१० भगवान् कृपासाध्यो वा साधनसाध्यः ?

मुमुक्षुभिरेकः साधनविवेकोऽवश्यमभ्युपगन्तव्यो यत् यदि कश्चनैवं मन्वीत ‘अहं धर्मज्ञानादिसाधनैः परमात्मानं लब्धुं समर्थोऽस्मि’ तर्हि तत्त्वशक्यमेव । भगवाननुग्रहसाध्योऽस्ति, न तु साधनसाध्यः ।

साधनानि चित्तशुद्ध्यर्थं परमात्मप्रसादाऽवाप्त्यर्थञ्च विद्यन्ते । साधनैः प्रसन्नः परमात्मैव जीवाय श्रेयो ददाति । अतः साधकेन भगवदनुग्रहस्य बलं सन्धार्यम्, न तु साधनानाम् ।

सन्दर्भेऽस्मिन् दुर्गपत्तनीयमध्यस्थप्रकरणीये षट्षष्टितमे वचोऽमृते भगवता श्री-स्वामि-नारायणेन कृताया वार्तायाः सारोऽधोनिर्दिष्टरीत्याऽस्ति ।

[[११६]]

एकदा भगवान् श्री-स्वामि-नारायणो दुर्गपुरे उत्तमनृपस्य दुर्गे सभां कृत्वा विराजमान आस्ते स्म । तस्यां सदसि निषण्णं विद्वल्ललामभूतं नित्यानन्दस्वामिनं भगवान् श्री-स्वामि-नारायणः प्रपच्छ ‘हे मुने ! भगवत्प्राप्तिरेकेन साधनेन भवत्युत भूरिसाधनैः ?’, ‘हे मुने ! यदि भवान् उत्तरं दद्यात् यद्धर्मज्ञानवैराग्यभक्त्याख्य- साधनचतुष्टयेन भगवत्प्राप्तिर्भवति, तर्हि केवलेन भगवदाश्रयणेनैव आत्यन्तिकश्रेयः अधिगम्यते इत्येतादृशस्य शास्त्रसम्मतस्य अनन्यभावस्य निर्धारणमेव अपास्तं स्यात् ।’

किञ्चाऽस्य प्रश्नस्य समाधानार्थं यद्येवमुच्येत यत्साक्षाद्भगवदाश्रयणेनैव आत्यन्तिकश्रेयः सम्पद्यते, तर्हि धर्मज्ञानविरागभक्तीनां चतुर्ण्णां साधनानां निरर्थकत्वमापद्येत । तर्हि किमत्राऽभ्युपपत्तव्यम् ?

प्रश्नस्याऽस्य समाधानार्थं श्रीनित्यानन्दमुनिर्बहुधा प्रायतत, किन्तु तदुत्तरं न समाहितमित्यतः स्वयमेव भगवान् श्री-स्वामि-नारायणः समाधानं कुर्वन्नाह आत्यन्तिकश्रेयस्तु केवलं साक्षाद्भगवत्समाश्रयणादेव सम्पद्यते , किन्तु धर्मज्ञानादिसाधनानि तु भगवत्प्रीतये भवन्ति इति ।