भगवता श्री-स्वामि-नारायणेनोक्तं शिक्षापत्र्यां मतं विशिष्टाद्वैतं मे (शिक्षा.१२१) इति ।
वेदान्तदर्शनेऽद्वैतविशिष्टाद्वैतद्वैतादीनि नैकानि मतानि प्रसिद्धानि सन्ति । भगवता श्री-स्वामि-नारायणेन तु विशिष्टाद्वैतसिद्धान्तः स्वीकृतः ।
अयं सिद्धान्तोऽत्यन्तं प्राचीनः, श्रुतिषु प्रसिद्धः, शतशः स्मृतिशास्त्रवचनैः उपपादितः, बोधायनरामानुजाचार्यादिभिः प्राचीनैराचार्यप्रवरैरपि स्वीकृतश्चाऽस्ति । श्रुतिस्मृतिप्रसिद्धं परं ब्रह्म न अद्वैतम्, न द्वैतम्, अपि तु विशिष्टाद्वैतमस्ति ।
विशिष्टाद्वैतशब्दस्याऽर्थद्वयं सुप्रसिद्धमस्ति । विशिष्टस्य अद्वैतं तथा विशिष्टयोः अद्वैतमिति ।
विशिष्टाद्वैतपदे शब्दद्वयं वर्तते ‘विशिष्टम्, अद्वैतम्’ चेति । अद्वैतशब्दस्येयं व्युत्पत्तिरस्ति यत् द्वयोर्भावो द्विता, द्विता एव द्वैतम् अर्थात् भेदः, न द्वैतमिति अद्वैतम् अर्थात् अभेदः । विशिष्टं नाम विशेषणैर्युक्तम् । विशिष्टञ्च तदद्वैतं चेति विशिष्टाद्वैतम् इति विशिष्टाद्वैतशब्दसिद्धिः ।
विशिष्टाद्वैतसिद्धान्ते तत्त्वत्रयं प्रसिद्धमस्ति । चेतनम्, अचेतनम्, परमचेतनञ्च । अत्र चेतनपदेन न केवलं जीवात्मा, किन्तु तेन साकम् ईश्वराऽक्षरब्रह्मनित्यमुक्त- महापुरुषकालादिसमस्तचेतनजातं ग्राह्यम् । अचेतनपदेन जडा प्रकृतिर्ग्राह्या । परमचेतनपदेन परं ब्रह्म परमात्मा पुरुषोत्तमनारायणो ग्राह्यः ।
चेतनाचेतनानां परमात्मना साकं नित्यः शरीरशरीरिभावसम्बन्धो वर्तते । शरीरस्य विशेषणत्वात्, शरीरिणश्च विशेष्यत्वाच्चाऽयं विशेषणविशेष्यभावसम्बन्ध
[[८४]]
इत्यपि कथ्यते ।
औपनिषदा मन्त्राः प्रमाणयन्ति यत् यस्य पृथिवी शरीरम् (बृ.उ.५.७.७), यस्याऽऽत्मा शरीरम् (बृ.उ.५.७.२६), यस्याऽक्षरं शरीरम् (सु.उ.७) इति । अत्र पृथिवीपदेन समस्ताऽचेतना प्रकृतिर्ग्राह्या । आत्मपदेनाऽशेषजीवेश्वरादिचेतनवर्गो ग्राह्यः । अक्षरपदेनाऽक्षरब्रह्मादयो ग्राह्याः ।
विशेषणस्य विशेष्येण सह सम्बन्धो द्विधा भवति । पृथक्सिद्धसम्बन्धः अपृथक्सिद्धसम्बन्धश्चेति । पृथक्सिद्धसम्बन्धः कादाचित्को भवति । अपृथक्सिद्ध- सम्बन्धो नित्यो भवति । प्रथमो यथा उपनेत्री पुरुषः इत्यत्र उपनेत्री पुरुषस्य विशेषणमस्ति । पुरुष उपनेत्रविशिष्टो वर्तते । अत्रोपनेत्रस्य पुरुषेण सह सम्बन्धः कादाचित्को न तु नित्यः, अत एव सः पृथक्सिद्धसम्बन्धोऽस्ति ।
अपरोऽपृथक्सिद्धसम्बन्धो यथा नीलमुत्पलम् इत्यत्र नीलवर्णो विशेषणम् अस्ति, उत्पलं विशेष्यमस्ति । नीलवर्णस्योत्पलेन साकं नित्यसम्बन्धोऽस्ति, अतः सोऽपृथक्सिद्धसम्बन्धः ।
अत्राऽयमपि विवेको यद्विशेषणं सर्वदा गौणं भवति, विशेष्यं प्रधानं भवति । अतोऽशेषचेतनाऽचेतनानि विशेषणानि परमात्माऽधीनत्वात् गौणानि सन्ति, परमात्मा तु सर्वतन्त्रस्वतन्त्रः प्रधानतया वर्तते ।
