११ भगवत्-सेवारूपश् चरमः पुरुषार्थः

मानव-जीवनं धर्माऽर्थ-काम-मोक्षाऽऽख्यानां चतुर्-विधानां पुरुषार्थानां सिद्ध्य्-अर्थम् अस्ति ।
तेषु चतुर्विध-पुरुषार्थेषु
वरीयश् चरमञ् च लक्ष्यम् अस्ति मोक्षप्राप्तिः ।

स एव मोक्षः
‘आत्यन्तिकं कल्याणम्’ , ‘आत्यन्तिकं श्रेयः’
इत्यादिभिः नामभिर् अपि व्यवह्रियते ।
धर्म-भक्त्य्-आदि-सप्तसाधनैः प्रसन्नो भगवान्
स्वैकान्तिक-भक्तेभ्य आत्यन्तिक-श्रेयः प्रददाति ।+++(5)+++

श्रेयो नाम कल्याणम् ।
श्रेयांसि नैक-विधानि भवन्ति ।

इह लोके ऽनेकधा सौख्याऽवाप्तिः
कल्याणम् इत्युच्यते ।
स्वर्गादिषु इन्द्रादि-देवलोक-सौख्याऽवाप्तिर् अपि कल्याणम् उच्यते ।
परन्त्व् इमानि कल्याणानि नैव शाश्वतानि ।
एभिः कल्याणैः जन्म-मरण-चक्र-भ्रमणं नैव निवर्तते ।

मोक्ष-स्वरूप-विषये विविधानि मतानि सन्ति ।
मरणं मोक्ष इति चार्वाकाः ।

तैलाऽभावे दीपोपशमनवत्
कर्म-वासना-क्षये ऽविरतं प्रसरन्त्याः क्षण-भङ्ग-स्वभावायाः ज्ञान-धारायाः समाप्ति-रूपो निर्वाणमयो मोक्ष
इति शून्यवादिनः सौगताः ।

समग्र-वासाना-विरामे सति
केवलं विशुद्ध-ज्ञान-धारा-रूपेणाऽवस्थानं मोक्ष
इति विज्ञानवादिनः सौगताः ।

[[११७]]

मध्यम-परिमाणस्याऽऽत्मनः सकल-कर्म-क्षयो मोक्ष
इति आर्हताः ।

सृष्टि-प्रपञ्चेन सह विद्यमानस्य सम्बन्धस्य विलयो मोक्ष
इति मीमांसकाः

सकल-विशेष-गुणोच्छिन्ना आकाश-सदृशी स्थितिर् मोक्ष
इति नैयायिकाः
सैव मुक्तिः आनन्दाऽनुभूति-विशिष्टा भवतीति अक्षपादमुनिः
अदृष्टाऽभावे शरीरस्य विलक्षण-संयोगाऽभावः - अर्थात् न पुनर्-जनन-मरणादिकं मोक्ष
इति कणादमुनिः

प्रकृति-पुरुषयोर् विज्ञानेन
प्रकृतेस् तत्-कार्याणां च सर्वथा निवृत्तिर् मोक्ष इति सांख्याः

विगत-सजातीय-विजातीय-स्वगत-भेद-शून्य–निर्विशेष-ब्रह्म-भावाऽवाप्तिर् मोक्ष इति अद्वैतवेदान्तिनः

केवलं साधन-बलेन प्राप्ता स्वात्म-सुख-रूपा मुक्तिः कैवल्यमुक्तिः ।
कैवल्य-मुक्तेः स्वरूपं वर्णयन् कथयति यतीन्द्र-मत-दीपिका-कारः यत्

कैवल्यं नाम ज्ञान-योगात्
प्रकृति-वियुक्त-स्वात्मानुभव-रूपम् ।
सोऽनुभवो ऽर्चिर्-आदि-मार्गेण परम-पदं गतवतः एव
क्वचित्-कोणे पति-त्यक्त-पत्नी-न्यायेन भगवद्-अनुभव-व्यतिरिक्त-स्वात्माऽनुभव
इत्याहुः । (य.दी.८)

