०७ पातिव्रत्यधर्मविवेकः

भगवान् श्री-स्वामि-नारायणो दुर्गपुरीयाऽन्त्यप्रकरणीये षोडशतमे वचनामृते पतिव्रतानारीधर्मस्य विवेकं प्राबोधयत् । यदि पतिव्रतानार्याः सद्मनि केचिदतिथय आयान्ति, तर्हि पूर्णाऽऽदरेण सा तान् सत्करोति, स्वागतमातिथ्यञ्च विदधाति तथा स्वपत्युर्गृहशोभामेधयति ।

अत्र स्वस्वाम्यनुरक्तायाः सतीनार्या विवेकोऽयमस्ति यत्सा सर्वानाद्रियते सत्करोति च, किन्तु स्वीयं सर्वस्वं तु केवलं निजपत्युश्चरणयोरेव समर्पयति ।

उपासनायां शास्त्रसम्मतस्तरतमभावरूपस्तत्त्वविवेकोऽवश्यमस्ति, किन्तु कस्यचनाऽप्यनादरो नाऽस्ति । भगवान् श्री-स्वामि-नारायण आचष्टे यत्

पूर्वं भगवतो नैकेऽवतारा अभूवन् , तेऽपि वन्द्याः पूज्याश्च सन्ति इति ।

(दुर्ग.अं.वच.३८)

[[१०८]]

उपासनन्तु केवलं परब्रह्मपुरुषोत्तमनारायणस्यैव कर्तव्यम्, किन्तु वन्दनपूजनं तु सर्वेषां देवानां कर्तव्यम् । किञ्च केषाञ्चिदपि देवानां निन्दा कदाऽपि न कर्तव्या । भगवान् श्री-स्वामि-नारायण एतद्विषये शिक्षापत्र्यां जगाद यत्

देवतातीर्थविप्राणां साध्वीनाञ्च सतामपि ॥ वेदानाञ्च न कर्तव्या निन्दा श्रव्या न च क्वचित् ॥ दृष्ट्वा शिवालयादीनि देवागाराणि वर्त्मनि ॥ प्रणम्य तानि तद्देवदर्शनं कार्यमादरात् ॥ विष्णुः शिवो गणपतिः पार्वती च दिवाकरः ॥ एताः पूज्यतया मान्या देवताः पञ्च मामकैः ॥

(शिक्षा.२१,२३,८४)

सनातनवैदिकहिन्दुधर्मस्येमाः पञ्च धाराः सन्ति । भगवान् श्री-स्वामि-नारायण आसां पञ्चानां विष्णुशिवगणपतिपार्वतीदिवाकरोपासनधाराणामेकस्मिन् श्लोके समन्वयं व्यदधात् ।

न केवलमेतावदेव, किन्तु हिन्दुधर्मे सामञ्जस्यं संवादित्वं च संरक्षितं स्यादित्येतदर्थं भगवान् श्री-स्वामि-नारायणः स्वनिर्मापितेषु देवालयेषु पञ्चायतनदेवानां वेदोक्तविधिना सादरभक्तिश्रद्धं प्रतिष्ठां कृतवान् । अद्याऽपि च नियततया तेषां देवानां यथाविधि पूजनसेवनादिकं भवति । शिक्षापत्र्यां भगवता श्री-स्वामि-नारायणेन आदिष्टं यत्

एकादशीनां सर्वासां कर्तव्यं व्रतमादरात् ॥ कृष्णजन्मदिनानां च शिवरात्रेश्च सोत्सवम् ॥ भाद्रशुक्लचतुर्थ्याञ्च कार्यं विघ्नेशपूजनम् ॥ ईषकृष्णचतुर्दश्यां कार्याऽर्चा च हनूमतः ॥ (शिक्षा.७९,१२७)

भगवान् श्री-स्वामि-नारायणो वैष्णवपरम्पराप्रवर्तक आसीत्तथापि स शिक्षापत्र्यां लिलेख यत्

त्रिपुण्ड्ररुद्राक्षधृतिर्येषां स्यात्स्वकुलागता ॥

तैस्तु विप्रादिभिः क्वापि न त्याज्या सा मदाश्रितैः ॥ (शिक्षा.४६) प्रायेण बहूनां धर्मगुरूणामयमाग्रहो भवति यदस्मदाश्रिता अस्मदीयमेव तिलकमालादिकं धरेयुः, किन्तु भगवतः श्री-स्वामि-नारायणस्य वार्ता विशिष्टैवाऽस्ति । श्री-स्वामि-नारायणीयदर्शने संवादितायाः सुरभिगन्धोऽनुभूयते । भगवतः

[[१०९]]

श्री-स्वामि-नारायणस्य धार्मिकी भावना समुद्र इवोदारा गभीरा चाऽस्ति ।

भगवतः श्री-स्वामि-नारायणस्याऽपरमप्येकं सामञ्जस्यवैशिष्ट्यं परिलक्षणीयम् अस्ति । प्राचीनकालादेव एको विवादः प्रचलति यत्कः परमदेवः ? शिव उत नारायणः ? विषयेऽस्मिन् शैववैष्णवपरम्परासु वादा विवादाश्च प्रचलन्त एव सन्ति ।

एतेषां शास्त्रार्थानामौचित्याऽनौचित्यादिविषये तत्तत्परम्पराऽवलम्बिनो विद्वांसः प्रमाणमित्येव योग्यतरं प्रतिभाति, परन्तु विषयेऽस्मिन् भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यां मननीयं तथ्यमाविष्करोति यत्

ऐकात्म्यमेव विज्ञेयं नारायणमहेशयोः ॥ उभयोर्ब्रह्मरूपेण वेदेषु प्रतिपादनात् ॥ (शिक्षा.४७)

शिवनारायणयोरुभयोस्तादात्म्यमेव विज्ञेयम्, यतो हि वेदेषु महेशनारायणयोः ब्रह्मत्वेन प्रतिपादनं विहितमस्ति । हरिहरयोः प्रगाढस्नेहानुबन्धो विद्यते इत्येव तयोस्तादात्म्यस्य हार्दमस्ति । भगवतः श्री-स्वामि-नारायणस्येयं समन्वयकारिणी दृष्टिर्वन्दनीया वर्तते । श्रीमद्भागवतरामायणादिसद्ग्रन्थेष्वपीदृशः समन्वयः समादृतोऽस्ति ।