१८ अथाऽक्षरब्रह्मादिकारणवादनिरासः

एकदा भगवान् श्री-स्वामि-नारायणो वृत्तालये विराजमान आसीत्तदा बुवाख्यग्रामस्य कानदासपटेलाऽभिधो भक्तराट् भगवद्दर्शनार्थमागमत् । सः बद्धपुटाञ्जलिः प्रणतः सन् भगवन्तं श्रीसहजानन्दमहाराजं पप्रच्छ ‘हे प्रभो ! केन प्रकारेण भगवान् सुप्रसन्नो भवेत् ?’ इति ।

प्रश्नस्योत्तरं प्रयच्छन् भगवान् श्रीहरिराह ‘यदि भगवद्द्रोहो न क्रियते, तर्ह्यवश्यं भगवान् सुप्रसन्नो भवति ।’ पुनश्च कानदासभक्तोऽपृच्छत् यत् ‘हे स्वामिन् ! को नाम द्रोहः ?’ इति ।

तदाकर्ण्य श्रीजीमहाराजोऽवदत् यत् अस्य सकलचराचरजगतः कर्ता संहर्ता च भगवानेवाऽस्ति । तस्य कर्तृत्वहर्तृत्वाद्यज्ञात्वैतद्विश्वस्य कर्तृत्वं संहर्तृत्वं च कालस्याऽथवा मायाया वा कर्मणो वा स्वभावस्य जानीयुस्तर्हि तद्भगवतो द्रोहो भवेत् । यतो हि भगवानेव सर्वस्य कर्ता संहर्ता चाऽस्ति , नाऽन्यः । तं भगवन्तमपहाय केवलं कालकर्ममायास्वभावानामेव जगत्कर्तृत्वं संहर्तृत्वञ्च केचिद्वदन्ति , तत्तु भगवतो नितरां द्रोहोऽस्ति ।

तत्र दृष्टान्तोऽस्ति यथा भवान् ग्रामाऽधिपोऽस्ति । भवद्ग्रामाधिपत्वं यो न्यक्करोति , स तु भवद्द्रोही भवति । किञ्च यथा चक्रवर्तिनो नृपस्याऽऽदेशं वितथं विधायाऽनृपस्याऽऽदेशमवितथं मत्वा तदनुसारेण यः प्रवर्तते , स तु राजद्रोही कथ्यते इति । (वृत्ता.वच.२) एभिर्वचनामृतवाक्यैः अक्षरब्रह्मकारणवादोऽपि प्रत्याख्यातः ।

कैश्चिदाधुनिकैः स्वयं धीरपण्डितम्मन्यमानैर्नूतनोऽयमक्षरकारणवादः कल्पितो वर्तते । तथा च ते विप्रलिप्सयाऽक्षरब्रह्मणोऽपि सृष्टिं प्रति कर्तृत्वादिकं प्रतिपादयितुं हठात्प्रयतन्ते ।

अत्र कानिचिदुदाहरणानि पश्यामः । अथातो ब्रह्मजिज्ञासा (ब्र.सू.१.१.१) इत्यादिषु सूत्रेषु विद्यमानैः ब्रह्माऽक्षरादिशब्दैः परब्रह्मण एव ग्रहणं कृत्वा तस्यैवोपासना कर्तव्या, नाऽन्येषामक्षरब्रह्मादीनामिति स्पष्टतया प्रतिपादितं सद्गुरुश्रीमुक्तानन्दस्वामिसद्गुरुश्रीगोपालानन्दस्वामिप्रभृतिभिर्भाष्यकारैस्तथा श्रीमद्रामानुजाचार्यादिपूर्वाचार्यैः । तथाप्येते आधुनिका अत्र ब्रह्मशब्देन परब्रह्मणा

[[७६]]

साकमक्षरब्रह्मणोऽपि ग्रहणं कृत्वोभयोर्जिज्ञासाऽर्थादुपासना कर्तव्या (ब्र.सू.भ.भा.१.१.१) इति न साधु । यतो हि एका कन्या एकस्यैव वरस्य वरणं करोति, न द्वयोः इत्येव लोकशास्त्रनियमः ।

