आत्यन्तिक-कल्याण-मार्गे ध्यानोपासनयोः सर्वाधिकं महत्त्वम् अस्ति ।
अत्र ध्यानं नाम परब्रह्म-पुरुषोत्तम-नारायणस्य श्रीविग्रहस्य ध्यानम् ।
तत् त्रिविधम् अस्ति ।
साऽङ्ग-ध्यानम्, सपार्षद-ध्यानम्, स-लील-ध्यानं चेति ।
साङ्गध्यानं नाम भगवतः श्रीविग्रहस्याऽऽनखशिखं ध्यानम् ।
सपार्षदध्यानं नाम स्वपरिचारकैर् भक्तैः साकं
सदसि विराजमानस्य भगवतो ध्यानम् ।
सलील-ध्यानं नाम विशेषाऽनुग्रहेण भुव्य् अवतीर्य विविध-लीला-चरित्राणि कुर्वतो भगवतो ध्यानम् ।
एतेषु त्रिविधेष्व् अपि ध्यानेषु साङ्ग-ध्यानं मुख्यम्,
अन्ये द्वे मुख्य-ध्यान-साधने उपकारके ।
सपार्षद-ध्याने सलील-ध्याने च मुख्यस् तु भगवानेव,
न तत्परिचारकाः,
न तु लीलासाधकानि परिकराणि ।
उपासनाशब्दो न मात्रं पूजनम् अर्चनं बोधयति,
अपि तु माहात्म्य-ज्ञान-पूर्वकं परम-तत्त्वस्य वरत्वेन वरणीयताम् अपि बोधयति ।
कुत्रचिद् उभयोर् ध्यानोपासन-शब्दयोः व्यतिरेकेणाऽपि प्रयोगो दृश्यते ।
अत एवाऽत्र ध्येय-पदेन उपास्यस्याऽपि ग्रहणं कर्तव्यम् ।
उदेत्यत्राऽयं प्रश्नो यद्भक्तैरात्यन्तिककल्याणार्थं कस्या देवताया ध्यानोपासनं विधेयम् ? इति । प्रश्नमिमं समाधातुमथर्वशीर्षोपनिषदि कश्च ध्येयः ? (अ.शी.उ.१) इत्यारभ्य कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः शम्भुराकाशमध्ये (अ.शी.उ.२) इत्येतावत्पर्यन्ताभिः श्रुतिभिः सर्वकारणकारणस्य सर्वेश्वरस्य अत एव सर्वनियन्तुः ध्यानोपासनं विहितम् ।
अस्मिन् श्रुतिवाक्ये विद्यमानः शम्भुशब्दो योगशक्त्या नारायणपर एव न त्वीशानपरः । अत सम्पूर्णेयमुपनिषत् चराचरजगत्कारणभूतसर्वैश्वर्यसम्पन्न- सर्वनियन्तृसर्वेश्वरनारायणपर एव, नेशानपर इति सम्यक्प्रतिपादितं श्रीरामानुजाचार्यवयर्णेा वेदार्थसङ्ग्रहे तथा च आचार्यप्रवररघुवीरजीमहाराजविरचिते शतानन्दस्वामिकृत-
[[१०२]]
शिक्षापत्र्यर्थदीपिकाटीकाया अष्टोत्तरशततमश्लोकस्य भाष्ये । विस्तरस्तु तत्रैव द्रष्टव्यः । श्वेताश्वतरोपनिषद्यपि वेदाहमेतम् इत्यादिभिर्मन्त्रैः नारायणपारम्यमेव समुद्धोषितम् ।
अनेन सिद्ध्यति यत् परब्रह्मपुरुषोत्तमनारायण एव ध्येयः । न च ब्रह्मेशादयः, न चाऽक्षरब्रह्म, न चाऽक्षररूपाः नित्याः, न च ब्रह्मभावापन्नाः मुक्ताः, न वा महापुरुषादयश्च । प्रोक्तञ्च शिक्षापत्र्यां भगवता श्री-स्वामि-नारायणेन