शास्त्रेषु परम-श्रेय इत्य्-अर्थे ‘स्व-स्वरूपाऽविर्भावः’ इति शब्दः श्रूयते । तथा हि

अस्माच्-छरीरात् समुत्थाय
परं ज्योतिर् उपसंपद्य
स्वेन रूपेणाभिनिष्पद्यते

(छा.उ.८.१२.२, छा.उ.८.३.४) इति ।

अस्माद् देहाद् विमुक्त आत्मा
परं-ज्योतिर्मयेन परमात्मना सह
सेवक-भावेन संयुज्य
स्वीये शश्वद्-ब्रह्म-भावे रंरम्यत

इति ।

ननु किन् नाम स्वरूपाऽऽर्विभावः ?
तर्हि न केवलं नित्य-शुद्ध-बुद्ध-मुक्त-स्वभाव-ब्रह्म-भावाऽऽप्तिः,
किन्तु ‘ब्रह्माऽहं कृष्णदासोऽस्मि’ इत्य्-एवम्-प्रकारेण भगवद्-दास-भावेनाऽवस्थितिर् एव स्वरूपाऽऽविर्भावः ।
पर-ब्रह्मणः सेवकत्वं सर्वेषाम् आत्मनां नाऽऽगन्तुकम्
अपि तु नित्य-सिद्धं वर्तते,
अतो ब्रह्म-रूपेण पर-ब्रह्मणः सेवकत्वम् एव वस्तुतः स्वरूपाऽऽर्विभावोऽस्ति ।+++(5)+++

अयम् एव स्वामि-सेवक-भावः शेष-शेषि-भावोऽपि कथ्यते ।
संसार-दशायाम् अविद्यया संकुचित-धर्म-भूत-ज्ञान-वशात् विस्मृतोऽयं स्वामि-सेवक-भावः ।
भगवत्-कृपया मुक्ति-दशायां
स एव पुनर्-आविर् भवति
‘ब्रह्माऽहं कृष्णदासोऽस्मि’ इत्य् एवं-रूपेण ।
ब्रह्म-सूत्रस्य चतुर्थाऽध्याये मुक्ति-पादे
श्रीमद्-रामानुजाचार्य-वर्येणाऽयं विषयः स्पष्टतयोपवर्णितः ।

परम-तत्त्वम् अधिगतानां वैष्णवाचार्याणां मते
ब्रह्म-भावाऽवाप्तिर् एव मुक्तिर् नास्ति ।
ब्रह्मभावस् तु परब्रह्म-प्राप्तेः साधनम् अस्ति ।

[[११८]]

यथा आकरान् मूल्यवान् हीरकः सम्प्राप्यते,
तद्-अनन्तरं तस्य रजो-मालिन्य-दूरीकरणात्
सः हीरकः प्रोज्ज्वलत्वं प्राप्नोति ।

हीरकस्य प्रोज्ज्वल–स्व-रूपम् अत्यन्तं मनोहरं भवति,
परंतु स एव हीरको यदि कस्मिँश्चिद् अलङ्कारे प्रोत्येत,
तर्हि तच्-छोभा ततोऽपि अतितरां वर्धते ।+++(5)+++
तथैव ब्रह्म-भावाऽवाप्तिर् वस्तुतो वरीयसी
तथाऽपि ब्रह्म-भावाऽवाप्तेर् अनन्तरं
पर-ब्रह्म-चरण-नलिनयोः संसेवनं तु
ततोऽप्यत्यन्तं वरीयो गरीयश् चाऽस्ति ।

मुनिवर्यस्य निर्गुणब्रह्मनिष्ठस्य शुकदेवस्याऽऽख्यानम् अत्र प्रमाणम् ।
तदुक्तं श्रीमद्भागवते भगवता वेदव्यासेन