छान्दोग्योपनिषदि सद्विद्याप्रकरणे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानम् इति प्रतिज्ञा वर्तते । अत्र सदेव सौम्य इदमग्र आसीत् एकमेवाद्वितीयम् (छा.उ.६.२.१) इत्यादिभिः श्रुतिभिः परस्य ब्रह्मण एव सृष्टेरभिन्ननिमित्तोपादानकारणत्वं स्पष्टतया प्रतिपादितं भगवता बादरायणेन तथा च पूर्वाचार्यैः । तथाप्येते नूतनव्याख्याकाराः कथयन्ति यत् ‘सृष्टेरग्रे नित्यत्वात् सच्छब्दवाच्यकारणावस्थमक्षरं ब्रह्म परं ब्रह्मैवाऽसीत् ।’ इति । (छा.उ.भ.भा.६.२.१)

अस्मिन्नेव सद्विद्याप्रकरणे श्वेतकेतोः प्रश्नस्य विस्तरं कुर्वद्भिः तैः कल्प्यते यत् ‘श्रुतिसिद्धनिर्णयेन अक्षरब्रह्मपरब्रह्मेतिदिव्यतत्त्वद्वयं संगृह्यैव सकलरूपत्वात् किं त्वमक्षरब्रह्मपरब्रह्मतत्त्वावबोधकब्रह्मविद्योपदेशम् अधिकृत्य पृष्टवान् न वा ?’ (छा.उ.भ.भा.६.१.३) इति स्वयमेवोभयतत्त्वपरं प्रश्नमुद्भाव्य स्वयमेव समाधानं कल्पयन्ति यत् ‘एवमनेनाऽक्षरब्रह्मपरब्रह्मेति उभयतत्त्व- प्रबोधकपरविद्याऽपरपर्यायभूतब्रह्मविद्यैकलाभेन नूनं सकलार्थलाभः’ इति ।

(छा.उ.भ.भा.६.१.३)

तथा च त अग्रे कथयन्ति यत् ‘एवमीशावास्यविद्यावत् सद्विद्याऽप्येषा एकेनैव सच्छब्देन साक्षात् अक्षरं पुरुषोत्तमञ्चेति तत्त्वद्वयं सर्वकारणत्वादिना उपस्थापयन्ती जीवेश्वरमायामुक्तानां सर्वेषां तदात्मकत्वोपदेशाय प्रवृत्ता इति ज्ञायते ।’

(छा.उ.भ.भा.६.२.१)

सद्विद्याप्रकरणस्थश्रुतिवाक्ये यद्यपि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं सुस्पष्टं वर्तते तथापि सच्छब्देन अक्षरब्रह्मपरब्रह्मेति उभयस्य ग्रहणेन जायमानः प्रतिज्ञाभङ्गः कथं युक्तिसङ्गतो भवेत् ? इति विचारयन्तु सुधियो जनाः । किं वा एवं वदन्त इमे नूतनव्याख्यानकारा भगवतो बादरायणात् तथा श्रीमद्रामानुजाचार्यसद्गुरु- श्रीमुक्तानन्दस्वामिसद्गुरुश्रीगोपालानन्दस्वामिप्रभृतिभ्यो भाष्यकारेभ्योऽपि विशेषतो बुद्धिमन्तः सन्ति ? इति तु त एव स्वाऽन्तरात्मानं पृच्छन्तु ।

अस्मिन्नैव सद्विद्याप्रकरणे तदैक्षत बहुस्यां प्रजायेय (छा.उ.६.२.२) इत्यत्र स्पष्टतया एकस्यैव परब्रह्मण ईक्षणं श्रूयते । तथाऽप्यत्रेमे नूतनव्याख्यानकाराः कल्पयन्ति यत् ‘ईक्षणं ब्रह्मपरब्रह्मेति तत्त्वद्वयस्य । बहुस्यामिति सङ्कल्पोऽपि

[[७७]]

