०४ उपासनाविषये पोतसमुद्रादीनामुदाहरणानि

उपासनायाः सविशेषं महिमानं बोधयन्
भगवान् श्री-स्वामि-नारायण आह

केचित् सिद्धदशां प्राप्ताः ,
केचित् सार्वज्ञ्यं प्राप्ताः ,
केचिद् इन्द्रादिदेवता-पदं प्राप्ता भवन्तीत्य्-आदि-रीत्या
ऽनन्तविधां महत्ताम् आप्नुवन्ति
तथा परमपदञ्च लभन्ते ।
ते सर्वेऽपि भगवद्-उपासनेनैव लभन्ते ,
किन्तु विना भगवदुपासनां
न किञ्चिद् अपि सिद्ध्यति

इति । (दुर्ग.प्र.वच.५६)

अतोऽन्यसाधन-बलं त्यक्त्वैक-मात्रं भगवद्-उपासनाबलं धार्यम् ।
एवं-विधो यो भक्तोऽस्ति,
स तु सम्यक् जानाति यत्

ब्रह्महत्यादि-महापातक-कर्ताऽपि स्वदेहाऽवसानसमये
‘स्वामिनारायणः’ इति षडक्षर-नाम-स्मरण-मात्राद् एव
सर्वपापेभ्यो मुक्त्वा
ब्रह्म-धामनि निवासम् आप्नोति ,
तर्हि यस् तावद् भगवद्-आश्रितो भवति ,
स भगवद्-धाम प्राप्नुयाद् इत्यत्र का वा संशीतिः ?
एतादृश-माहात्म्यम् अवगन्तुं
भगवद्-भक्तेन सत्-सङ्गम-द्वारा
भगवद्-उपासना-बलं प्रतिदिनं वर्धनीयम्

इति । (दुर्ग.प्र.वच.५६)

यदि नदी तरणीया, तर्हि तरणकुशलस्तां नदीं तरति ,
परंतु यस्तरणं न जानाति , स तु कूले एव स्थितो भवति ।
किन्तु यदि समुद्रस् तरणीयस्
तर्हि सन्तरण-ज्ञा ऽसन्तरण-ज्ञोभयेषां जनानां कृते
महापोतस्याऽऽवश्यकता भवति ।
तथैवाऽऽत्म-निष्ठः शैत्यातप-क्षुधा-तृष्णा-मानाऽपमान-सुख-दुःखाऽऽत्मिकां नदीं तर्तुं शक्नोति ,
किन्तु मृत्यु-समयः समुद्र-सन्निभोऽस्ति ,
तत्र तु आत्म-निष्ठस्य वा ऽनात्मनिष्ठस्य इत्य्-उभयस्य कृते
भगवद्-उपासना-रूपः पोतो नितराम् अपेक्ष्यत एव ।
अन्तकाले त्व्-आत्मनिष्ठा अकिञ्चित्-कर्येवाऽस्ति ।
तदर्थं भगवद्-उपासनं सुदृढं विधेयम्

इति । (दुर्ग.प्र.वच.६१)

वचनामृते भगवान् श्री-स्वामि-नारायण उपासना-मर्म प्राञ्जलतया संवेदयन्न् आह
भगवद्-भजनं विदधतो जीवस्य दृष्टिर्यथा यथा सूक्ष्मा भवति,
तथा तथा तेन परमेश्वरस्य परत्वं विज्ञायते ।
किञ्च भगवन्-माहात्म्यम् अपि उत्तरोत्तरम् आधिक्येन अवगम्यते ।

इमां वार्तां सारल्येनाऽवगमयितुं
भगवान् श्री-स्वामि-नारायणः समुद्राऽऽकाश-महा-तेजसां दृष्टान्तैर् निबोधयति यत्

[[१००]]

यथा वारिधेः सलिलं पिपीलिकात आरभ्य चटकादयः पिबन्ति,
एवञ्च मानव-पशु-घोटक-गजाः पिबन्ति,
तथा च मत्स्य-महा-मत्स्य-मकराद्या महत्तमा जल-चर-जीवा
यथा-शरीरम् उदधि-जलं सेवमाना
उत्तरोत्तरं वर्धमान-शरीरा बल-वन्तश् च भवन्ति ,
किन्तु वरुणालयो लेशमात्रम् अपि न्यूनो न भवति ।
ते सर्वेऽपि जन्तवः स्वस्व-शरीर-शक्त्य्-अनुसारेण
अम्बु-धेर् अगाधत्वम् अतल-स्पर्शित्वम् अपारत्वञ्च जानन्ति ।
तथोपासका भक्तजना अप्युपासना-ज्ञान-बलाऽनुसारेण
श्रीहरेर् उत्तरोत्तरं परत्वं महत्त्वञ्च जानन्ति ।

