उपनिषत्सु परब्रह्मणो भेदाऽभेदत्वसगुणत्वनिर्गुणत्वकर्तृत्वाऽकर्तृत्वादि- प्रतिपादकानि परस्परविरोधाऽऽभासयुक्तानि बहूनि वाक्यानि सन्ति । तद्यथा नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति । (बृ.उ.४.४.१९), यत्र वाऽस्य सर्वमात्मैवाऽभूत् , तत्केन कं जिघ्रेत् , तत्केन कं पश्येत् , तत्केन कं श्रुणुयात् , तत्केन कमभिवदेत् , तत्केन कं मन्वीत , तत्केन कं विजानीयात् । (बृ.उ.४.४.१४), सर्वं खल्विदं ब्रह्म (छा.उ.१.१४.१), एकमेवाद्वितीयम् (छा.उ.६.२.१), ब्रह्मवित् ब्रह्मैव भवति (मु.उ.३.२.९), यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति । (तै.उ.२.७) इत्यादीनि श्रुतिवाक्यानि अभेदप्रतिपादनपराणि सन्ति ।
नित्यो नित्यानां चेतनश्चेतनानामेको बहुनां यो विदधाति कामान् (श्वे.उ.६.१३, कठ.उ.२.१३), ज्ञाज्ञौ द्वौ अजौ ईशनिशौ (श्वे.उ.१.९), पृथगात्मानं प्रेरितारं च मत्वा (श्वे.उ.१.६), भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१.१२), द्वा सुपर्णा सयुजा सखाया (श्वे.उ.४.६) इत्यादीनि श्रुतिवचनानि च भेदप्रतिपादन- पराणि सन्ति ।
एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः (छा.उ.८.१.५), सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.२.१) इत्यादीनि श्रुतिवाक्यानि परब्रह्मणः सर्वत्र व्यापकत्वेऽपि नित्यनिर्दोषत्वप्रतिपादन- पराणि सन्ति । एतादृशानि श्रुतिवाक्यानि शोधकश्रुतिवाक्यानि कथ्यन्ते ।
अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा (तै.आ.३.११), अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.आ.१०.१३.१), यः पृथिव्यां तिष्ठन् (बृ.उ.३.७.७), य आत्मनि तिष्ठन् (बृ.उ.३.७.३०), यस्याऽक्षरं शरीरम् , योऽक्षरमन्तरे सञ्चरन्, यमक्षरं न वेद (सु.उ.७) इत्यादीनि अन्तर्यामिब्राह्मणपठितानि श्रुतिवाक्यानि परस्परं विरुद्धानां श्रुतिवाक्यानां विरोधपरिहारपराणि सन्ति, अतस्तानि घटकश्रुतिवाक्यानि कथ्यन्ते ।
अद्वैतिनस्तु अभेदप्रतिपादनपराणि श्रुतिवाक्यानि मुख्यानि, अन्यानि च गौणानीति वदन्ति । द्वैतवादिनो भेदप्रतिपादनपराणि श्रुतिवाक्यानि मुख्यानि,
[[८८]]
अन्यानि गौणानीति वदन्ति । विशिष्टाद्वैतसिद्धान्तिनस्तु सर्वाणि श्रुतिवाक्यानि मुख्यानीति प्रतिपादयन्ति । यतो हि साक्षाद्भगवद्रूपस्य वेदस्यैकं वाक्यं गौणमन्यत् मुख्यमिति कथनमसाधु प्रतिभाति ।
यदि सर्वाणि श्रुतिवाक्यानि मुख्यानि, तर्हि श्रुतिवचनेषु विद्यमानस्य नैकविधस्य विरोधाभासस्य निराकरणं कथं भवेत् ? इति चेत् विशिष्टाद्वैतसिद्धान्ताऽभिमत- शरीरशरीरिभावप्रतिपादिकाभिः घटकश्रुतिभिः तन्निराकरणं सुकरमस्ति । तथा हि विशेष्यं स्वरूपतः स्वभावतो विशेषणाद्भिन्नमपि विशिष्टवेषेणाऽभिन्नं भवति । तथैव परं ब्रह्म स्वरूपतः स्वभावतश्चेतनाऽचेतनविशेषणाद्भिन्नमपि विशिष्टवेषेणाऽभिन्नं वर्तते ।
अमुमेवाऽर्थं स्पष्टयति भगवती श्रुतिः तद्यथा रथस्याऽरेषु नेमिरर्पिता , नाभावरा अर्पिताः इति । (कौ.ब्रा.उ.३.६१) अस्मिन् श्रुतिवाक्ये न नाभिमात्रं रथचक्रम्, किन्तु अरनेमिविशिष्टं तद्वर्तते । अत्राऽरादिदृष्ट्या भेदस्य सत्वेऽपि समस्तरथचक्रदृष्ट्या त्वभेदोऽस्ति । एवमेवाऽत्र श्रुतिवाक्येषु बोद्धव्यम् ।
अत्राऽपरो लौकिको दृष्टान्तः ‘अयमेको देवदत्तः’ इति वाक्यं शरीरविशिष्टं देवदत्तं बोधयति । देवदत्तशरीरे करचरणनेत्रश्रोत्रादीनि नैकान्यङ्गानि सन्ति, परन्तु शरीरात्मभूतो देवदत्तः एक एव । भेदस्तु केवलं देवदत्तशरीराऽवयवेषु, न च शरीरविशिष्टे देवदत्ते ।
एवमेव चेतनाऽचेतनविशिष्टपरब्रह्मणो विशेषणेषु भेदः, विशिष्टदृष्ट्या त्वभेदः । अन्तर्यामिब्राह्मणपठितानि श्रुतिवाक्यानि शरीरात्मभावेन भेदं चाऽभेदञ्च साधयन्ति ।
स्थूलसूक्ष्मचेतनाऽचेतनयोः परमात्मना साकं न केवलं शरीरशरीरिभावः, किन्तु स्वामिसेवकभावः, शेषशेषिभावः, व्याप्यव्यापकभावः, आधेयाऽऽधारभावः, नियाम्यनियामकभावः, परतन्त्रस्वतन्त्रभावश्चेत्यादयो नैका नित्यसिद्धाः सम्बन्धा वर्तन्ते इतीदं विशिष्टाद्वैतमतस्य हार्दमस्ति ।
शिक्षापत्र्यर्थदीपिकाटीकाभाष्ये आचार्यप्रवरैः श्रीरघुवीरजीमहाराजवर्यैः विशिष्टाद्वैतसिद्धान्तस्य निम्नोक्तः सारः सम्यक्तया संगृहीतः ।
वियद्वायुस्तेजःसलिलमवनिश्चेति यदिदं विकाराणां या च प्रकृतिरपि यश्चेतनगणः । न चैषामेकं वा यदगुणतया स्यात्तनुतया प्रकारीभूयास्ते निखिलमपि यद्ब्रह्मण इदम् ॥
[[८९]]
स्वैकान्तैरखिलचिदचिद्धर्मनिचयैर्विशिष्टं ब्रह्मैकं भवति न च तत्त्वं तदधिकम् । अतो नाना नेति श्रुतिशिरसि जोघुष्यत इदं विशिष्टाद्वैतं तन्नहि गुणविभागं न सहते ॥
(शिक्षा.१२१, टीकाभाष्यम्)