विभिन्नेषु भारतीयसम्प्रदायेषु क्वचिद्धर्मस्य, क्वचिज्ज्ञानस्य, क्वचिद्वैराग्यस्य, कुत्रचिच्च केवलं भक्तेः प्राधान्यं दृश्यते । भगवदनुग्रहोपलब्धिः केवलैर्धर्मज्ञान- वैराग्यैस्त्रिभिर्न सम्भवति, परन्त्वेतत्साधनत्रयोपेताया भक्त्या एव सम्भवति ।
भगवान् श्री-स्वामि-नारायणो यथा विविधदर्शनधाराणां समन्वयञ्चकार तथैव धर्मादिसाधनचतुष्टयस्याऽपि समन्वयं व्यदधात् ।
अत्रैकः साधनविवेको विज्ञेयोऽस्ति । सिद्धदशायां तावन्माहात्म्यज्ञानोपेतभक्तौ इतरसाधनानां साहजिकोऽन्तर्भावो भवत्येव, परन्तु साधनदशायां चतुर्णामपि साधनानां पारस्परिक्यपेक्षा भवति ।
इमं विषयं प्रबोधयन् भगवान् श्री-स्वामि-नारायणो वचनामृते कथयति यत्
आत्यन्तिककल्याणमिच्छुर्भगवद्भक्त एकयैवाऽऽत्मनिष्ठया वा केवलया भक्त्या वैकेन वैराग्येणैवाऽथवा स्वधर्माचरणमात्रेणाऽऽत्यन्तिक- कल्याणरूपं कार्यं साधयितुं न शक्नोति , अतो मुमुक्षुणा चत्वारोऽप्येते गुणाः साध्याः ।
यदि भक्तः केवलयाऽऽत्मनिष्ठया युतो भवति , किन्तु भगवति प्रीतिर्न भवति तर्हि स भक्तो मायिकगुणान् पराजेतुं न पारयति ।
भक्तौ सत्यामपि विनाऽऽत्मनिष्ठां क्वचिद्देहाभिमानोद्भवतः खण्डिता सती भक्तिः सिद्धिप्रदा न भवति ।
[[९५]]
भक्त्यात्मनिष्ठे उभे अपि भवेताम् , परन्तु यदि वैराग्यो न भवेत् , तर्हि मायोद्भवेषु विषयेषु आसक्तिः स्यादेव ।
यदि केवलं विराग एव स्यात् , किन्तु भक्त्याऽऽत्मनिष्ठे न स्याताम् , तर्हि परमात्मस्वरूपस्य परमानन्दं नैव प्राप्नुयात् ।
ज्ञानवैराग्यभक्त्याख्यसाधनत्रयाऽभावात् केवलेन धर्मेण स्वर्गादि- सुखाऽवाप्तिर्भवेत् , किन्तु मायाऽतीतम् अक्षरधाम न प्राप्यते ।
पूर्वोक्तसाधनत्रयस्य सत्त्वेऽपि विना धर्माऽऽचरणं यथा प्राचीरं विना पादपान् पशवः खादन्ति , पादपा न च वर्धन्ते । तथैव धर्मप्राचीरं विना आत्मनिष्ठायाः , भक्तेः , वैराग्यस्य च वृद्धिर्न भवति इति । (दुर्ग.प्र.वच.१९) यथा खण्डितघटाज्जलं स्रवति तथा धर्मच्युताज्जीवनाद्भक्त्यादिसद्गुणाः स्रवन्ति ।
भगवता श्री-स्वामि-नारायणेन दुर्गपुरीयमध्यस्थप्रकरणीये पञ्चत्रिंशे वचनामृते साधनचतुष्टयस्य परस्परापेक्षा सम्यक्तया वर्णिता । तस्या उपसंहारं कुर्वन् कथयति भगवान् श्री-स्वामि-नारायणो यत्
भगवन्मूर्तेराश्रयो यस्याऽस्ति , भगवच्चरित्राणि यो गायति , शृणोति , भगवन्नामस्मरणं च करोति , परन्तु यदि तस्मिन् धर्माऽऽचरणं न स्यात्तर्हि पाषाणं शिरसि निधाय समुद्रपारं यियूषुरिव तथा चाण्डाल इव स विज्ञेयः । अतो धर्मभक्त्यादिसाधनचतुष्टयेनैव जीवस्याऽऽत्यन्तिकनिःश्रेयसं निश्चप्रचं भवति , नाऽन्यथा इति ।
दुर्गपत्तनीयमध्यप्रकरणीये पञ्चत्रिंशे वचनामृततरङ्गे भगवान् श्री-स्वामि-नारायणो ब्रवीति यत् भगवन्मूर्तेरुपासनेन , भगवच्चरित्रश्रवणेन , भगवन्नामस्मरणेन चेत्येतत्साधनत्रयेण विना केवलं धर्मं समाश्रित्य मुक्तिप्राप्तिस्तु कट्यां तुम्बोपबन्धेन समुद्रतरणमिव कष्टसाध्या विज्ञेया इति ।
भगवान् श्री-स्वामि-नारायण इत्थं भागवतधर्मस्य सर्वेषामङ्गानां समन्वयं विदधे, अयञ्च समन्वयः श्री-स्वामि-नारायणीयसम्प्रदायस्य प्रमुखं वैशिष्ट्यमस्ति ।
वचनामृतस्य तथाऽन्येषां सच्छास्त्राणामभ्यासेनेदं प्रतीयते यद्धर्मादिसाधन- चतुष्टयेन सहोपासना, शरणागतिः तथा सत्सङ्ग इत्येतेषां त्रयाणां साधनानामप्यत्र संयोजनमत्यावश्यकमस्ति । एवम्प्रकारेण धर्मज्ञानवैराग्ययुतभक्तिः, उपासना, आश्रयः, सत्सङ्गश्चेत्येभिः सप्तसाधनैः परमप्रमेयरूपस्य परब्रह्मणः प्रसन्नता प्राप्यते । तथा चाऽऽत्यन्तिककल्याणसिद्धिर्लभ्यते ।
[[९६]]