कृष्णस्तदवताराश्च ध्येयास्तत्प्रतिमाऽपि च ॥
न तु जीवा नृदेवाद्या भक्ता ब्रह्मविदोऽपि च ॥ (शिक्षा.११५)
विष्णुपुराणे निगदितं यत् शुभाश्रयो ध्येयः इति । यः सकलशुभानां मङ्गलानामाश्रयः, तस्य ध्यानोपासनं कर्तव्यम्, अशुभाऽऽश्रयस्य ध्यानोपासनं न विधेयम् । कस्तावच्छुभाऽऽश्रयः ? तर्हि भावनात्रयरहितः । कास्तिस्रो भावनाः ? इति प्रश्नस्य समाधानं विष्णुपुराणे स्पष्टतया प्रपञ्चितम् । तद्यथा
त्रिविधा भावना भूप विश्वमेतन्निबोधताम् ॥
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ (वि.पु.६.७.४८)
हे राजन् ! समस्तजीवेश्वरादिचेतनसमुदायः कर्मभावनाब्रह्मभावनोभय- भावनाभिरुपनिबद्धो वर्तते ।
कर्मभावना नाम शुभाऽशुभकर्मणि निमग्नत्वम् । कर्मण्येव निमग्नाः कर्माऽधीनाः कीटपतङ्गदनुजमनुजादिभ्य आरभ्येन्द्रादिदेवतापर्यन्ता जीवाः कर्मभावनया युक्ताः सन्ति । अत एते न ध्यानोपासनयोग्याः, यतो हि ये स्वयं कर्माऽधीनास्ते कथङ्कारमुपासकं कर्मपाशान्मोचयेयुः ?
उभयभावना नाम कर्मणि निमग्नत्वे सति परब्रह्मोपासकत्वम् । वैराजनारायणादय ईश्वराः कर्मब्रह्मोभयभावनायुक्ताः सन्ति, यतो हि ते परब्रह्म- विहितनियमाऽनुसारं ब्रह्माण्डानामुत्पत्त्यादिकं प्रकुर्वन्तः सन्तः परब्रह्मोपासनमपि कुर्वन्ति । अतस्तेऽपि न सर्वश्रेष्ठतया ध्यानोपासनाऽर्हाः ।
ब्रह्मभावना नाम परब्रह्मणो ध्यानोपासनम् । अक्षरब्रह्माऽक्षरमुक्तमहापुरुषादयो ब्रह्मभावनायुक्ताः सन्ति । तेऽपि न ध्यानोपासनयोग्याः । अतः सर्वेश्वरस्य सर्वकारणकारणस्य परब्रह्मण एव ध्यानोपासनं श्रुतिस्मृत्यादिप्रमाणप्रतिपादितं न्यायसङ्गतमस्ति ।
कथयति भगवती श्रुतिः नारायणः परं ब्रह्म आत्मा नारायणः परः (महा.ना.उ.११.४) इति । सिद्धान्तयति भगवान् श्रीवेदव्यासो महाभारतादिषु
[[१०३]]
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ (महा.द.१८६.११), (लिङ्ग.पु.७.११/१२), (नृसिंह पु.१७.३३)
समुद्रमन्थनप्राप्तसुधा इव सर्वशास्त्राणां सम्यगालोडनेन ‘भगवान् श्रीहरिः नारायण एव ध्यानोपासनाऽर्हः ।’ इति पीयूषं सम्प्राप्तम् ।
केचनाऽऽधुनिकाः स्वमतिकल्पितामक्षरपुरुषोत्तमोपासनां सिसाधयिषवः परब्रह्मणा साकमक्षरब्रह्मणोऽपि ध्यानोपासनं कर्तव्यमिति वदन्ति, तन्न साधु, श्रुतिस्मृत्यादिशास्त्रविरुद्धत्वात् ।
