भगवत्प्राप्त्युपायसाधनेषु सत्सङ्गस्याऽतितरां महत्ताऽस्ति । सतां सङ्ग इति सत्सङ्गः । सङ्गो नाम प्रीतिः, अनुरागः, आसक्तिः, आत्मबुद्धिश्चेति । सद्गुरुणा श्रीशतानन्दस्वामिवर्येण श्रीमत्सत्सङ्गिजीवने सत्सङ्गः पञ्चधा प्रोक्तः ।
[[११२]]
सत्यस्य परमात्मनः सङ्गो नाम भगवतोऽनुरागपूर्वकमाराधनम् । सत्यस्यात्मनः सङ्गो नाम ‘अहं ब्रह्माऽस्मि’ इति विशुद्धात्मबुद्धेरनुसन्धानम् । सतां सच्छास्त्राणां सङ्गो नाम प्रीतिपूर्वकं शास्त्रस्वाध्यायः । सतां सत्पुरुषाणां सङ्गो नाम सतां मुखसरोजान्निःसृताया भगवत्कथायाः परमाऽनुरागेण श्रद्धया च श्रवणं तथा च आत्मबुद्धिपूर्वकं मनोवाक्कर्मभिः सतां सेवनम् । सतः सदाचरणस्य सङ्गो नाम प्रेम्णा सदाचारस्य अनुशीलनम् ।
पूर्वोक्तेषु सत्सङ्गस्य सर्वप्रकारेष्वपि भगवत ऐकान्तिकसत्पुरुषैस्सह स्नेहयुक् सङ्गमस्तु श्रेष्ठोऽस्ति, यतो हि सत्पुरुषाणां सङ्गमेनैव हि शास्त्राणां रहस्यं विज्ञायते, आत्मज्ञानं प्राप्यते, परमात्मनि चाऽनितरसाधारणप्रीतिस्तथा सदाऽऽचरणे रतिश्च जायते ।
भगवती श्रुतिर्वक्ति यत् आचार्यवान् पुरुषो वेद (छा.उ.६.१४.२) इति । श्रोत्रियस्य ब्रह्मनिष्ठस्य सद्गुरोः समागमेन ब्रह्मज्ञानं प्राप्यते । धर्मज्ञानभक्ति- वैराग्योपासनाऽऽश्रयादीनि सर्वसाधनानि सत्सङ्गेन सिद्ध्यन्तितमाम् । अतो भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे सत्सङ्गस्य श्रेष्ठसाधनत्वमुररीकृतवान् ।
मोक्षद्वारं कथङ्कारमनावृतम्भवेत् ? इत्यस्य प्रश्नस्य समाधानं कुर्वता भगवता श्री-स्वामि-नारायणेन निगदितं यत् स्वधर्मज्ञानवैराग्यमाहात्म्यज्ञानसहितां भगवद्भक्तिं च संश्रिता ये भगवदैकान्तिकसत्पुरुषाः, तेषां सङ्गमाद्भागवतधर्मः सम्पुष्टो भवति । किञ्च तेषां सत्पुरुषाणां प्रसङ्गेन जीवस्य कृते मोक्षद्वारमपावृतं भवति । तदुक्तञ्च भगवता कपिलदेवेन मातरं देवहूतिं प्रति
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः ॥
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ (भा.पु.३.२५.२०) यथा जीवः पुत्रवित्तगृहादिषु दृढतया समासक्तोऽस्ति , तादृश एव
प्रसङ्गो यदि भगवत ऐकान्तिकसत्सु कृतः स्यात् तर्हि जीवात्मनः कृते मोक्षद्वारमपावृतं भवति इति । (दुर्ग.प्र.वच.५४)
श्रीमद्भागवतपुराणस्यैकादशस्कन्धस्य द्वादशाऽध्याये सर्वसाधनेषु सत्सङ्गस्यैव वरीयस्त्वं बोधयता भगवता श्रीकृष्णेन स्वप्रियसखायं महाभागवतमुद्धवं प्रति प्रोक्तं यत्
न मां रोधयति योगो न सांख्यं धर्म एव च ॥ न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥
[[११३]]
