञान्यदृश्याऽङ्गोऽपि एकान्तिकीभक्तियुक्त- भगवन्निष्टज्ञानिदृश्यदिव्यमूर्तिमनोहराऽवयववान्भक्तनेत्रचकोरचन्द्रः सदा दिव्याकार एव सोऽस्ति । सत्त्वादिमायिकगुणानात्मन्यभावात् तत्कृताञ्जनाऽभावाच्च निर्गुणनिरञ्जनादिशब्दवाच्यश्च सत्यसंकल्पत्वनिरतिशयज्ञानैश्वर्यतेजोबल- प्रतापाद्यनन्तकल्याणकारिदिव्यनित्यगुणयोगात्सगुणोऽप्यस्ति ततो जीवेश्वरादीनामुत्पत्तेरुक्तौ सत्यां भगवद्गीतादिभणितानि अजन्मत्वसनातनत्व- नित्यत्वध्रुवत्वाऽनादिमायासम्बन्धित्वाऽऽदीनि जीवेश्वरविशेषणानि नियुज्येरन् । अतो जीवेशब्रह्ममायापुरुषोत्तमानां पञ्चानामप्यनादित्वमेवाऽस्ति ।

११. तत्र जीवलक्षणानि जीवात्मानोऽल्पज्ञा अतिसूक्ष्मरूपा अनाद्यविद्या- बन्धनवन्तः प्राकृतगणवन्तः स्वकीयाऽनादिकर्मणा प्राकृतज्ञानसंकोचविकास- प्राप्तिमन्तः कालमायाकर्माऽधीना उत्पत्त्यवस्थायामन्तर्यामिणा स्वकर्माऽनुगुणं प्राकृतदेहं प्रापिता प्रलयकालेऽनादिकारणदेहेन सह प्रकृतौ लीनताभाजः क्षीरधृतकाष्ठाऽन्तःस्थाऽग्नितिलतैल्यवद्देवादिदेहान्व्याप्य तत्तद्देहाऽभिमानिनः तदुचितकर्माणि कुर्वाणाः तदनुगुणसुखदुःखोपभोगरूपसंसारप्रवाहमामोक्षं प्राप्नुवन्तोऽच्छेद्यादिधर्मिणः स्वरूपेणाऽविनाशिनः क्षेत्रज्ञसंज्ञाः सन्ति ।

तत्र श्रुतिस्मृतयः ज्ञाऽज्ञौद्वावजावीशाऽनीशौ , बालाऽग्रशतभागस्य शतधा कल्पितस्य च भागो जीवः स विज्ञेयः , तिलेषु तैलं दधिनीव सर्पिरापः स्रोतः स्वरणीषु चाऽग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ , समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः , अजो ह्येको जुषमाणोऽनुशेते , न जायते म्रियते वा विपश्चित् , आशिखादानखं प्रविष्टः , एष आत्मा हृदये चित्स्वरूपः , नित्यो नित्यानाम् इत्यादिश्रुतयः ।

तथा स्मृतयः एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः , स्थूलादिदेहत्रितयमानखादाशिखं च यः । व्याप्येन्द्रियान्तःकरणैः करोति

[[१३३]]

विविधाः क्रियाः ॥ , अजो नित्यः शाश्वतश्च निरंशश्च प्रकाशकः । सोऽच्छेद्यादि गुणो ज्ञेयो जीवात्मा वर्णिसत्तम ॥ , न जायते म्रियते वा कदाचित् , अन्तवन्त इमे देहा नित्यस्योक्ता शरिरिणः , अजो नित्यः शाश्वतोऽयं पुराणो , अच्छेद्योऽयम् अदाह्योऽयम् , वासांसि जीर्णानि यथा विहाय , यो जागरे बहिरनुक्षण धर्मिणोऽर्थान् भुंक्ते , जागृतत्स्वप्नसुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः॥ , देही नित्यमवध्योऽयं देहे सर्वस्य , अनाद्यविद्योपहतात्मसंविदस्तन्मूलसंसारपरिश्रमाऽऽतुराः , अनादिकालतो जीवो मायया परिवेष्टितः । अनुग्रहाद्धरेरेव मुच्यते नाऽत्र संशयः ॥ इत्यादिकानि ।