परिनिष्ठितोऽपि नैर्गुण्ये
उत्तमश्लोक-लीलया ॥
गृहीत-चेता राजर्षे
आख्यानं यद् अधीतवान् ॥
(भा.पु.२.१.९)

महायशाः शुकदेव-मुनिर्
ब्रह्मणि परिनिष्ठितोऽप्य्
उत्तमश्लोकस्य भगवतः श्रीकृष्णस्य लीलया
हठात् गृहीत-चेताः सन्
ब्रह्म-समाधिं परित्यज्य
भगवल्-लीला-ग्रन्थं भागवतम् अधीतवान् ।
तथा च सः भगवद्-गुण-संकीर्तने यदा व्यलीयत
तदा तस्य ब्रह्मभावो विशेषेण दिदीपे ।+++(5)+++

सम्पद्याविर्भावः स्वेन शब्दात् (ब्र.सू.४.४.१)
इति सूत्रस्य व्याख्यानं वितन्वता सद्गुरुणा श्रीगोपालानन्द-स्वामिना प्रोक्तं यत् ‘

सम्पद्य परमात्मस्वरूपं प्राप्य,
निरस्ताऽनाद्य्-अविद्या-रूप-मलेन स्वकीयेनाऽनादि-सिद्धेन शुद्ध-स्वरूपेणाऽऽविर्भाव उच्यते मुक्तस्य,
न त्व्-आगन्तुकेन ।
“कुतः ?” इति चेत् स्वेन रूपेण अभिनिष्पद्यते (छा.उ.८.२.३) इत्यत्र
तस्य स्वरूपापत्तौ ‘स्वेन’ इति विशेषण-शब्दात् ।
तस्य तदेव स्वरूपं परमात्मोपासन-बलात् तत्-समान-गुणकं भागवती-तन्व्-आख्यं तत्-सेवार्हं कीट-भृङ्ग-स्वरूपाऽपत्ति-न्यायेनाऽविर्भवति ।

अस्यैव सूत्रस्य व्याख्यानाऽवसरे प्रोक्तं सद्गुरुणा श्रीमुक्तानन्दस्वामिना

‘अत्राऽयम् आशयो यद्
भक्ताऽनुग्राहकस्य परब्रह्मणो नारायणस्य प्रसादेन
स्वाऽविद्यारूपे मले विगलिते सति
शुद्धे जीवात्मन्य् एव परमात्म-ध्यान-बलेन
तत्-समान-गुणा तत्-परिचर्यार्हा पार्षद-रूपा भागवती तनुः
कीट-पेशस्कृत्-स्वरूपापत्ति-न्यायेन प्रादुर्-भवतीति ।’

तद्-उपवर्णयति भगवान् श्री-स्वामि-नारायणः
श्रीशतानन्द-स्वामि-विरचिते श्रीहरि-वाक्य-सुधासिन्धौ

तमुवाच हरिर्यर्हि श्रीकृष्णोपासनाबलात् ॥ वपुस्त्रयं लीयतेऽस्य चिद्रूपो जायते तदा ॥ कृष्णेच्छयाऽथ दिव्योऽस्य पराप्रकृतितो मुने ॥

[[११९]]

आविर्भवति देहो वै तेन संयुज्यते च सः ॥ तादृशोऽथ हरिं प्रीत्या तस्मिन्नक्षरधामनि ॥ सेवमानो वर्ततेऽसौ प्रश्नोत्तरमितीरितम् ॥

(श्रीहरि.त.१९९.२८ तः ३०)

एतेषां श्लोकानां व्याख्यानं वितन्वताऽऽचार्यप्रवरेण श्रीरघुवीरजीमहाराजवर्येण उक्तमस्ति यत् ‘मुक्तिदशायां भगवदिच्छया मुक्तात्मनः कृतेऽक्षरब्रह्मात्मकपराप्रकृतेः सकाशात् दिव्यश्चिद्रूपः अर्थात् प्रकाशात्मको ब्रह्ममयो देह आविर्भवति । गुणाऽपाये ब्रह्मशरीरमेति इति हि श्रूयते । तेन स भक्तः छान्दोग्यप्रसिद्धे अक्षरधाम्नि ब्रह्ममयेन दिव्यशरीरेण प्रीत्या साहजिकाऽतिस्नेहेन हरिं सेवमानः सन् वर्तते’ इति ।