तथा हि भगवता बादरायणेन ब्रह्मसूत्रेषु, भगवता श्रीस्वामिनारायेणन वचनामृतग्रन्थे तथा श्रीमद्रामानुजाचार्यवर्येण, भगवतः श्री-स्वामि-नारायणस्य समकालीनैः सम्प्रदायमर्मज्ञैर्वेदवेदान्तपारगैः सद्गुरुश्रीमुक्तानन्दस्वामि- श्रीगोपालानन्दस्वामिश्रीनित्यानन्दस्वामिप्रभृतिभिर्महापुरुषैः स्वरचितभाष्येषु परब्रह्मण एवोपासना प्रतिपादिता, नाऽक्षरब्रह्मादीनाम् ।
अथातो ब्रह्मजिज्ञासा इति सूत्रस्य व्याख्यानाऽवसरे प्रोक्तं पूर्वाचार्यैर्यत् अत्र ब्रह्मशब्देन स्वरूपतः स्वभावतश्च निरतिशयबृहत् निरस्तनिखिल- दोषाऽनवधिकातिशयाऽसंख्येयकल्याणगुणगणं परं ब्रह्मैवाऽभिधीयते । अतः तस्यैव जिज्ञासा अर्थादुपासना कर्तव्या, न परब्रह्मणोऽवरतत्त्वानामक्षरादीनाम् ।
वेदान्ते ‘वेदनम्, ज्ञानम्, उपासनम्, ध्यानम्’ चेत्यादयः शब्दाः पर्यायवाचकाः सन्ति, यतो ह्येकस्मिन् विषये तेषां व्यतिरेकेण प्रयोगात् ।
मुण्डकोपनिषदि परविद्यात्मकब्रह्मविद्याप्रकरणे महर्षिमङ्गिरसं प्रति विधिवत् उपसन्नेन महाशालेन शौनकेन पृष्टं कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति (मु.उ.१.१.३) इति ।
पराविद्याऽपरनामधेयाया ब्रह्मविद्यायाः छान्दोग्योपनिषत्प्रतिपादितसद्विद्यायाश्च एकविषयकत्वं वर्तते । उभयत्राऽप्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानत्वात् । अस्य प्रश्नस्य समाधानं विदधता महर्षिणाऽङ्गिरसा परविद्यात्मिकब्रह्मविद्या समुपदिष्टा ।
येनाऽक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् (मु.उ.१.२.१३) इति । शाण्डिल्यसूत्रभाष्ये अस्या ब्रह्मविद्याया अर्थं वितन्वता सद्गुरुवर्येण श्रीनित्यानन्दस्वामिपादेन प्रोक्तम् ‘ब्रह्मणो विद्या ब्रह्मविद्या भगवदुपासनेत्यर्थः । ब्रह्मशब्देन स्वभावतो निरस्ताऽखिलदोषोऽनवधिकातिशयाऽसंख्येयकल्याणगुणगणः
[[१०४]]
श्रीपुरुषोत्तमोऽभिधीयते ।’ इति । (शाण्ड.सू.भा.१)
अदृश्यत्वादिगुणाऽधिकरणे (ब्र.सू.१.२.५) मुण्डकोपनिषत्पठितानि श्रुतिवाक्यान्यवलम्ब्य श्रीमद्रामानुजाचार्यवर्येण विस्तरशः प्रतिपादितं यत् ‘अत्र अक्षरं नाम परं ब्रह्म’ इति । अस्मिन्नैवाऽधिकरणे सद्गुरुणा श्रीमुक्तानन्दस्वामिवर्येण अथ परा यया तदक्षरमधिगम्यते (मु.उ.१.१.५) इति विषयवाक्येऽक्षरशब्देन निर्दिष्टमक्षरब्रह्म वा परब्रह्मसंज्ञो नारायणो वेति सन्देहे सति अक्षरब्रह्मेति पूर्वपक्षे प्राप्ते बहुप्रमाणपुरस्सरम् अक्षरब्रह्मोपासकानां कनीयस्त्वं परब्रह्मोपासकानां श्रेष्ठत्वञ्च प्रतिपादितम् । अतः परब्रह्मपुरुषोत्तमनारायणस्यैव उपास्यत्वं नाऽक्षरब्रह्मादिकस्य ।