१२. अथेश्वरलक्षणानि ईश्वरात्मानो विराडादिशरीरत्रयवन्त उत्पत्तिकाले चतुर्दशलोकयुक्तब्रह्मांडरूपदेहान् व्याप्य स्थिताः, ब्रह्माण्डस्थसर्ववस्तु- ज्ञानवत्त्वात्सर्वज्ञाः प्राकृतप्रलये प्रकृतिप्रविष्टाऽव्याकृतेन देहेन सह प्रकृतिम् अनुशायिनः, स्वरूपेणाऽविनाशिनो, ब्रह्माण्डाख्यक्षेत्रज्ञानयुक्तत्वात्क्षेत्रज्ञसंज्ञाः सन्ति ।

तत्र श्रुतिस्मृतयः पुरुष एवेदं सर्वम् इत्यादिपुरुषसूक्तश्रुतयः, देहत्रये विराडादौ व्याप्योत्पत्तिस्थितिक्षयान् । करोति जगतां यस्तु सर्वज्ञो ज्ञेय ईश्वरः ॥ , आण्डकोश शरीरेऽस्मिन्सप्ताऽऽवरणसंयुते । वैराजपुरुषो योऽसौ भगवान् , एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्चाऽऽवरणै- रष्टभिर्बहिरावृतम् ॥ , क्ष्माम्भोऽनलावियन्मन इन्द्रियार्थभूतादिभिः परिवृतं प्रतिसंजिहीर्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं पराख्यमनुभूय परः स्वयम्भूः ॥ इति श्रीमद्भागवतद्वितीयस्कन्धे तस्य समग्रं निरूपणमस्ति । एवं प्रतिब्रह्माण्डमीश्वरात्मानो ज्ञेयाः । अजत्वाऽविनाशित्वादयस्तद्धर्मा जीवात्मनामिव ज्ञातव्याः ।

१३. अथ प्रकृतिशब्दवाच्याया अनादेर्मायाया लक्षणानि सा च गुणमय्यजाख्या त्रिविधा । तत्र जीवाऽऽवरणकारिण्यविद्यारूपा, ईश्वराऽऽवरणकारिणी प्रधानरूपा, पुरुषोत्तमप्रेरिताऽक्षरपुरुषे क्षणेन जीवेश्वरदेहोत्पत्तिहेतुर्मूलप्रकृतिरूपेति ।

तत्र श्रुतिस्मृतयः विकारजननी मायामष्टरूपामजां ध्रुवाम् , अस्मान्मायी सृजते विश्वमेतत् , अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपामजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः , मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति । सकार्यमूलप्रकृतिः

परिशिष्टः

[[१३४]]

सकालाऽक्षरतेजसि । प्रकाशेऽर्कस्य रात्रीव तिरोभूता तदाऽभवत् ॥ , सिसृक्षाऽथाऽभवत्तस्य ब्रह्माण्डानां यदा तदा । सकालाऽऽविर्बभूवादौ माहामाया ततो हि सा ॥ , तां कालशक्तिमादाय वासुदेवोऽक्षरात्मना । सिसृक्षयैक्षत यदा सा चुक्षोभ तदैव हि ॥ , मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्तषोडशस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः , प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि , अनाद्यविद्योपहताऽऽत्मसंविदः इत्यादयः ।

१४. अथाऽक्षरब्रह्मलक्षणानि अक्षरब्रह्मसंज्ञास्त्रयः सन्ति । तत्राऽद्यं प्रकृतिसम्बन्धरहितं पुरुषोत्तमस्य निवासभूतमक्षरब्रह्माऽभिधं ब्रह्मपुरं धाम बोध्यम्। द्वितीयं पुरुषोत्तमोपासकं तद्धामस्थं मुक्तकोटिवृन्दं च । तृतीयः पुरुषोत्तमस्येच्छया ब्रह्माण्डोत्पादकः प्रकृत्यधिष्ठाताऽक्षरपुरुषश्च ।