अत एव ब्रह्मभावेन परब्रह्मसेवैव परमा मुक्तिरिति उद्धोषयति भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यां तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम् (शिक्षा.१२१) इति ।

मुक्तिदशायां मुक्तानां स्वरूपस्थितिप्रवृत्तिभेदा निरूपिताः रहस्यत्रयसारग्रन्थे । तद्यथा स्वरूपभेदो नाम प्रतिबन्धकनिवृत्त्या आविर्भूतस्वरूपवत्त्वम् । स्थितिभेदो नाम पूर्वावधियुक्ताऽऽविर्भावस्य उत्तरावधिशून्यत्वम् । प्रवृत्तिभेदो नाम अनादिकालेनाऽलब्धमुक्त्यनन्तरप्राप्तपरिपूर्णभगवदनुभवजनितप्रीतिकारित- यथाऽभिमतकैङ्कर्यविशेषः । अत्राऽशङ्कते कश्चित् यत्

विमुञ्चति यदा कामान्मानवो मनसि स्थितान् ॥

तर्ह्येव पुण्डरीकाक्ष ! भगवत्त्वाय कल्पते ॥ (भा.पु.७.१०.९)

इति नृसिंहं प्रति प्रह्लादवचनाऽनुसारेण निरस्तसकलवासनस्य एकान्तिकभक्तस्य भगवद्रूपतैव परमा मुक्तिः, न तु तत्सेवा, इति चेन्न । मुक्तिदशायां न हि एकान्तिकभक्तो भगवानेव भवति । भगवाँस्तु एक एवेति श्रुतिस्मृतिपुराणादिषु बहुधा प्रतिपादितत्वात् । अतो ‘भगवत्त्वम्’ इति शब्दस्याऽर्थस्तु ‘भगवत्समानैश्वर्यवत्वम्’ इत्युक्तं श्रीधरस्वामिना अस्य श्लोकस्य व्याख्यानाऽवसरे । अतो भगवत्त्वं नाम भगवत्साम्यं ज्ञेयम् । तदेव निरूपयति भगवती श्रुतिः

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥

(मु.उ.३.१.३)

[[१२०]]

यथा नद्यः स्यन्दमानाः समुद्रे अस्तं गच्छन्ति नामरूपे विहाय ॥ तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥

(मु.उ.३.२.८)

कथयति भगवान् श्रीकृष्णोऽपि श्रीमद्भगवद्गीतायाम् इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः (भ.गी.१४.२) इति ।

नित्याऽक्षरमुक्तानामेतादृशं भगवत्साधर्म्यमपि ‘जगद्व्यापारवर्जम्’ भवति । तथैव चोक्तं भगवता बादरायणेन जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च (ब्र.सू.४.४.१७) इति । अस्य सूत्रस्याऽर्थं वितन्वता सद्गुरुणा श्रीगोपालानन्दस्वामिना प्रोक्तं यत् ‘जगतः सम्बन्धी यो व्यापारः स्वतन्त्रतया तत्सृष्ट्यादिकारणरूपः, तं वर्जयित्वैव मुक्तस्य परमात्मगुणगणलेशाऽविर्भावेन तत्साम्यापत्तिरूपमैश्वर्यं वर्तते ।’

तेषां नित्याऽक्षरमुक्तानां तु भगवता साकं भोगे निरवधिकाऽतिशयानन्दाऽनुभवे एव समानता, न जगद्व्यापाररूपैश्वर्ये । जगतोऽसाधारणकारणत्वं तु परब्रह्मणः अनन्याऽसाधारणो धर्मः । तदेवोपदर्शयति ब्रह्मसूत्रे भगवान् बादरायणो भोगमात्रसाम्यलिङ्गाच्च (ब्र.सू.४.४.२१) इति ।