यथा नभसि मशकाः , चटकाः , श्येनाः , गृध्राः , अनलपक्षिणः , गरुडा अप्युड्डीयन्ते
तथाऽपि नभस्तु पक्षिभ्योऽपारम् अपारम् एव सन्तिष्ठते ।
येषां पक्षेषु प्रचुरं बलं वर्तते , ते गगनस्याऽपारप्रमाणेन महिमानं विदन्ति , समवगच्छन्ति च स्वीयं न्यौन्यं गगनसकाशात्

इति । (सारंग.वच.१७)

न्यूनाऽधिकोपास्तिमतां भक्तानां स्थितिं स्पष्टयन्
भगवान् श्री-स्वामि-नारायणः प्रवक्ति यत्

मरीच्य्-आदि-प्रजापति-समा अल्पोपासनावन्तो भक्ता मशक-सदृशा वर्तन्ते ।
ततोऽधिकोपासनावन्तो ब्रह्मादि-समा भक्ताश् चटक-सदृशाः सन्ति ।
ततोऽधिकोपासनावन्तो वैराज-पुरुषादि-समा भक्ताः श्येनसदृशा वर्तन्ते ।
ततोऽधिकोपासनावन्तः प्रधान-पुरुष-सन्निभा भक्ता गृध्र-तुल्याः सन्ति ।
ततोऽधिकोपासनावन्तो मूल-प्रकृति-पुरुष-सन्निभा भक्ता अनल-पक्षि-समा वर्तन्ते ।
ततोऽधिकोपासनावन्त अक्षर-धामस्था अक्षर-मुक्त-समा भक्तास् तु गरुडतुल्याः सन्ति

इति ।

ते सर्वे भक्ता भगवद्-उपासनया यथा यथा सामर्थ्याऽऽधिक्यं प्रापुस्
तथा तथा भगवन्-माहात्म्यम् अधिकाऽधिकम् एवाऽवागच्छन् ।
अपि च यथा यथा भक्ताः सामर्थ्यम् अवापुस्
तथा तथा तेषां स्वामि-सेवक-भावो ऽप्य् आधिक्येन सुदृढः समजायत

इति । (सारंग.वच.१७)

भगवान् श्री-स्वामि-नारायणस् तेजो-दृष्टान्तेनोपासन-मर्म बोधयन्न् आह

यदा भगवन्तं भजमानो जीव-रूप आसीत् ,
तदा तस्मिन् खद्योतवत् प्रकाश आसीत् ।
ततो यथा यथा भगवद्भजनं कुर्वतो भक्तस्य अज्ञानाऽन्धकार-रूपम् अविद्यात्मकाऽऽवरणं विलयं गतं
तथा तथा सः प्रदीप-सदृशो जातः ।
तद्-अनन्तरं दीप-शिखा-सदृशो जातः ,
ततः सोऽग्नि-ज्वाला-सदृश-प्रकाशवान् जातः ,
तदनन्तरं स दावानल-सदृशो जातः ,
ततः स विद्युत्-तुल्य-प्रकाशवान् जातः ,
तदनन्तरं सः चन्द्र-सदृशः प्रकाशवान् जातः ,
ततः सोऽर्क-तुल्य-प्रकाशवान् जातः ,
तदनन्तरं सः प्रालेयाऽग्निसदृशो जातः ,
[[१०१]]
ततश् चाऽन्ते स महत्तेजो-रूपाऽक्षर-ब्रह्म-सदृशस् तेजस्वी जातः ।

इत्थं भगवद्-भजनं कुर्वाणस्य प्रकाशोऽपि वृद्धिं गतः ,
सामर्थ्यं सुखञ्च वृद्धिं गतम्

इति । (सारंग.वच.१७)

उपासना-मार्ग-विषये एतावद्-विशद-विवेचनम् अन्यत्र विरलतयैव लभ्येत ।

अस्त्य् अत्रेदम् एकं हार्दं
यत् नैषा तर्केण मतिरापनेया (कठ.उ.१.२.९)
इति काठकीय-श्रुति-न्यायेनैतादृश्य् उत्तमा स्थितिर्
न शुष्क-वादविवादेनाऽपितु भगवद्-भजनेन, भगवत्-कृपया, सद्-गुर्व्-अनुग्रहेण च प्राप्यते ।