तत्र प्रमाणभूताः श्रुतिस्मृतयः दिव्ये ब्रह्मपुरे ह्येष स व्योम्न्यात्मा प्रतिष्ठितः , एतत्सत्यं ब्रह्मपुरम् , अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः , यदर्चिमद्यदणुभ्योऽणु च यस्मिंल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म , द्वे वाव ब्रह्मणो रूपे मूर्तं चाऽमूर्तं च , यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वितरागाः , यद्गत्वा न निवर्तन्ते तद्धाम परमं मम , माया परैत्यभिमुखे च विलज्जमाना , विलज्जमानया यस्य स्थातुमी क्षापथेऽमुया , स्वधामनि ब्रह्मणि रंस्यते नमः , ब्रह्माख्यं धाम ते यान्ति शान्ता संन्यासिनोऽमलाः , गच्छन्त्यमूढाः पदमव्ययं तत् , मद्भावमागताः , मम साधर्म्यमागताः , ब्रह्मभूयाय कल्पते , पुनश्चाऽक्षरधामनि स्थास्यन्ति ते स्वतन्त्रास्ते कालमायाभयोञ्जिताः , न यत्र माया किमुताऽपरे हरेरनुव्रता यत्र सुरासुराऽर्चिता इति । इत्थं हरिधाममुक्तवृन्दयोः निरूपणमुक्तम् । इदानीमक्षरब्रह्माऽभिधपुरुषनिरूपणे प्रमाणानि जहात्येनां भुक्तभोगामजोऽन्यः , अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ , स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । मदिच्छयैवोपगतामभ्यपद्यत लीलया ॥ , त्वत्तः पुमान्समधिगम्य ययाऽस्य वीर्यम् इत्यादीनि ।

१५. अथ पुरुषोत्तमस्वरूपनिरूपणमाह । यः पुरुषोत्तमो नारायण- हरिकृष्णादिनामा सनातनपुरुषाकृतिः जीवेश्वरमायाब्रह्मणां नियन्ता, तेभ्यः स्वरूपस्वभावादिभिः श्रेष्ठस्तदुपास्यश्च । स्वब्रह्मपुरस्थानस्थः स्वतोऽन्यत्र अन्तर्यामिशक्त्या व्याप्तोऽनवधिकाऽतिशयसर्वज्ञत्वाद्यप्राकृतगुणगणवान्

[[१३५]]

प्राकृतगुणहीनत्वान्निर्गुणश्च स्वतंत्रः स्वप्रकाशश्च स परमात्मा परमेश्वरशब्दवाच्यः अस्ति ।

तत्र प्रमाणभूताः श्रुतिस्मृतयः परात्परतरो ब्रह्म तस्मात्परतरो हरिः , अथाऽह पुरुषो वै नारायणः , आकृष्णेन रजसा वर्तमानो निवेशयन् , आत्मा वा इदमग्र आसीत्पुरुषविधः , य आत्मानमन्तरो यमयति , अक्षरमन्तरो यमयति , एष त आत्माऽन्तर्याम्यमृतः , स वाऽयमात्मा सर्वस्य वशी सर्वस्येशानः सर्वस्याऽधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च , स न साधुना कर्मणा भूयान्नो एवाऽसाधुना कनीयान् , अक्षरात्परतः परः , न तत्समश्चाऽभ्यधिकश्चदृश्यते , तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेशमीड्यम् , न तस्य कश्चित्पतिरस्ति लोके न चेशिता , वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् , योऽक्षरे संचरति , यः सर्वज्ञः सर्वविद्यस्यैष महिमा भूवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ , नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ , सर्वभूतान्तरात्मा सदा जनानां हृदये सन्निविष्टः , निर्दोषः पूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः । आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा , यः कालकालो गुणी , साक्षी चेता केवलो निर्गुणश्च , यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः , अत्राऽयं पुरुषः स्वयंज्योतिः , यत्र देवः क्रतुभिर्भूतभावनः स्वयं विभूत्या विरजः प्रकाशते , सत्यसंकल्पो महारजनं वासः , अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः इति ।

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः , प्रकृतिपुरुषयोः परस्य शं नस्तनोतु चरणः पुरुषोत्तमस्य , यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् , नारायणपरा वेदाः नारायणपरा मखाः , हरिर्हि साक्षाद्भगवाञ्छरीरिणामात्मा झषाणामिव तोयमीप्सितम् , श्रृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् , पुरुषविधोऽन्वयोऽत्र चरमोन्नमयादिषु यः , यो मामजमनादिं च वेत्ति लोकमहेश्वरम् , त्वमादिदेवः पुरुषः पुराणः , स वै किलाऽयं पुरुषः पुरातनः ,

परिशिष्टः

[[१३६]]