ब्रह्मपरब्रह्मेतिदिव्यतत्त्वद्वयस्य ।’ (छा.उ.भ.भा.६.२.३) अत्रोभयस्येक्षणात्मकं विधानं तु विद्वत्परिषदि नितरां हास्यास्पदमेव प्रतिभाति ।

स्वयं भगवता श्री-स्वामि-नारायणेनोक्तं वचनामृते यत् सृष्टिसमये पुरुषोत्तमो भगवानक्षरं प्रति दृष्टिं करोति (दुर्ग.प्र.वच.४१) इति । यदि तदैक्षत इति श्रुतिवाक्ये उभयेक्षणमभिलषितं स्यात्तर्हीदं वचनामृतवाक्यं कथं घटेत ?

ईशावास्यम् (ईशा.उ.१) इत्यत्राऽपि ‘परं ब्रह्म परमात्मा अक्षरं ब्रह्म चेति तत्त्वद्वयस्य स्वाऽन्तर्यामिशक्त्या व्याप्तिरिति’ कल्पयन्ति इमे नूतनव्याख्याकाराः । इदमपि सर्वथा पूर्वाचार्यप्रतिपादितसिद्धान्तविरुद्धमस्ति । परब्रह्मणः परमात्मन एवाऽसंकुचिताऽन्तर्यामिशक्त्या सर्वत्राऽक्षरब्रह्मादिष्वपि व्यापनशीलत्वात् ।

श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ कथयति भगवान् श्री-स्वामि-नारायणः

कालः कर्म च मायापि तदधीना भवन्ति हि ॥ न स्वतन्त्राः क्वचित्तस्मात् मुख्यः कर्ता स ईश्वरः ॥ श्रेयो हेतुरिदं ज्ञानं नृणामित्यवगम्यताम् ॥ एवं यो न विजानाति स पापिष्ठतमो मतः ॥

(श्रीहरि.त.१०६.१३,१४)

ब्रह्मसूत्रस्य अक्षराऽधिकरणभाष्ये (ब्र.सू.१.३.३) श्रीमद्रामानुजाचार्यवर्येण विस्तरशः प्रतिपादितं यदक्षराम्बरान्तधृतेः अक्षरं तु परं ब्रह्मैवेति ।

अस्मिन्नेवाऽधिकरणभाष्ये ह्येतद्वै तदक्षरं गार्गि ब्राह्मणाऽभिवदन्ति (बृ.उ.५.८.७) इति विषयवाक्यमवलम्ब्य सद्गुरुणा श्रीमुक्तानन्दस्वामिना सविस्तरं प्रमाणपुरस्सरं प्रतिपादितं यत् ‘अक्षराख्यचिदम्बरान्तसर्वनियन्तृतया तद्व्यापकतया चाऽक्षरपरतया च सर्वात्मतया च नारायण एवाऽभिहितः । एतस्मिन्नक्षरे अक्षरशब्दाऽभिधेये परब्रह्मणि नारायणे हे गार्गि ! आकाशश्चिदम्बराख्यमक्षरं ब्रह्म ओतःप्रोतञ्चेत्युक्तम् । अतः स नारायण एवाऽक्षरशब्दाऽभिधेयः । (ब्र.सू.१.३.९)

एतस्य वाऽक्षरस्य प्रशासने गार्गि । सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।

(बृ.उ.३.८.९) इत्यत्र प्रशास्ता नारायण एव अक्षरशब्दाभिध इति निश्चीयते ।’

अस्मिन्नेवाऽधिकरणभाष्ये कथयति सद्गुरुश्रीगोपालानन्दस्वामी यत् ह्येतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति (बृ.उ.५.८.७) इत्यादौ श्रूयमाणमक्षरं परब्रह्माऽभिधः हरिरेव नाऽन्यः । ‘प्रकृतिपुरुषादिसर्वप्रपञ्चधृतिः परमात्मन्येव

[[७८]]

सम्भवति नाऽन्यस्मिन् पुरुषादौ । एतस्य वाऽक्षरस्य प्रशासने गार्गि (बृ.उ.३.८.९) इत्यादौ सूर्यचन्द्रादिभिरुपलक्षिताऽम्बरान्तप्रपञ्चस्य धृतेः श्रवणात् परब्रह्मण इतरस्य एतत्कर्म न सम्भवति । ततोऽत्र पुरुषोत्तम एवाऽक्षरशब्दाऽभिधेयः ।’ इति ।

