०८ भगवदाऽऽश्रयमाहात्म्यम्

शास्त्रेषु भगवद्-आश्रयस्य महिमा भृशम् अगीयत ।
अयम् एव आश्रयः ‘शरणागतिः, प्रपत्तिः’ इत्याभ्यां नामभ्याम् अपि प्रसिद्धोऽस्ति ।
श्रीमद्-रामायणे पौलस्त्यो विभीषणो
यदा भगवतः श्रीरामस्य शरणमागतः,
तदा भगवान् श्रीरामचन्द्रस्तस्मै अभयं ददानो ऽभिदधाति यत्

सकृदेव प्रपन्नाय तवाऽस्मीति च याचते ॥ अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥
(वा.रा.६.१८.३३)

एकवारमेव यः कश्चिज्जीवो मच्-छरणम् उपगम्य प्रार्थयते,

“हे भगवन् ! अद्यप्रभृत्यहं त्वदीयोऽस्मि । ‘मां स्वीकुरुतात्’”

इत्य् एवम्-प्रकारेण याचमानाय
मच्-छरणम् उपागताय भक्तायाऽभयं प्रयच्छामि ।
एतच्च मम जीवन-व्रतम् अस्ति ।
भगवान् श्रीकृष्णोऽपि श्रीमद्-भगवद्गीतायां कथयति यत्

अपि चेत्सुदुराचारो
भजते मामनन्यभाक् ॥

साधुरेव स मन्तव्यः
सम्यग्-व्यवसितो हि सः ॥

(भ.गी.९.३०)

यः कश्चिद् अतितराम् अनाचारी भवति
तथापि यद्य् अनन्यभावेन मां प्रपद्यते,

[[११०]]

तर्हि स तस्मिन्नेव क्षणे सर्वपापेभ्यो विमुक्तः साधुपुरुष एवाऽवबोद्धव्यः,
यतो हि स मत्-प्रपत्तिरूपं दृढं निश्चयं कृतवान् ।

अनेकासु साधनास्वनुष्ठितासु सतीष्वपि मायिकगुणेभ्यो निर्मुच्य नैर्गुण्यमवाप्तुं न शक्यते, परन्तु भगवदाऽऽश्रयस्य प्राबल्येन जीवः सद्यो नैर्गुण्यमाप्नोति । भगवान् श्रीकृष्णो श्रीमद्भगवद्गीतायामाचष्टे यत्

दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ (भ.गी.७.१४)

एषा मदीया दैवी त्रिगुणात्मिका माया
निश्चयेन तरितुं सुदुष्कराऽस्ति,
किन्तु मां य उपाश्रयन्ति,
त इमं मदीय-माया-महा-सागरं सारल्येन तरन्ति ।

सर्वधर्मान् परित्यज्य
मामेकं शरणं व्रज ॥

अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥

(भ.गी.१८.६६)

हे अर्जुन ! सर्वविधान् धर्मान् परित्यज्य
केवलं मामेकं शरणमागच्छ ।
अहं त्वां सर्वकिल्बिषेभ्यो विमुक्तं विधास्यामि ।
शोकं मा कुरु ।

एवंरीत्याऽनन्यभावेन भगवच्-छरण-गमनम् आश्रयणम् इत्युच्यते ।

श्रीपाद्-रामानुजाचार्य इदम् एवाऽऽश्रयणं
शरणागतिः , प्रपत्तिः इत्याभ्यां पदाभ्यां व्यपदिशति ।
भगवता श्री-स्वामि-नारायणेन वचनामृत-ग्रन्थे
सैव शरणागतिः
आश्रयशब्देन’ उक्ता ।

भगवान् श्री-स्वामि-नारायणो दुर्ग-पुरीय-प्रथम-प्रकरणीये त्रयस्-त्रिंशे वचनामृते
आश्रय-स्वरूपं तद्-भेदाँश् च समुपदिष्टवान्,
यस्य च सारो ऽधो-निर्दिष्ट-रीत्या ऽस्ति ।

दुर्गपुरे सत्सदसि सद्गुरुः श्रीमुक्तानन्द-स्वामी
भगवन्तं श्री-स्वामि-नारायणम् अप्राक्षीत् -

हे भगवन् ! भगवत्प्रीत्यै भूरिशः साधनानि शास्त्रेषूक्तानि सन्ति,
किन्तु तत्राऽपि एकं किं वा बलीयः साधनम् अस्ति ?
येनैकेन साधनेनाऽनुष्ठितेन
यथा भगवान् सम्प्रसीदेत्
तथा नैकैः साधनान्तरैः कृतैर् अपि न प्रसीदेत् ?