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाः ॥ यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः ॥ गन्धर्वाप्सरसो नागाः सिद्धाश्चारणगुह्यकाः ॥ विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ॥ रजस्तमःप्रकृतयस्तस्मिँस्तस्मिन् युगेऽनघ ॥ बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयः ॥ वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ॥ सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः ॥ व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथाऽपरे ॥ ते नाधीतश्रुतिगणा नोपासितमहत्तमाः ॥ अव्रतातप्ततपसः सत्सङ्गान्मामुपागताः ॥
(भा.पु.११.१२.१ तः ७)
भगवान् श्री-स्वामि-नारायणोऽपि वचनामृतग्रन्थेऽसकृत् सत्सङ्गस्य महिमानं जगौ । तद्यथा
साधुसङ्गमः सदा विधेयः , कुसङ्गस्तु कदाचनाऽपि न कार्यः । यदा जीवः कुसङ्गं परित्यज्य साधुसङ्गं विदधाति तदा देहेऽहन्ता , दैहिकेषु ममता च नाशमायाति । किञ्च भगवत्यतितरां स्नेहो वर्धते , भगवदितरविषयेषु विरक्तिर्जायते इति । (दुर्ग.प्र.वच.८)
सत्पुरुषाणां प्रसङ्ग एव परमेश्वरे द्रढीयस्याः प्रीतेर्बीजं वर्तते इति ।
(दुर्ग.प्र.वच.४४)
जीवस्य हृदि बहिश्च सत्सङ्गकुसङ्गयोर्द्वन्द्वं सन्ततं प्रचलति । तस्मिन् द्वन्द्वे कथं विजयोऽधिगन्तव्यः ? इत्यत्रोपायं दर्शयता भगवता श्री-स्वामि-नारायणेनाऽभिहितं यत्
कुसङ्गिनो द्वेधा भवन्ति । अन्तःकरणस्थाः कुसङ्गिनः , बाह्यकुसङ्गिनश्च इति । अन्तःकरणे विद्यमानाः कामक्रोधलोभादय अन्तःकरणस्थाः कुसङ्गिनः सन्ति । राजसतामसाऽऽहारविहाराऽऽदयः, असत्पुरुषाश्च बाह्यकुसङ्गिनः सन्ति । एवमेव सत्सङ्गिनोऽपि द्वेधा भवन्ति । अन्तःकरणस्थाः सत्सङ्गिनः , बाह्यसत्सङ्गिनश्चेति । अन्तःकरणे विद्यमाना दयाक्षमाधैर्यादय अन्तःकरणस्थाः सत्सङ्गिनः सन्ति । सात्त्विकाऽऽहारविहाराऽऽदयः, सत्पुरुषाः, सच्छास्त्रश्रवणादयश्च
[[११४]]
बाह्यसत्सङ्गिनः सन्ति ।
अन्तःकरणस्थानां कुसङ्गिनां बाह्यकुसङ्गिसङ्गेन पोषणं तथा तेषां बलस्य वृद्धिर्भवति । एवमेव अन्तःकरणस्थानां सतामपि बाह्यसतां सङ्गेन पोषणं तथा तेषां बलस्य वृद्धिर्भवति । अतो बाह्यानामसतां सङ्गं त्यक्त्वा , बाह्यानां सतामेव सङ्गमो यदि क्रियेत , तर्ह्यन्तःस्थानामसतां बलक्षयः , अन्तःस्थानां सतां बलवृद्धिश्च स्यात् इति । (दुर्ग.प्र.वच.७०)
यद्यपि दैहिकभावान्मुक्त्वा ब्रह्मप्राप्तिः कठिना वर्तते तथापि भगवान् श्री-स्वामि-नारायणस्तस्याः सौलभ्यं वदन्नाह विशुद्धभावेन यदि जीवः सत्सङ्गमं विधत्ते , तर्हि तस्याऽन्तःकरणे न कश्चिदपि दोषस्तिष्ठेत् तथा च स देहस्थितोऽपि ब्रह्मरूपो भवति इति । (सारंग.वच.९)