एवं प्रकारेण अक्षरस्य प्रशासने (बृ.उ.३.८.९) इत्यादिषु श्रुतिवाक्येषु परब्रह्मण एव चराऽचरविश्वप्रशास्तृत्वं स्पष्टतयोद्धोषितम् । तथाप्येते नूतन- व्याख्याकाराः परब्रह्मणा साकमक्षरब्रह्मणोऽपि सर्वेषां प्रशास्तृत्वं कल्पयन्ति । (बृ.उ.भ.भा.३.८.९) एतादृशं कल्पनं तु एकस्मिन्नेव विमानयाने द्वयोः प्रधानसञ्चालकयोर्नियुक्तिः यात्रिकाणां कृते महद्धानिकरी इव भवेत् । एकस्मिन् विमानयाने एक एव प्रधानसञ्चालको भवति, अन्ये सहसञ्चालकास्तु प्रधानसञ्चालकस्य सहकारिण एव भवन्ति ।

श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ वदति भगवान् श्री-स्वामि-नारायणः

ईदृक्सुखनिधिः स्वामिनारायण इतीरितः ॥ रामकृष्णादिरूपाणां हेतुः सर्वेश्वरेश्वरः ॥ अवतार्यक्षराधीशोऽक्षरमुक्तेडितश्रवाः ।

परात्परतरो यश्च सर्वोपर्येव यः सदा ॥ (श्रीहरि.त.२६२.३२,३३)

तत्रैव भगवच्छब्दो मुख्योऽस्ति ब्रह्मशब्दवत् ॥ स एक एव सन्नीशस्तत्समोऽन्यो न नाऽधिकः ॥ तदुपासनया भक्तास्तत्साधर्म्यं व्रजन्ति हि ॥ न तु ते भगवन्तस्तु स्युर्नियन्त्रनवस्थितेः ॥ प्रतीशमिच्छावैजात्यादुत्पत्त्यादेश्च सर्वथा ॥ मर्यादा जगतां नश्येत् स्याच्च धर्मविपर्ययः ॥ न तु तौ भवतस्तस्माद्भगवानेक एव हि ॥ ज्ञेयः स्वतन्त्रो मर्यादापाता सर्वनियामकः ॥

(श्रीहरि.त.२६२.३७ तः ४०)

जगद्व्यापारवर्जम् इत्यादिषु ब्रह्मसूत्रेषु चराऽचरसृष्टेरसाधारणं कारणं परं ब्रह्मैवेति पूर्वाचार्यैः प्रमाणपुरस्सरं प्रतिपादितम्, तथाऽप्येते नूतनव्याख्यानकाराः तत्र न मात्रं परब्रह्म अपि तु ‘अक्षरब्रह्मपरब्रह्मेत्युभयम् असाधारणकारणम्’ इति कल्पयन्ति । (ब्र.सू.भ.भा.४.४.१७)

[[७९]]

भगवता श्रीमद्रामानुजाचार्यवर्येण यथोर्णनाभिः सृजते गृह्णते च….तथाऽक्षरात् सम्भवतीह विश्वम् । (मु.उ.१.१.८) इत्यत्र उक्तस्वरूपात् परब्रह्मण एव कृत्स्नस्य चेतनाऽचेतनात्मकप्रपञ्चस्योत्पत्तिरुक्ता । सद्गुरुश्रीमुक्तानन्द- स्वामिसद्गुरुश्रीगोपालानन्दस्वामिप्रभृतिभिरयमेव पन्था अन्वसारि, तथापि केचन अत्रापि केवलादक्षरब्रह्मणश्चराऽचरात्मकं विश्वं सम्भवतीति कल्पयन्ति । (मु.उ.भ.भा.१.१.८) एवमुभयकारणत्वकल्पनेन परब्रह्मणोऽसाधारणकारणत्वस्य भङ्गो भवति । एतादृशः स्वगोष्ठीन्यायः विद्वत्सभायां न रोचते ।