अस्मिन्नेवाऽधिकरणे सद्गुरुगोपालानन्दस्वामी ‘अथ परा यया तदक्षरम् अधिगम्यते (मु.उ.१.१.५) अस्मिन्नाथर्वणप्रकरणे योऽदृश्यत्वादिगुणकः श्रूयते सोऽक्षरशब्दाऽभिधेयः परमात्मैव न प्रधानपुरुषादिः ।’ इति प्रतिपादयति ।
तदक्षरमधिगम्यते (मु.उ.१.१.५), यद्भूतयोनिं परिपश्यन्ति धीराः (मु.उ.१.१.६) इत्यादिविषयवाक्यान्यवलम्ब्य प्रतिपादयति सद्गुरुश्रीमुक्तानन्दस्वामी यदुपास्यतया प्राप्यं ज्ञेयं दर्शनीयञ्च सर्वकारणं परब्रह्मैव, नाऽक्षरब्रह्मादिकमिति ।
मुण्डकोपनिषदि प्रबोधिता परा विद्या एकविद्याविज्ञानेन सर्वविद्याविज्ञानाय प्रवृत्ता । अस्य समाधानं तु सद्विद्याप्रकरणन्यायेन केवलपरब्रह्मविद्याविज्ञानेन सर्वासां विद्यानां विज्ञानं भवतीत्येव साधु, नाऽक्षरब्रह्मपरब्रह्मोभयविद्याविज्ञानेन ।
परस्य ब्रह्मण एवोपासनाप्रवर्तनाय प्रवृत्तायां परविद्यायां मुण्डकोपनिषदि पठितेषु अक्षरात् परतः परः (मु.उ.२.१.१) इति श्रुतिवाक्यं विहायाऽन्येषु सर्वेषु श्रुतिवाक्येष्वक्षरशब्दस्य परब्रह्मपुरुषोत्तमनारायण एवाऽर्थः पूर्वाचार्यैः स्वीकृतः ।
अक्षरात् परतः पर इत्यत्र तु अक्षरशब्दः पूर्वाचार्यैः अव्याकृतपरो वा अव्यक्तपरो व्याख्यातोऽस्ति । अव्याकृतं नाम प्रकृतेः साऽवस्था यत्र चेतनाऽचेतनानि अविभक्तनामरूपत्वेन लीनानि सन्ति । एवंरूपादक्षरात् परः यः पुरुषः ततोऽपि परः परब्रह्मपुरुषोत्तमनारायणो वर्तते । अव्यक्ताख्यप्रकृतिपुरुषावेव शास्त्रेषु प्रधानपुरुषाविति नाम्नाऽपि प्रसिद्धौ । अव्यक्तस्य स्वरूपतोऽविनाशित्वात् तत्रोपचारेणाऽक्षरशब्दप्रयोगः कृतः ।
अमुमेवाऽर्थं विशदयन्ती भगवती श्रुतिराह महानव्यक्ते लीयते , अव्यक्तमक्षरे लीयते , अक्षरं तमसि लीयते । तमः परे देवे एकीभवति । (सु.उ.२) इति ।
[[१०५]]
उपक्रमोपसंहारानुसारं मुण्डकोपनिषदि श्रूयमाणानां श्रुतिवाक्यानामयमेव सारांशो यद्धस्तिपदे सर्वपदं समागतमिति न्यायेन एकस्यैव परब्रह्मण उपासनासिद्धौ सर्वा उपासनाः सिद्ध्यन्ति । परब्रह्मपुरुषोत्तमनारायणस्य उपासकानां कृते नाऽन्येषां केषाञ्चिदप्यक्षरादीनामुपासनाया आवश्यकताऽस्ति ।