अजोऽपि सन्नव्ययाऽऽत्मा भूतानामीश्वरोऽपि सन् इति ।

स्कान्दे वासुदेवः परं ब्रह्म बृहत्यक्षरधामनि । आदावेको द्वितीयो भून्निर्गुणो दिव्यविग्रहः ॥ , नारायणो वासुदेवः स्वतंत्रः स्वप्रकाशकः । आनन्ददिव्यमूर्तिश्च विष्णुः कृष्णोऽच्युतोऽव्ययः ॥ , सर्वत्रैवाऽन्वितः शक्त्या व्यतिरिक्तः स्वतः स्थितः । नियन्ता कालमायादेः सर्वकारणकारणम् ॥ , परमात्मेति यत्प्राहुस्तत्परं ब्रह्म कथ्यते । उपासनीयं सर्वेषामेतदेव मुमुक्षताम् ॥ , स्वतन्त्रः सत्यसंकल्पः सर्वकर्मफलप्रदः । अन्तर्यामी सर्वशक्तिसेवितः परमेश्वरः ॥ , ये सत्यशौचादयो भागवतोक्तास्तस्य गुणास्तेऽत्रबोध्याः इति ।

वायुपुराणे च सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तदृष्टिः। अनन्तशक्तिश्च विभोर्विभुज्ञाः षडाहुरङ्गानि महेश्वरस्य इति । भागवते च मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । अव्ययस्याऽप्रमेयस्य निर्गुणस्य गुणात्मनः इति । विष्णुपुराणे च सत्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । सः शुद्धः सर्वशुद्धेभ्यः पुमानाद्यः प्रसीदतु ॥ , सगुणो निर्गुणो विष्णुर्ज्ञानगम्यो ह्यसौ स्मृतः । न हि तस्य गुणाः सर्वे सर्वैर्मुनिगुणैरपि । वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः ॥ इति । मार्कण्डेये च एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः । ज्वालामालोपरूद्धाङ्गी निष्ठा सा योगिनां परा ॥ , दूरस्था चाऽन्तिकस्था च विज्ञेया सा गुणातिगा । वासुदेवाऽभिधानाऽसौ निर्ममत्वेन दृश्यते ॥ , सत्यः स्वयंज्योतिरजः परेशः इति । गीतायां च उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति ।

एकान्तिकभक्ताऽऽत्मज्ञानिदृश्यत्वे च प्रमाणानि ब्रह्मवैवर्ते स्कान्दे च ददर्श कृष्णं ग्रीष्मस्य कोटिसूर्यसमप्रभम् । द्विभुजं मुरलीहस्तं किशोरं गोपवेशकम् ॥ , परमात्मानमीशं च भक्ताऽनुग्रहविग्रहम् । स्वेच्छामयं परं ब्रह्म परिपूर्णतमं विभूम् । ब्रह्माविष्णुशिवाद्यैश्च स्तुतं मुनिगणैर्नुतम् ॥ , सहोदितायुतवद्भास्वरे तत्र तेजसि । वासुदेवं ददर्शाऽसौ रम्यदिव्यासिताऽऽकृतिम् ॥ , कृष्णस्याऽनुग्रहो यस्मिन्स तेजसि तमीक्षते । केवलं तेज एवाऽन्ये पश्यन्ति न तु तं मुने ॥ इति ।

१६. पूर्वोक्तैः श्रुतिस्मृतिवाक्यैर्निरूपितः पुरुषोत्तमनारायणोऽसंख्यजीव-

[[१३७]]

कल्याणाय दयया कृत्वा रामकृष्णाद्यवतारैरत्र प्रादुर्भवति । ये जनास्तदवतारान् ज्ञात्वैकान्तभावेन भजन्ति, त एव गुणमयीं मायां तीर्त्वा मरणकाले सच्चिदानन्दे ब्रह्ममयीं तनुं प्राप्य, स्वधामस्थस्य हरेः सेवायां तिष्ठन्तीति समस्तसच्छास्त्र- सिद्धान्तोऽस्ति ।

तथा च श्रुतिस्मृतयः दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ , मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ , ब्राह्मीं संविशते तनुम् , गुणाऽपाये ब्रह्मशरीरमेति , प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्माणे न्यपतत् पाञ्चभौतिके ॥ , जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥

इत्याद्याः ।