प्रकटपरब्रह्मपुरुषोत्तमनारायणस्य वचोरूपस्याऽमृतस्य महोदधिर्नाम वचनामृतग्रन्थः । अस्य मधुरोदकसमुद्रस्य तटे उपविश्य तत्कल्लोलानां श्रवणस्य आस्वादस्तु कश्चिदेकोऽनुपमोऽवसरो वर्तते, परन्तु वचोऽमृतमहोदधेरमृतस्य मधुररसपानन्तु ततोऽप्यधिकः कश्चिदपूर्व एवाऽनिर्वचनीयाऽऽनन्दविषयोऽस्ति ।
वस्तुतो दर्शनम्, अवगमनम्, आनन्दाऽनुभूतिरित्येतत्त्रितये उत्तरोत्तरस्य उत्तमोत्तमत्वं भवति । नेत्रयोः पुरतः पञ्चामृतभोजनानि परिवेषितानि सन्त्यपि विना भोजनं तद्रसास्वादो नाऽनुभूयते ।
भगवतः श्री-स्वामि-नारायणस्य वचनामृतग्रन्थो न केवलमध्युत्पीठिकं संस्थाप्य पूजनीयो वर्तते, अपि तु ग्रन्थस्थानि सुधाभान्याध्यात्मिकरहस्योपेतवचांसि कर्णयुगलैर्निपेयानि सन्ति ।
त्रिदशालयाऽमृतपानेन देवतावद्दीर्घाऽऽयुःप्राप्तिः स्यात्, किन्तु जन्ममरणचक्र- भ्रमणात् शाश्वती मुक्तिस्तु नैवाऽवाप्यते । परमस्य वचनामृतग्रन्थस्य रसपानं तु कालकर्ममायाभयात् सर्वात्मना मुक्तिं दापयति ।
अत्र पानम् इति पदस्याऽयमाशयोऽस्ति यत् भगवता श्री-स्वामि-नारायणेन ग्रन्थेऽस्मिन् प्रबोधितानां साधनापद्धतीनामभ्यसनम् इति ।
अभ्यस्यतां बालकानां प्रतिभायां रुच्यां च वैविध्यं भवति । तदनुगुणं यदि बालकेभ्यो मार्गदर्शनं क्रियते, तर्हि बालका अध्ययने विशेषप्रगतिं साधयितुं शक्नुयुः । तथैव श्रेयोवर्त्मनि प्रवर्तमानानां मुमुक्षूणां स्तरः, रुचिः, क्षमता चैतत्त्रयं भिन्नं भिन्नं भवति ।
सैन्याऽनुशासनमिव साधनाया एक एव जटिलमार्गो न खलु सर्वेषामनुकूलो भवति । भगवता श्री-स्वामि-नारायणेन साधनानामिदं रुचिक्षमतायोग्यतावैविध्यं मनसि निधाय वचनामृतग्रन्थे उच्चस्तरीयेभ्य आध्यात्मिकसाधकेभ्यस्तथा सामान्यस्तरीयमुमुक्षुभ्यश्च नानाप्रकारकसाधनामार्ग उपदिष्टोऽस्ति ।
वचनामृतग्रन्थान्मुमुक्षवः स्वीयसंस्कारक्षमतारुच्यनुगुणं साधनापद्धतेर्विषये मार्गदर्शनं प्राप्तुमर्हन्ति ।
मोक्षाऽध्वनि प्रस्थितानां सहस्रशो मुमुक्षूणां मार्गदर्शनाय नैकाः साधनापद्धतयः सन्ति, ता एकस्मिन्नेव ग्रन्थे सम्प्राप्नुयुरित्येतादृशग्रन्थः सुदुर्लभो भवेत् ।
[[१२५]]
वचनामृतग्रन्थः तथाविध एव सुदुर्लभग्रन्थोऽस्ति । आवश्यकता केवलम् एतद्ग्रन्थपाठस्य नास्ति, आवश्यकताऽस्त्येतद्ग्रन्थपानस्य ।
यथा विज्ञानविषये सैद्धान्तिकपाठः प्रायोगिकपाठश्चेत्युभयं युगपत्प्रचलति तथैव वचनामृतग्रन्थपाठेन सह तत्र प्रबोधितानि बहूनि साधनानि प्रायौगिकरूपेण अनुष्ठेयानि सन्ति । यद्येवं भवेत्तर्हि वचनामृतान्यस्मज्जीवने अद्वितीयां चमत्कृतिं जनयेयुः ।