मुक्तानन्द-मुनेः प्रश्नस्य समाधानम् अभिदधानः श्रीहरिर् न्यगादीत् यत्

हे मुक्तमुने ! भगवत्-प्रसन्नता-प्राप्तये
भगवतोऽतिदृढ आश्रय एव सर्वसाधनेषु बलीयः साधनम् अस्ति ।
किञ्च स आश्रयो ऽतिदृढतरः स्यात् ।
तस्मिन् नाऽऽश्रये लेश-मात्रम् अपि शैथिल्यं वौदासीन्यं न भवेत् ।

स चाऽयं भगवद्-आश्रयस् त्रिविधो भवति ।
मूढभावेन आश्रयः, स्नेहेन आश्रयः, ज्ञानेन आश्रयश्चेति ।

[[१११]]

एतावद् उक्त्वा भगवान् श्रीधर्म-नन्दनो ऽतिकारुण्याद्
आश्रयस्य त्रीन् भेदान् विस्तरेणाऽवेदयत् ।
ते तु दुर्ग-पुरीय-प्रथम-प्रकरणस्य त्रयस्-त्रिंशद्-वचनामृतात् अवगन्तव्याः ।

भगवद्-आश्रयस्य विशेषेण महिमानम् अवबोधयता भगवता
श्रीस्वामि-नारायणेन इदम् अभ्यधायि यत्

यस्य भक्तस्य हृदये एतादृशो दृढ आश्रयः स्यात् ,
स तु न कदाचिद् अपि ज्ञात्वाऽशुभं कृत्यं कुर्यात् ,
किन्तु यदि कदाचिद् अशुभ-देशकालादियोगेन
सोऽयोग्यं कृत्यम् आचरेत्
तथाऽपि स निःश्रेयसाऽध्वनः च्युतो नैव भवति
,
अतो भगवतो दृढाऽऽश्रय-सन्निभो निर्विघ्नो ऽन्यो मार्गो
न कश्चिदप्य् अस्ति माया-सन्तरणाय

इति । (दुर्ग.म.वच.१३)

**प्रत्यक्ष-भगवत्-स्वरूपे मायिकत्वस्य लेशोऽपि नाऽस्ति ।
भगवाँस्तु सर्वात्मना मायिकान् त्रीन् गुणान् अतीतोऽस्ति
इत्येवं भगवतो दृढीयान् निश्चयो यस्य पुंसो हृदये स्यात्
स तु मायामुत्तीर्ण एवाऽवगन्तव्यः

इति । (वृत्ता.वच.५)

यद्यपि भगवद्-भक्ते मायाकार्यं भवेन् नाम
तथाऽपि स स्वेन भजनीयम् उपास्यं प्रत्यक्षप्रमाणं भगवन्तं श्रीवासुदेवं
मायातीतं निर्गुणं जानाति,
अतः स भक्तोऽपि मायातीतो निर्गुण एवाऽवबोद्धव्यः

इति । (वृत्ता.वच.५)

यथा गोपीषु माया-कृत-गुणभाव आसीत्,
परन्तु निर्गुणस्य भगवतः श्रीकृष्णस्य समाश्रयणात्
सर्वा गोप्यो निर्गुणत्वम् आप्नुवन्,
अयि ! भगवत्-सम्बन्धेन पूतना-कंसादयः असुरा अपि
मायात उद्धृताः सन्तो निर्गुणा अभूवन्,
तर्हि का कथा भगवद्-भक्तानाम् ?

भगवतः श्री-स्वामि-नारायणस्य समाश्रय-बलेन
सहस्रशो नरनार्यो निर्गुणं दिव्यं सच्-चिद्-आनन्दमयम् अक्षर-धाम लेभिरे ।
सद्गुरुः श्रीनिष्कुलानन्द-स्वामी हरि-बल-गीतायां
“श्रीहरेर् आश्रयस्य प्राबल्यं कीदृशं भवति ?” इति सम्यङ् न्यरूपयत् ।

भगवद्-आश्रयस्य बलम् आलम्ब्य
साधकः प्रमादी वाऽलसो न स्याद्
इत्य् एतद्-अर्थं
भगवान् श्रीस्वामिनाराणः
सारङ्ग-पुरीये एकादशतमे वचनामृत-तरङ्गे

पुरुषप्रयत्नेन कियत्य् अवाप्तिर् भवति ?
तथा परमेश्वराऽनुग्रहेण कियत्य् उपलब्धिर् भवति ?

इत्यस्मिन् सन्दर्भे यथायथं निरूपणं चकार ।
तत् तु ततोऽवगन्तव्यम् ।