१९ अभिन्ननिमित्तोपादानकारणवादः

नैयायिकास्तु समवाय्यसमवायिनिमित्तेतिकारणत्रयं स्वीकुर्वन्ति । वेदान्तिभिः निमित्तोपादनसहकारिभेदेन त्रिविधं कारणं स्वीकृतम् । केचन विद्वांस उपादाननिमित्तेतिकारणद्वयमेव स्वीकुर्वन्ति । तेषां पक्षे सहकारिकारणस्य निमित्तेऽन्तर्भावः ।

कार्यरूपेण परिणममानं द्रव्यमुपादानकारणं यथा घटं प्रति मृत्तिका । कार्यतया परिणामयितृ निमित्तकारणं यथा कुलालः । कार्योत्पत्त्युपकरणं दण्डचक्रादिवस्तु सहकारिकारणम् ।

यद्वा यतीन्द्रमतदीपिकायामुक्तं यदुत्तरोत्तरावस्थाविशिष्टस्वरूपाऽपेक्षया तदनुगुणनियतपूर्वभाव्यवस्थाविशिष्टं यत्तदुपादानम् । यथा घटत्वाऽवस्थाविशिष्ट- मृद्द्रव्याऽपेक्षया पिण्डत्वाऽवस्थाविशिष्टं तदेव द्रव्यम् । परिणामौन्मुख्याऽतिरिक्ता- कारेणाऽपेक्षितं कारणं निमित्तकारणम् । (य.दी.९) अत्र सहकारिकारणस्य निमित्तेऽन्तर्भावो वर्तते ।

लोके तु त्रिविधान्यपि कुलालमृत्तिकादण्डचक्रादिरूपाणि निमित्तोपादान- सहकारिकारणानि पृथक् पृथक् दृश्यन्ते, किन्तु वेदान्तदर्शने सृष्टिप्रकरणे अभिन्ननिमित्तोपादानकारणवादः स्वीकृतोऽस्ति । अतोऽत्र स्वयं भगवान् परब्रह्मपुरुषोत्तमनारायण एव चराऽचरजगत उपादानकारणम्, स एव निमित्तकारणम्, स एव सहकारिकारणञ्च भवति ।

तथैव कथयति यतीन्द्रमतदीपिकाकारः ईश्वरः सूक्ष्मचिदचिद्विशिष्टवेषेण जगदुपादानकारणं भवति । संकल्पविशिष्टवेषेण निमित्तकारणम् । कालाद्यन्तर्यामिवेषेण सहकारिकारणञ्च (य.दी.९) इति । अत्र कालेन साकमक्षरब्रह्माऽक्षरात्मकमहापुरुषप्रकृतिकर्मादीनामपि गणना कर्तव्या ।

[[८१]]

अभिन्ननिमित्तोपादानकारणवादप्रतिपादकानि नैकानि श्रुतिस्मृतिवाक्यानि सन्ति । श्रूयते सद्विद्याप्रकरणे सदेव सोम्येदमग्र आसीदेकमेवाऽद्वितीयम् (छा.उ.६.२.१) इति ।

इदं विभक्तनामरूपात्मकं विश्वम् अग्रे सृष्टेः पूर्वम् एकमेव अविभक्तनाम- रूपतया एकत्वाऽवस्थापन्नं सदेव आसीदर्थात् सद्रूपमेव आसीत् । अत्र सच्छब्देन सूक्ष्मचिदचिद्विशिष्टः परब्रह्मपुरुषोत्तमनारायणो गृह्यते । किञ्च एवकारेण नैयायिकाऽभिमतोऽसत्कारणवादो निराकृतः ।

कीदृशं च तत्सदासीत् ? तर्हि कथयति श्रुतिः एकमेवाऽद्वितीयम् (छा.उ.६.२.१) इति । अनेन श्रुतिवाक्येन परब्रह्मपुरुषोत्तमनारायणस्य अभिन्ननिमित्तोपादानकारणत्वं प्रतिपाद्यते । अत्र एकम् , एव इत्याभ्यां शब्दाभ्यां परब्रह्मण एवोपादानकारणता, नाऽन्यस्येति दार्ढ्येन प्रतिपादितम् । अद्वितीयम् इत्यनेन पदेन निमित्तान्तरं निराकृतम् ।

कथयति भगवती श्रुतिः एको वै नारायण आसीन्न ब्रह्मा नेशानो न मे द्यावापृथिवी न नक्षत्राणि नापः (महा.उ.३.१.१.), तदैक्षत बहुस्यां प्रजायेयेति (छा.उ.६.२.३) इति ।

तेन सद्ब्रह्मादिशब्दवाच्येन सूक्ष्मचिदचिद्विशिष्टेन परमात्मना नारायणेन लीलार्थं सृष्टिरचनायै ईक्षणं नाम संकल्पः कृतो यन्नामरूपविभागशून्यः सूक्ष्मचिदचिद्विशिष्टोऽहमेको बहुस्यां प्रजायेय एकाक्यहमस्मि, अहमनेकरूपाणि नैकान्यवताररूपाणि च धरेयमिति ।

अत्र परब्रह्मणो बहुस्यामिति संकल्पविशिष्टवेषेण निमित्तकारणत्वं तथा प्रजायेय इति पदेनोपादानकारणत्वं प्रतिपाद्यते ।

