०६ पतिव्रताभावेन भक्तिः

वेदोपनिषद्ब्रह्मसूत्रादिसच्छास्त्रेषु सर्वकारणकारणस्य परब्रह्मपुरुषोत्तम- नारायणस्यैव ध्यानोपासनयोः प्रबोधो व्यधायि । भगवान् श्री-स्वामि-नारायणोऽपि अक्षरात्परतः परः इत्युक्तप्रकारेणाऽव्यक्तरूपप्रकृतेः परं यत्पुरुषाऽक्षरादिकं ततोऽपि परस्य परब्रह्मपुरुषोत्तमनारायणस्यैवोपासनां प्रावर्तयत् ।

वचनामृते भगवान् श्री-स्वामि-नारायणो निगदति यत् श्रीमद्रामानुजाचार्या यस्य क्षराऽक्षरयोः परस्य पुरुषोत्तमनारायणस्य निरूपणं चक्रुः , तस्मिन् भगवति पुरुषोत्तमेऽस्मदीयोपासना सन्तिष्ठते इति । (लौह.वच.१४)

भगवान् श्री-स्वामि-नारायणो ब्रवीति यत् पूर्वोक्तोऽयं प्रत्यक्षः पुरुषोत्तमो भगवान् , स त्वक्षरादीनां सर्वेषां नियन्ता , ईश्वराणामीश्वरः , सर्वकारण- कारणम् , सर्वोपरितया वर्तमानः , सर्वाऽवताराणामवतारी चाऽस्ति । युष्माभिश्च सर्वैरेकान्तिकभावेनोपास्यो वर्तते (दुर्ग.अं.वच.३८) इति ।

इत्थं शुभाऽऽश्रयस्य सर्वकारणकारणस्य भगवतः पुरुषोत्तमनारायणस्य अनन्यभावेन ध्यानोपासनम्, भजनञ्च एकान्तिकभक्तस्य परमो धर्मः । तदेव भगवदनुग्रहप्राप्तेरात्यन्तिककल्याणस्य च साधनमस्ति ।

भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे विषयमिमं पतिव्रतायाः स्त्रियो दृष्टान्तमाध्यमेनाऽवबोधयति । तद्यथा

केवलं भगवत्स्वरूपे पतिव्रतास्त्रीसदृशी प्रीतिर्भक्तिरुच्यते इति । (दुर्ग.प्र.वच.२६) यथा पतिव्रतायाः स्त्रियो मनोवृत्तिर्निजस्वामित इतरान् दृष्ट्वा चञ्चला न भवति । सा तु स्वस्य पत्यावेव प्रीतिमति भवति तथैव भगवद्भक्तोऽपि स्वस्वामिनि भगवत्येव प्रीतिमान् भवेत् , नाऽन्यत्र इति ।

(लौह.वच.२)

यथा भगवत्याः सीताया भगवति रामचन्द्रे नित्यनिर्दोषभावपरिपूर्णा अनन्यनिष्ठाऽऽसीत्तथैव भगवदेकान्तिकभक्तैः परब्रह्मपुरुषोत्तमनारायणस्य

[[१०७]]

पृथिव्यामाविर्भूतेषु अवतारेषु पतिव्रतास्त्रीतुल्या अनन्यनिष्ठा कर्तव्या । यदि भुवि भगवदवताराः साक्षान्न भवेयुस्तर्हि तस्य प्रतिमायाः ध्यानोपासनं विधेयम् , किन्त्वन्यदेवतानां ध्यानोपासनं न कर्तव्यम् । तथा करणेन पातिव्रत्यधर्मस्य भङ्गो भवति । यदि कश्चिदेवं करोति चेत्तस्य भक्तिः गणिकासदृशी भवति । अन्यच्च सम्प्राप्तसिद्धाऽवस्थस्य वा समाधिनिष्ठस्य अपि साधोर्ध्यानं न विधेयम् इति । (दुर्ग.म.वच.१९)

यथा चिरजीवी हनूमान् भगवतो रघुकुलशिरोमणेः श्रीरामस्याऽनन्यभक्तो वरीवर्ति । श्रीरामाऽवतारोत्तरं कतिचनाऽन्येऽपि भगवदवतारा बभूवुः, किन्तु हनूमतः पतिव्रतोपमा दृढभक्तिर्भगवति श्रीरामे एव विद्यतेतमाम् । एतादृशी परानुरक्तिर्यस्य भगवद्भक्तस्य प्रत्यक्षपुरुषोत्तमनारायणेऽस्ति , तस्य भक्तिः पतिव्रतोपमा इति कथ्यते इति । (दुर्ग.अं.वच.१६)

यस्मिन्काले येषां भक्तानां येषु येष्ववतारस्वरूपेषु दृढनिष्ठा सञ्जाता, तत्तद्भक्तास्तत्तद्भगवत्स्वरूपेष्वीदृशीमेव निष्ठां दधुः । अत्र सूरदासः, मीराबाई, तुलसीदासश्चेत्यादयो भगवद्भक्ता उदाहरणरूपाः सन्ति ।

उपासनायां पुरुषोत्तमनारायणेन साकमक्षरब्रह्मादिकस्य संयोजनेन पातिव्रत्यधर्मस्य प्रच्युतिर्जायते । अक्षरब्रह्माऽक्षरादिमुक्ताश्च यावदपि महान्तो भवन्तु कामम्, तथाऽपि ते स्वामिसेवकभावेनैव पुरुषोत्तमनारायणं समुपासते ।