जीवस्य हृदये कल्याणकारिणो गुणाः कथमाविर्भवेयुः ? इत्यस्योपायं बोधयन् भगवान् श्री-स्वामि-नारायणः स्वाश्रितानूचे यत् यः श्रद्धावान् पुरुषः स्यात् , स यदि सत्समागमं लभेत तथा तद्वचने श्रद्धावान् भवेत् , तर्हि स्वधर्मज्ञान-वैराग्यभक्त्यादयः कल्याणकारिणो गुणास्तस्य हृदये शीघ्रमाविर्भवन्ति । तथा च कामक्रोधादयो विकाराः सर्वशो भस्मसाद्भवन्ति इति । (सारंग.वच.१८)
त्रिंशल्लक्षणोपेतस्य सत्पुरुषस्य सङ्गमं यदि जीवो मनःकर्मवचोभिः कुर्वीत , तर्हि यावन्ति कल्याणकृत्साधनानि सन्ति , तानि सर्वाण्यपि तं सत्पुरुषसमागमकर्तारं समाविशन्ति इति । (वृत्ता.वच.४)
सामान्यतयाऽऽत्मपरमात्मदर्शनं दुर्लभं मन्यते, किन्तु यदि भगवत ऐकान्तिकसत्पुरुषे द्रढीयसी प्रीतिर्जायेत, तर्हि भगवद्दर्शनमतीव सुलभं स्यात् । भगवान् श्री-स्वामि-नारायणोऽस्मिन् विषये वदति यत्
सत्पुरुषेषु द्रढीयसी प्रीतिरेवाऽऽत्मदर्शनस्य साधनमस्ति तथा सत्पुरुषमहिमाऽवगमस्याऽपि तदेव साधनमस्ति । किञ्च परमेश्वरस्य साक्षाद्दर्शनस्याऽपि सत्पुरुषानुरक्तिरेव साधनमस्ति इति । (वृत्ता.वच.११)
सङ्गशुद्धिं प्रदर्शयता भगवता श्री-स्वामि-नारायणेन स्वीयवचनामृतेषु शिक्षापत्र्यां च कः साधुपुरुषः ? कश्चाऽसाधुपुरुषः ? कः सारः ? कश्चाऽसारः ? कीदृशस्य सतः सङ्गो विधेयः ? कीदृशस्य च सङ्गो न कार्यः ? कस्य मुखाद्भगवद्वार्ता श्रव्या ? कस्य मुखान्न श्रव्या ? इत्ययं विवेको बहुधा प्रबोधितोऽस्ति ।
[[११५]]
भक्तिं वा ज्ञानमालम्ब्य स्त्रीद्रव्यरसलोलुभाः ॥ पापे प्रवर्तमानाः स्युः कार्यस्तेषां न सङ्गमः ॥ (शिक्षा.२८)
अस्याऽयमाशयो यत् भक्तेर्वा ज्ञानस्याऽवलम्बनं विधाय स्त्रीद्रव्यरसा- स्वादादिसांसारिकविषयेषु लोलुपास्सन्तो ये पापे प्रवर्तन्ते, तेषां साधुब्रुवाणां समागमः कदापि न कार्यः ।
कृष्णभक्तेः स्वधर्माद्वा पतनं यस्य वाक्यतः ॥ स्यात्तन्मुखान्न वै श्रव्याः कथावार्ताश्च वा प्रभोः ॥ (शिक्षा.२५)
यस्य वचनश्रवणेन भगवतः श्रीकृष्णस्य भक्तेः स्वधर्माऽऽचरणाच्चाऽधःपतनं स्यात्, तस्य मुखात् कदाचनाऽपि भगवत्कथावार्तायाः श्रवणं नैव कार्यम् ।
वचनामृते भगवान् श्री-स्वामि-नारायणो ब्रवीति यत् सङ्गोऽपि भगवद्भक्तस्य पञ्चवर्तमानोपेतस्य ब्रह्मविदः साधोः कर्तव्यः , येन हरिभक्तस्य हृदये परमेश्वरभक्तिबलमतिशयेन वर्धेत इति । (दुर्ग.प्र.वच.२९)
सङ्गमः कथं विधेयः ? इत्येतज्ज्ञापयता भगवता श्री-स्वामि-नारायणेन अभ्यधायि यत्
निश्छद्मतया सतां सङ्गमनं यदि जीवः कुर्यात् तथा भगवत्कथावार्तां मनसि सन्धार्य सञ्चिन्तयेत् , तर्हि मलिनमानससङ्कल्पा विलयं यान्ति । अतः सत्सङ्गस्य प्रतापोऽतिशयेन महानस्ति । सत्सङ्गसमानं साधनमन्यन्न हि किञ्चिदस्ति , यतो हि साधनान्तरैर्या मानससङ्कल्पविकल्पनिवृत्तिर्न भवति , सा निवृत्तिः सत्सङ्गभूरिप्रथितप्रतापात् सिद्ध्यति इति । (दुर्ग.प्र.वच.३०)