एते तद्भूतयोनिं परिपश्यन्ति धीराः (मु.उ.१.१.६) इत्यत्र भूतयोनित्वमपि न केवलस्य परब्रह्मण अपि तु अक्षरब्रह्मण इति कल्पयन्ति । (मु.उ.भ.भा.१.१.६)

भगवता बादरायणेन ब्रह्मसूत्रेषु द्युभ्वाद्यधिकरणे परब्रह्मपुरुषोत्तमनारायणस्य एव सर्वाधारत्वं तथा मुक्तिदशायां परं प्राप्यत्वं स्पष्टतया प्रतिपादितम् । पूर्वाचार्यैरपि बादरायणपन्था एवाऽनुसृतः । तथाऽप्येते नूतनव्याख्याकारा अक्षरब्रह्मणः सर्वाधारत्वं मुक्तप्राप्यत्वञ्च कल्पयन्ति । (ब्र.सू.भ.भा.१.३.१,२) तदपि सर्वथाऽसाधु, यतो ह्यक्षरब्रह्मणः प्राप्त्यां सत्यां परब्रह्मणः प्राप्तिर्भवेन्न वा भवेत् । कदाचित्तस्य मुमुक्षोः स्थितिः राज्ञा परित्यक्तायाः राजभवने क्वचित्कोणे पतितायाः राजरमण्या इवाऽपि भवेत् । किन्तु चरमपुरुषार्थभूते मोक्षे परब्रह्मणः प्राप्त्यां सत्यामक्षरादीनां प्राप्तिस्तु तदन्तर्गता एव स्यात्, अतस्तस्य पृथक्त्वेन कल्पनस्य आवश्यकतैव नाऽस्ति ।

नूतनव्याख्याकारग्रन्थेष्वेवंविधानि बहूनि पूर्वाचार्यप्रतिपादितसिद्धान्तविरुद्धानि अत एवाऽप्रामाणिकानि व्याख्यानानि सन्ति । अत्र तु कानिचिदेव निदर्शितानि ।

भगवता बादरायणेन, श्रीमद्रामानुजाचार्यवर्येण, शास्त्रमर्मज्ञैः सद्गुरुभिः श्रीगोपालानन्दस्वामिमुक्तानन्दस्वामिप्रभृतिभिः स्पष्टतयोद्धोषितं परब्रह्मपुरुषोत्तम- नारायणस्यैव असाधारणकर्तृत्वादिकं सूर्यवत्प्रकाशते तथाऽप्येते भगवता पुरुषोत्तमनारायणेन साकमक्षरब्रह्मणोऽपि सृष्ट्यसाधारणकारणत्वादिकं प्रतिपादयितुं हठात्प्रयतन्ते ।

एतेषां बुद्धौ परब्रह्मणा साकं येन केन प्रकारेणाऽक्षरब्रह्मणोऽपि नियोजनाय सुदृढोऽभिनिवेशो वर्तते । अत एतैः प्रतिपादितः परब्रह्माऽक्षरब्रह्मोभयकारणवादः स्वमतिकल्पित एव, न प्रामाणिकः ।

अस्य प्रकरणस्याऽस्त्ययं निगलितार्थो यत्परब्रह्मपुरुषोत्तमनारायणो भगवान्

[[८०]]

श्री-स्वामि-नारायण एव सर्वकारणकारणः, परमोपास्यः, परमो ध्येयः, सर्वकर्मफल- प्रदाता, चरमपुरुषार्थत्वेन परमप्राप्यश्च वर्तते, नान्यत् किमप्यक्षरादिकमवरं तत्त्वमित्यलं विस्तरेण ।

विशेषविज्ञप्तिः- ब्रह्माऽक्षरादिशब्दा मुख्यवृत्त्या परब्रह्मपुरुषोत्तमनारायणमेव बोधयन्तीति विशेषतः प्रतिपादितं परिशिष्टे ‘ब्रह्माऽक्षरादिशब्दानां मुख्यार्थविचार- प्रकरणे’ ।