अत्राऽयं निगलितार्थो यत्प्रलयसमये सृष्टेः कारणदशायां परमात्मा सूक्ष्मचेतनाऽचेतनाभ्यां विशिष्टो भवति । सृष्टेः कार्यदशायां परमात्मा स्थूलचेतनाऽचेतनविशिष्टो भवति । कारणावस्थं सूक्ष्मचिदचिद्विशिष्टं परं ब्रह्म एव स्थूलचिदचिद्विशिष्टवेषेण कार्यरूपेण परिणमते इति ।

सामान्यतया लोके दृश्यते यत्कुलालो यदा मृत्पिण्डात्कुम्भं निर्माति तदा कुलालो घटस्य निमित्तकारणमस्ति । मृत्तिका घटस्योपादानकारणमस्ति । मृदेव घटरूपेण परिणमते, न तु कुलालः । परन्तु सृष्टिप्रकरणस्य वार्ता काचिद्विलक्षणा वर्तते । लोके कुलालघटावुभौ स्वतन्त्रौ पदार्थौ स्तः, किन्त्वत्र चेतनाऽचेतनौ

[[८२]]

कस्याञ्चिदप्यवस्थायां परमात्मनः स्वतन्त्रौ न स्तः, तयोः परमात्मना सह नित्यसंयोगात् ।

अत उपादानकारणभूतः सूक्ष्मचिदचिच्छरीरकः परमपुरुषः परमात्मैव स्थूलचिदचिच्छरीररूपेण परिणमते ।

परमात्मन एवंविधोपादानकारणत्वस्याऽङ्गीकारे कृते सति नित्यनिर्विकारे तस्मिन् विकृतिभावस्य आशङ्का न करणीया, यतो हि यथा दैहिकविकृतय आत्मानं न स्पृशन्ति तथैव सृष्टिपरिणामरूपा विकाराः परमात्मनो जडचेतनात्मकशरीरे भवन्ति, न तु शरीरिणि परमात्मनि ।

अभिन्ननिमित्तोपादानकारणत्वे सत्यपि परमात्मनि विकारास्पदत्वं नास्ति इत्यवबोधनाय वेदान्तशास्त्रे लूतातन्तोर्दृष्टान्तः प्रसिद्धोऽस्ति ।

यथोर्णनाभिः सृजते गृह्णते च…. तथाक्षरात् सम्भवतीह विश्वम् । (मु.उ.१.१.८)

अत्राऽक्षरपदेन परब्रह्मपुरुषोत्तमनारायण एव ग्राह्य इति प्रतिपादितं पूर्वाचार्यैः । उर्णनाभिर्नाम लूतातन्तुः । यथोर्णनाभिः स्वशरीरान्निर्गतं स्रावजालं वितनोति । जालस्य विस्तारोऽयम् ऊर्णनाभेः शरीराद्भवति, किन्तूर्णनाभेर्जीवभूताच्चेतनान्न भवति । ऊर्णनाभिशरीरस्थो जीवस्तु केवलं सङ्कल्पं करोति यत् अधुना जालं बध्नीयाम् इति ।

एवम्प्रकारेणैव सृष्टेः परिणामरूपिणो विकारा भगवतो जडचेतनशरीरे भवन्ति, किन्तु शरीरी परमात्मा सर्वात्मना निर्दोषो निर्विकारश्च विद्यते ।

पश्यन्तु महदाश्चर्यम् अस्मिन् शास्त्रप्रतिपादितेऽभिन्ननिमित्तोपादानकारणवादे यदत्र परमात्मैव कुलालः, परमात्मैव मृत्तिका, परमात्मैव घटः, परमात्मैव चक्रचीवरादीनि । एतद्विषयप्रतिपादकं रुचिरं काव्यात्मकवर्णनं तैत्तिरीयब्राह्मणे उपलभ्यते । तद्यथा

किंस्विद्वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदुतत्, यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः ब्रह्माध्यतिष्ठद्भुवनानि धारयन् ।

(तै.ब्रा.२.८.९.९५)

आर्षमण्डलात् कश्चिदेक ऋषिः पृच्छति हे मनीषिणः ! कः तक्षकः ? किं

[[८३]]

स्थानमधिष्ठाय कस्य वनस्य किम्प्रकारककाष्ठात् पृथिव्यन्तरिक्षादिरूपं विश्वम् असृजत् ?

एतं प्रश्नं निशम्य एकस्यर्षेस्तपःपूते विशुद्धान्तःकरणेऽद्भुतमन्त्रस्य आविर्भावो जातः । स उदतरत् हे मनीषिणः ! आश्चर्याऽऽवहोऽयं विषयोऽस्ति यदत्र तक्षकोऽपि ब्रह्माऽस्ति, अधिष्ठानमपि ब्रह्म विद्यते, वनमपि ब्रह्म, काष्ठमपि ब्रह्मैव विद्यते ।

ब्रह्मरूपी तक्षको ब्रह्मरूपिण्यधिष्ठाने उपविश्य ब्रह्मरूपिणि वने जाताद् ब्रह्मरूपिणः काष्ठादिदं जडचेतनात्मकं विश्वं ससर्ज । तादृशो ब्रह्मरूपी तक्षक एवेदं समग्रं जगद्दधाति । अत्यद्भुतोऽयमभिन्ननिमित्तकारणवादोऽस्ति ।