भगवद्ध्यानोपासनयोर्माहात्म्यं प्रबोधयता भगवता श्री-स्वामि-नारायणेन प्रोक्तं वचनामृतग्रन्थे यत् अस्माभिः सर्वशास्त्राणामभ्यासो कृतस्तथा च पृथिव्यां विचरणसमये गोपालदासजीसदृशा बहवः सिद्धा दृष्टास्तेन यत्सिद्धान्तितम् अस्ति तत्कथ्यते ।
वयन्त्विदं जानीमो यद्भगवन्मूर्तेः ध्यानोपासनं विना आत्मदर्शनं ब्रह्मदर्शनं च नैव भवति । भगवतो ध्यानोपासनेनैव आत्मदर्शनं ब्रह्मदर्शनं भवति । यथा शतवर्षपर्यन्तं जिह्वया आकाशाऽवलेढने कृते सत्यपि क्षाराम्लादिस्वादस्याऽनुभूतिर्नैव भवति तथैव भगवन्मूर्तेः ध्यानोपासनं विना आत्मनः ब्रह्मणश्च दर्शनं नैव भवति इति । (दुर्ग.अं.वच.३६)
एवमत्रोपासनाप्रकरणे भगवता बादरायणेन श्रीमद्रामानुजाचार्यसद्गुरु- श्रीमुक्तानन्दस्वामिसद्गुरुश्रीगोपालानन्दस्वामिप्रभृतिभिश्च परब्रह्मण एव ध्यानोपासनार्हत्वमिति स्पष्टतया प्रतिपादिते सत्यपि केचनाऽधुनिकाः यत्र तत्र सर्वत्र श्रुतिवाक्येषु विद्यमानाऽक्षरब्रह्मादिशब्दानामक्षरब्रह्मपरब्रह्मेत्युभयपरत्वं गृहीत्वा पूर्वाचार्यसंसेवितराजमार्गं परित्यज्याऽक्षरपुरुषोत्तमोपासनरूपं श्रुतिस्मृतिविरुद्धं स्वमतिकल्पितं सङ्कीर्णं मार्गमनुसर्तुं हठात्कटिबद्धाः सन्ति ।
भगवता श्री-स्वामि-नारायणेन स्वमुखोच्चारिते वचनामृतग्रन्थे अक्षरपुरुषोत्तमयोरुपासना कर्तव्या इति कुत्राऽपि नैव प्रोक्तम् ।
अत एतादृशी उपासना नाऽस्ति वचनामृतग्रन्थसम्मता, नाऽस्ति पूर्वाचार्यसम्मता, न चाऽस्ति शास्त्रसम्मता । तथाऽपि तत्स्थापनाय क्रियमाणः भूरिप्रयासः नवनीतप्राप्तये वारिविलोडनमिव निरर्थको प्रतिभाति ।
उपासनायां भगवता पुरुषोत्तमनारायणेन साकमक्षरब्रह्मणोऽपि ग्रहणेन भगवता श्री-स्वामि-नारायणेन प्रोक्तायाः श्रुतिस्मृतिशास्त्रप्रसिद्धाया एकान्तिकभक्त्याः भङ्गो भवति । एवंविधमुभयोरुपासनं न पतिव्रताधर्मरूपभक्त्यनुगुणं भवेत् । अतः केवलं परब्रह्मपुरुषोत्तमनारायण एव वरणीयः, न त्वक्षरब्रह्मादिकम् । वचनामृतादिसर्वशास्त्राणामिदमेव हार्दं प्रतिभाति । अत एव भगवता बादरायणेन
[[१०६]]
सम्यगुक्तं यत् ध्येयो नारायणो हरिः इति ।
विशेषविज्ञप्तिः- ब्रह्माऽक्षरादिशब्दा मुख्यवृत्त्या परब्रह्मपुरुषोत्तमनारायणमेव बोधयन्तीति विशेषतः प्रतिपादितं परिशिष्टे ‘ब्रह्माऽक्षरादिशब्दानां मुख्यार्थविचारप्रकरणे’ ।