चेतनाऽचेतनैर्विशिष्टं परं ब्रह्म अद्वैतमस्ति । तथा च श्रुतिः एकमेवाऽद्वितीयम् (छा.उ.६.२.१) इति । अद्वैतिनो विद्वांसः अद्वैतपदस्य ब्रह्म सजातीयविजातीयस्वगत- भेदशून्यमस्तीत्यर्थं कुर्वन्ति । सर्वविधभेदशून्यात् ब्रह्मणः सृष्टेरुत्पत्त्यादिकं सर्वथा असंभवम् । अत एव विशिष्टाद्वैतिभिः स्वीकृतमिदम् अद्वैतपदं परब्रह्मणोऽन्येषां चेतनाऽचेतनानां निषेधं न करोति । तथा च केवलं परब्रह्मण एव सजातीयशून्यतां दर्शयति ।
तत्त्वमेकं परं ब्रह्म श्रूयते श्रुतिमूर्धसु ॥ विशिष्टस्याऽस्य तत्त्वस्य सजातीयाऽन्यशून्यता ॥
(शिक्षा.१२१, टीकाभाष्यम्)
भगवती श्रुतिरपि तदेव प्रतिपादयति यत् न तत्समश्चाऽभ्यधिकश्च दृश्यते (श्वे.उ.६.८) इति । परब्रह्मणा समानस्तथा ततोऽधिकः कोऽपि नाऽस्तीति ।
यथा कश्चित् कथयति गृहे ‘देवदत्त एक एवाऽस्ति, नाऽन्यः कश्चित्’ इत्यत्र गृहे देवदत्तादन्येषां सजातीयानामुपस्थितेर्निषेधः, नाऽन्येषां विजातीयानामपराणां
[[८५]]
गृहसाधनानां गृहस्थपश्वादीनां निषेधः । तद्वदत्राऽपि ज्ञेयम् ।
अद्वैतिनश्चेतनाऽचेतनानि मिथ्याभूतानीति प्रतिपादयन्ति । अत्रोद्धोषयति भगवती श्रुतिः नित्यो नित्यानां चेतनश्चेतनानाम् (श्वे.उ.६.१३, कठ.उ.२.१३) इति चेतनाऽचेतनानि नित्यान्यर्थात् सत्यानि न मिथ्याभूतानीति । अतः ‘ब्रह्मैव सत्यं जगन्मिथ्या’ इति वाद एव मिथ्यावादः ।
एवं विशिष्टाऽद्वैतशब्दस्य प्रथमोऽर्थो निरूपितः । अथ द्वितीयोऽर्थो यथा विशिष्टञ्च विशिष्टञ्चेति विशिष्टे, विशिष्टयोरद्वैतमिति विशिष्टाद्वैतम् ।
चेतनाऽचेतनानाम् अवस्थाद्वयं वर्तते कार्यावस्था, कारणावस्था चेति । कायर्ावस्थायां चेतनाऽचेतनानि स्थूलान्यथर्ात् विभक्तनामरूपाणि भवन्ति । कारणावस्थायां तानि चेतनाऽचेतनानि सूक्ष्माण्यर्थादविभक्तनामरूपाणि भवन्ति ।
अवस्थाद्वयेऽपि तानि परमात्मना साकं नित्यसम्बन्धेन संयुक्तानि सन्ति । अत एव कार्यावस्थायां परं ब्रह्म स्थूलचेतनाऽचेतनविशिष्टं कथ्यते । कारणावस्थायां तु सूक्ष्मचेतनाऽचेतनविशिष्टं कथ्यते ।
विशिष्टाद्वैतसिद्धान्ते प्रसिद्धः समासविधिरधोनिर्दिष्टोऽस्ति ।
स्थूलानि च तानि चेतनाऽचेतनानि चेति स्थूलचेतनाऽचेतनानि । स्थूलचेतनाऽचेतनैर्विशिष्टमिति स्थूलचेतनाऽचेतनविशिष्टम् ।
सूक्ष्माणि च तानि चेतनाऽचेतनानि चेति सूक्ष्मचेतनाऽचेतनानि । सूक्ष्मचेतनाऽचेतनैर्विशिष्टमिति सूक्ष्मचेतनाऽचेतनविशिष्टम् । उभयविधाऽवस्था- विशिष्टयोरद्वैतमिति विशिष्टाद्वैतं परं ब्रह्म ।
अत्राऽद्वैतपदेनोभयविधाऽवस्थाविशिष्टपरब्रह्मणोर्मध्ये अभेदः प्रतिपाद्यते । अनेन परब्रह्मणाेऽभिन्ननिमित्तोपादानकारणत्वं सिद्ध्यति ।