कथयति भगवती श्रुतिः सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (तै.उ.२.१.१) सर्वेऽपि नित्याऽक्षरमुक्ताः समानभावेन सर्वगुणविशिष्टं निरवधिकातिशयानन्दमयं ब्रह्म अनुभवति ।

ननु दिव्येऽक्षरधाम्नि विराजमानानां ज्ञानस्वरूपाणां नित्यमुक्ताऽक्षरादीनां सर्वेषां प्रकाशे नितरां साम्यं वर्तते । तर्हि तेषां भेदः कथं गृह्यते ? इत्याशङ्कायां सत्याम् ‘अहमस्मि’ इति प्रत्यज्ज्ञानेन तथा च ‘अहमिदं जानामि’ इति पराज्ज्ञानेन भेदग्रहणं सुकरं भवति । वदति च भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे यत्

जीवपुरुषाऽक्षराणां तथा पुरुषोत्तमस्य परमतेजोमये प्रकाशेऽत्यन्तं सजातीयता वर्तते । एतेषां प्रकाशानां मध्ये विद्यमानं भेदं ग्रहीतुं न कोऽपि समर्थः । प्रकाशमध्ये भेदस्त्वतिशयेन वर्तते , परन्तु न कोऽपि तद्द्रष्टुं समर्थो भवति । भगवत्कृपया भक्तेन यदा प्रकाशमयो दिव्यो देहः प्राप्यते तदा सः भक्तः प्रकाशभेदग्रहणे समर्थो भवति यत् ‘अयमहमस्मि , अयं पुरुषो वर्तते, अयमक्षरोऽस्ति , अयमक्षरादिविलक्षणः परब्रह्मपुरुषोत्तम-नारायणोऽस्ति’ (लौह.वच.१५) इति । अत्र पुरुषो नाम प्रकृत्यपरनामधेयेन प्रधानेन सह वर्तमानः पुरुषः अथवा महामायया सह वर्तमानो

[[१२१]]

महापुरुषो ज्ञेयः ।

मुक्तिदशायां मुक्तात्मसु य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः (छा.उ.८.७.१) इत्यादिश्रुतिप्रसिद्धः अनन्तगुणगणो यद्यप्याविर्भवति तथाऽपि तेषां तथाविधं भगवदाधीनत्वं वर्तते । अतो भगवत्प्रसादलब्धदिव्यैश्वर्या मुक्ताः जानन्ति यद्भगवत्कृपया प्राप्तस्य असंख्येयगुणगणस्य परमं फलं तु भगवतो नारायणस्य सेवनमेव । अतस्तेषां मुक्तानां हृदये न ऐश्वर्ये रुचिः, न च सालोक्यादिचतुर्विधमुक्तिप्राप्तौ रुचिः । तेषां तु केवलं भगवत्कैङ्कर्य एव रुचिः । प्रोक्तं हि भागवते भगवता कपिलेन स्वजननीं देवहूतिं प्रति यत्

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ॥

दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥ (भा.पु.३.२९.१३)

‘मदेकान्तिकभक्ताः चतुर्विधायां मुक्तौ यदि मत्सेवा न स्यात्, तर्हि ते निष्कामभक्ताः तां चतुर्विधां मुक्तिमपि नेच्छन्ति । यद्यहं प्रसन्नस्सन् तेभ्यो बलात् चतुर्विधां मुक्तिं ददामि तथाऽपि ते नाऽङ्गीकुर्वन्ति । निष्कामभक्तास्तु केवलां मत्सेवामेव कामयन्ते ।’ इति ।

कथयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे यत् भगवद्भक्तस्त्विमां चतुर्विधां मुक्तिं न वाञ्छति , स तु केवलं भगवत्सेवामेव वाञ्छति । एवंविधान् निष्कामान् भक्तान् भगवान्नारायणः स्वीयसेवायामजस्रं नियोजयति तथा च बलात् स्वैश्वर्यसुखमपि प्रददाति । (दुर्ग.प्र.वच.४३) इति ।

ननु सेवायां पारतन्त्र्यं भवति तत्तु दुःखरूपमेव, अतः सेवायां दुःखाऽन्वयः स्यात् । दुःखाऽन्विता सेवा कदापि इष्टा न भवतीति चेन्न । कालकर्मादिपारतन्त्र्यं हि दुःखाऽन्वितं स्यात्, न तु भगवत्पारतन्त्र्यम् । प्रोक्तं शिक्षापत्रीटीकाभाष्ये आचार्यप्रवरेण श्रीरघुवीरजीमहाराजवर्येण ‘परेच्छयाऽनिष्टे प्रवृत्त्यापाताद्धि दुःखम् आपद्यते, परश्चेदिष्ट एव प्रेरयेत्, न तदा दुःखाऽवकाशः । यथा गुणवान् पतिर्भार्यामिष्ट एव प्रेरयेत्, गुणवत्या भार्यायाः कृते पत्युरादेश इष्ट एव भवति, अतस्तत्र न दुःखाऽन्वयः ।’ मुक्तानां कृते तु भगवानेव परमप्रियो भवति, अतस्तेषां कृते भगवत्सेवैव परमेष्टा भवति ।

तथा च सर्वसेवा न दुःखाऽन्विता, राजसेवावत् । आप्रधानादिसर्वोऽपि

[[१२२]]

परिचारकगणः सेवया प्रसन्नेन राजवर्येण परमं प्रमोदं प्राप्नोति तथैव भक्ता अपि सेवया प्रसन्नेन भगवता प्रदत्तं निरवधिकाऽतिशयाऽऽनन्दमनुभवन्ति ।

परेषां पारतन्त्र्यं तु दुःखायापि भवेत् क्वचित् । भगवत्पारतन्त्र्यं तु सुखायैव तु केवलम् ॥ १ ॥ ईश्वरोऽहमहं भोगीत्यादिस्वातन्त्र्यमोहितः । भगवत्पारतन्त्र्येऽपि द्विष्यत्यसुरराडिव ॥ २ ॥ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः । इत्येवं मोदते नित्यं हनूमानिव तत्त्ववित् ॥ ३ ॥ आविर्भूतस्वरूपाणां शेषतैकरतात्मनाम् । स्वामिनः परिचर्यातः स्वादु किं वान्यदिष्यते ॥ ४॥

(शिक्षा.१२१, टीकाभाष्यम्)

कथयन्ति केचिदाधुनिका यत् मुक्तिदशायां परब्रह्मणा साकमक्षरब्रह्माऽपि प्राप्यमुपास्यं सेवनीयञ्च, तन्न साधु, परब्रह्मण एव परमप्राप्यत्वात् परमोपास्यत्वात् परमसेव्यत्वाच्च । अक्षरब्रह्मणः प्राप्त्या परब्रह्मणः प्राप्तिर्भवेदिति न नियमः, किन्तु परब्रह्मणः प्राप्त्या अक्षरब्रह्मप्राप्तिस्तु तदन्तर्गतैव ।

केचन भगवत्सेवनं परित्यज्य कैवल्यमोक्षप्रेप्सवः केवलमव्यक्तमक्षरब्रह्म उपासते । अव्यक्तब्रह्मण उपासनस्य दुष्करत्वात् तस्योपासकानां गतिः कष्टदायिनी भवति । तन्निगदति भगवान् श्रीकृष्णः श्रीमद्भगवद्गीतायां यत्

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ॥ अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ (भ.गी.१२.५)