तद्यथा चिन्तामणितुल्यभगवन्मूर्तौ अखण्डवृत्तेरभ्यासः । अन्तःकरण- विशुद्ध्यर्थम् आहारविहारशुद्धेः अनुशीलनम् । ध्यानसिद्ध्यर्थं मानसपूजनस्य अभ्यासः । स्वभावस्य परिचयस्तथा तस्य विनाशस्याऽभ्यासः । देहाभिमान- रूपाऽहङ्कारविसर्जनस्याऽभ्यासः । भागवतधर्मपरिशीलनस्याऽभ्यासः । मनोजयस्याऽभ्यासः । इन्द्रियजयस्याऽभ्यासः । पञ्चविषयस्य आसक्तेः परित्यागस्याऽभ्यासः । वासनानिर्मूलनाय प्रयत्नः ।
वचनामृतग्रन्थे एवंविधा बहवः प्रयोगाः सन्ति । वचनामृतग्रन्थोक्त एकः प्रयोगोऽवश्यमेव अनुष्ठेयोऽस्ति । भगवान् श्री-स्वामि-नारायणो वचनामृते नैकवारम् अवगुणग्राहिणीं बुद्धिं सन्त्यज्य गुणग्राहिणीं बुद्धिं संवर्धयितुम् उपदिशति । अयमेव विषयोऽस्मिन्नाधुनिके काले Positive Thinking इति नाम्ना प्रथमानोऽस्ति ।
यद्यपि गुणाऽवगुणास्तु दृश्यन्त एव, तथाऽपि हंस इव गुणा एव ग्राह्याः, अवगुणाश्च हेयाः, परंतु काक इव केवलमवगुणा एव न द्रष्टव्याः ।
कथयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे यत्
यस्य भगवद्भक्तस्य सदसदर्थयोः सम्यक् विवेकः स्यात् , स हि स्वनिष्ठान् अवगुणान् जानाति तथा विचारपूर्वकं ताँस्त्यजति । तथा साधूनां सत्सङ्गिनां च दुर्गुणान् भासमानानपि न गृह्णाति । तेषां गुणानेव गृह्णाति । अपि च तस्य भक्तस्य परमेश्वरे तु क्वचिदपि दोषो नैव भासते इति ।
(दुर्ग.प्र.वच.१६)
भगवती श्रुतिरपि वक्ति यत् तन्मे मनः शिवसङ्कल्पमस्तु (शु.यजु.३४.१) इति । अर्थादस्मदीयं मनो शुभविचारैः सम्भृतं भूयादिति ।
वचनामृतपठनोत्तरमेको मार्मिकः प्रश्नस्तु स्वात्मानं प्रति कर्तव्यः अतः परं किम् ? इति । प्रश्नस्याऽयमाशयोऽस्ति यत् वचनामृतग्रन्थे तूपदेशवचनानि बहूनि सन्ति , किन्त्वस्मज्जीवनेऽस्माभिः कियता प्रमाणेन तेषामनुसरणं
[[१२६]]
कृतम् ? इति ।
मधुरजलपूरितघटदर्शनेन तृषानिवृत्तिर्नैव भवति, तन्निवृत्तिस्तु जलपानेनैव भवति । तथैव परमपीयूषरूपाणि वचनामृतानि यदि पीतानि न स्युः, तर्हि न केवलेन पाठेन पूर्णरूपेण साफल्यमवाप्यते ।
आत्यन्तिककल्याणस्य मार्गमनुसरद्भिर्मुमुक्षुभिरस्य वचनामृतग्रन्थरत्नस्य अभ्यासः, स्वाध्यायः, स्वजीवने प्रयोगश्चाऽवश्यमनुष्ठेय इति ।
इति श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहग्रन्थस्य साधनप्रकरणं समाप्तम् ॥
समाप्तोयं श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहग्रन्थः॥ [[१२७]]