२१ विशिष्टाद्वैतमते शरीरशरीरिभावः

विशिष्टाद्वैतमते चेतनाऽचेतनानि परब्रह्मणो भगवतः शरीराणि सन्ति । विद्वद्भिः शरीरशब्दस्य विविधा व्याख्याः कृताः । तथा हि केचित् कथयन्ति शीर्यते इति शरीरम् । केचित् कथयन्ति भोगायतनं शरीरम् । केचित् कथयन्ति भस्माऽन्तं शरीरम् । नैयायिकाः कथयन्ति चेष्टाऽऽश्रयत्वमिन्द्रियाऽऽश्रयत्वमर्थाऽऽश्रयत्वं शरीरमिति । साङ्ख्याः कथयन्ति सुखदुःखभोगसाधनत्वे सति इन्द्रियाऽऽश्रयत्वं

[[८६]]

पञ्चवृत्तिप्राणाऽधीनत्वं पृथिव्यादिपञ्चभूतसङ्घरतविशेषं शरीरमिति ।

भगवता श्रीमद्रामानुजाचार्यवर्येण सर्वप्रयोगाऽनुगुणं शरीरलक्षणं व्यवस्थापितम् । ‘यस्य चेतनस्य यदवस्थं द्रव्यम् अपृथक्सिद्धं तत्तस्य शरीरम्’ इति ।

यतीन्द्रमतदीपिकाकारः कथयति शरीरं नाम चेतनं प्रति आधेयत्व- विधेयत्वशेषत्वनियमैः अपृथक्सिद्धो द्रव्यविशेष इत्येकं लक्षणम् । यद्वा नियमेन यदाधेयम् , नियमेन यद्विधेयम् , नियमेन यच्छेषं तदिति लक्षणत्रयं वा योज्यम् । (य.दी.४)

चेतनाऽचेतनानि परमात्मना नियमेन धार्याणि, नियाम्यानि, व्याप्यानि च सन्ति । अतस्तानि परमात्मनः शरीराणि । परमात्मा तु नियमेन धारकः, नियामकः, व्यापकश्चाऽस्ति । अतः सः तेषां शरीरी ।

अमुमेवाऽर्थं विशदयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे । प्रथमं तावद्भगवता श्री-स्वामि-नारायणेनैव प्रश्नः कृतो यच्छ्रुतिः कथयति यत् आत्माऽक्षरे परमात्मनः शरीरभूते , किन्तु ते उभे तु विकारशून्ये स्तः । तत्र न कोऽपि हेयोपाधिरस्ति ।

यथा भगवान् मायातः परः तथैवाऽऽत्माक्षरेऽपि मायातः परे स्तः । अतः तदुभयं परब्रह्मणः शरीरं कथं सम्भवेत् ? लोके शरीरं नैकविधविकारपरिपूर्णमस्ति, शरीरी जीवस्तु निर्विकारोऽस्ति । एवं तयोरत्यन्तं वैलक्षण्यं दृश्यते । भगवच्छरीरभूतात्माक्षरयोः शरीरिणा भगवता सह तादृशं नितरां वैलक्षण्यं कथं ज्ञेयम् ? इति ।

स्वयमेवाऽस्य प्रश्नस्य समाधानं विदधानो भगवान् श्री-स्वामि-नारायणः कथयति यत् व्याप्यत्वात् , आधीनत्वात् , असमर्थत्वाच्च आत्माऽक्षरे भगवतः शरीरे स्तः । भगवाँस्तु स्वाऽन्तर्यामिशक्त्या आत्मानमक्षरञ्चोभयं व्याप्नोति । अतस्तदुभयं भगवद्व्याप्यम् , भगवाँस्तु तद्व्यापकः । भगवान् स्वतन्त्रोऽस्ति , आत्माऽक्षरे तु भगवदधीनत्वात्परतन्त्रे स्तः । भगवान् अतिसमर्थोऽस्ति , आत्माऽक्षरे तु भगवत्सनिधौ नितरामसमर्थे स्तः । अतस्तदुभयं भगवतः शरीरं ज्ञेयम् , भगवाँस्तु तयोः शरीरीति ।

शरीरे व्याप्त आत्मा निराकारो भवति । किं तथैव भगवानपि सर्वव्यापकत्वात् निराकारोऽस्ति उत साकारः ? इत्यस्याः शङ्कायाः समाधानार्थं कथयति भगवान् श्री-स्वामि-नारायणो यत् शरीरिभूतो भगवान् पुरुषोत्तमस्तु सर्वदा दिव्यमङ्गल

[[८७]]

विग्रहवानस्ति (दुर्ग.प्र.वच.६४) इति । अनेन वचनेन भगवद्विषये निराकारशङ्का सर्वथा निराकृता ।