सद्गुरुणा मुक्तानन्दस्वामिना सम्पद्याविर्भावः स्वेन शब्दात् (ब्र.सू.४.४.१) इति ब्रह्मसूत्रस्य व्याख्यानाऽवसरे अक्षरब्रह्मोपासनस्य कनीयस्त्वं परब्रह्मोपासकस्य श्रेष्ठत्वञ्च प्रोक्तम् । तद्यथा ‘केवलात्मनिष्ठस्य त्वक्षरतेजसि निरवयवत्वेन लीनत्वमेव भवतीति परब्रह्मोपासनादक्षरब्रह्मोपासने कनीयस्त्वं श्रूयते स्मर्यते च ।’

आत्यन्तिकमोक्षमार्गे अक्षरब्रह्मोपासनतो भगवदुपासनस्य श्रेष्ठत्वम्, सरलत्वम्, परमफलत्वञ्च दर्शयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे यत्

भगवदुपासनया , भगवच्चरित्रगानश्रवणाभ्याम् , भगवन्नामस्मरणेन , स्वस्वधर्माऽऽचरणेन च स्वात्मनः कल्याणं नाऽस्ति कठिनम् । अयमध्वा तु जलयानेनाऽब्धितरणोपमः सरलोऽस्ति । किञ्चाऽऽत्मदर्शनेन श्रेयःप्राप्तिस्तु

[[१२३]]

कट्यां तुम्बोपबन्धपुरस्सरं समुद्रतरणोपमा कष्टसाध्याऽस्ति इति ।

(दुर्ग.म.वच.३५)

तथा च प्राञ्जलं मोक्षमार्गमुपदिशन्नग्रे कथयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे यत्

स्वीयमात्यन्तिकं श्रेय इच्छता पुंसा तत्तल्लक्षणैर्भगवत्स्वरूपमाहात्म्यं सम्बुध्य , भगवन्तं प्रपद्य , भगवति दृढीयांसं विश्वासं कृत्वा भगवदाज्ञानुवर्तनं कारं कारं तद्भजनं कर्तव्यम् इत्येष एवाऽऽत्यन्तिककल्याणस्य सुगमः पन्था अस्ति इति । (वृत्ता.वच.१०)

सद्गुरुणा गुणातीतान्दस्वामिवर्येण शिक्षापत्र्याः श्लोकं स्मारं स्मारमुच्यते यत्

निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम् ॥ विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वदा ॥ (शिक्षा.११६)

भगवता श्री-स्वामि-नारायणेनाऽत्यन्तकारुण्यपूर्णहृदयेन निजाश्रितेभ्यो भक्तेभ्यः अन्तकाले स्वाऽक्षरधामप्रापणस्य वरदानं दत्तमस्ति । भगवान् श्री-स्वामि-नारायणः अद्यावधि स्ववचनं पालयन् स्वभक्तायाऽन्तकाले दिव्यदर्शनं प्रदाय स्वधाम प्रापयति ।

अस्मिन् घोरकलिकालेऽपि करुणावरुणालयेन भगवता श्री-स्वामि-नारायणेन चरमपुरुषार्थरूपो मोक्षमार्गः सुगमः सरलश्च कृतोऽस्ति ।

भगवतो दिव्येऽक्षरधाम्नि परब्रह्मपुरुषोत्तमनारायणस्य सेवारतानां भगवद्भक्तानां मुक्तानां भगवत्कृपया कदाचिदपि इह संसारे पुनरावृत्तिर्न भवति । तथा च श्रूयते एतेन प्रतिपद्यमाना इमं मानवमावर्तं नाऽऽवर्तन्ते नाऽऽवर्तन्ते (छा.उ.४.१५.६) इति । स्मर्यते च

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । (भ.गी.१५.६) मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ॥ नाप्नुवन्ति महात्मानः संसिद्धं परमां गताः ॥ (भ.गी.८.१५) मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । (भ.गी.८.१६)

एवमेव भगवान् बादरायणोऽपि वदति यत् अनावृत्तिशब्दादनावृत्तिशब्दात् (ब्र.सू.४.४.२२) इति ।

[[१२४]]