श्रुतिस्मृतिवाक्येषु ब्रह्मसूत्रेषु च परब्रह्मपुरुषोत्तमनारायणस्यैव सृष्टेरसाधारण- कारणत्वं स्पष्टतया प्रतिपादितमस्ति । सर्वतन्त्रस्वतन्त्रो परब्रह्मपुरुषोत्तमनारायणः स्वशक्त्या केषाञ्चिदपि अक्षरब्रह्मकालमायामहापुरुषादीनां साहाय्यं विना स्वसङ्कल्पमात्रेण चराऽचरसृष्टेरुत्पादने पालने संहारे च समर्थः, परन्तु तं विना
[[७३]]
तेष्वक्षरादिषु केषुचिदपि एतादृशं सामर्थ्यं नाऽस्ति । अक्षरादीनां सहकारिकारणत्वेन स्वीकारस्तु सर्वतंत्रस्वतंत्रस्य भगवत इच्छाऽधीनं भवति ।
उपनिषत्सु बहुधा परब्रह्मपुरुषोत्तमनारायणो ब्रह्माक्षरादिपदैर्निर्दिष्टो वर्तते तथा च ब्रह्माऽक्षरादिशब्दानाम् अव्यक्तपुरुषाऽक्षरब्रह्मादिषु नानार्थेष्वपि प्रयोगस्य दर्शनात् महान् सन्देहो जायते यत्सृष्टेरसाधारणकारणं किमस्ति ? इति । किम् अव्यक्तम्, प्रधानम्, पुरुषः, अक्षरब्रह्म, परं ब्रह्म वाऽक्षरब्रह्मपरब्रह्मेत्युभयं चेति ?
अस्य समाधानं कुर्वता भगवता बादरायणेन ब्रह्मसूत्रेषु सरितः समुद्रे इव सर्वाः श्रुतिस्मृतिवाक्यसरितः परब्रह्मण्येव पर्यवसायिताः, अत एवाऽक्षरब्रह्मादिशब्दा मुख्यवृत्त्या परब्रह्मण्येव पर्यवस्यन्ति, नाऽन्यत्र परब्रह्मणोऽवरतत्त्वेष्विति स्पष्टम् उद्धोषितम् ।
ब्रह्मसूत्रप्रथमाऽध्याये भगवता बादरायणेन सिद्धान्तितं यत् अथातो ब्रह्मजिज्ञासा (ब्र.सू.१.१.१), जन्माद्यस्य यतः (ब्र.सू.१.१.२), शास्त्रयोनित्वात् (ब्र.सू.१.१.३), तत्तु समन्वयात् (ब्र.सू.१.१.४), जगद्व्यापारवर्जम् (ब्र.सू.४.४.१७) इत्यादिषु सूत्रेषु विषयीभूतानि श्रुतिवाक्यानि चराऽचरविश्वस्याऽसाधारणकारणे सर्वकर्मफलप्रदातरि परब्रह्मण्येव पर्यवस्यन्ते, नाऽन्यत्र । तथा चोपनिषत्सु विद्यमानाः सर्वा दहरादिविद्याः परं ब्रह्म एवोपास्यम्, स एव सर्वाधारः, स एव सर्वशरीरी, स एव चरमपुरुषार्थेण प्राप्य इति बोधयन्ति, न त्वक्षरब्रह्मादिकमिति ।
ब्रह्मसूत्रद्वितीयाऽध्याये भगवता बादरायणेन श्रुतिवाक्यानां मध्ये विद्यमानो यः परस्परं विरोधाभासः तं परिहृत्य परब्रह्मण एव सर्वकारणकारणत्वं दृढीकृतं तथा तेषां वाक्यानामन्यपरत्वभ्रान्तिः सम्यङ् निवारिता ।
अस्मिन्नेवाऽध्याये भगवता बादरायणेन सांख्याऽभिमतप्रकृतिकारणवादः, नैयायिकाऽभिमताऽसत्कारणवादः, नास्तिकाऽभिमतशून्यकारणवादः, कर्मकारण- वादः, कालकारणवादः, स्वभावकारणवादश्चेति दर्शनशास्त्रे प्रसिद्धान् विविधान् कारणवादान् निराकृत्य परब्रह्मणः परमात्मन एवाऽसाधारणकारणत्ववादः सम्यगुपस्थापितः ।
ब्रह्मसूत्रतृतीयाऽध्याये भगवता बादरायणेन जीवादीनां नित्यत्वं तथा च सर्वविधकर्मभिः परब्रह्मणः परमात्मन एव समाराध्यत्वं समर्थितम् । ब्रह्मसूत्रचतुर्थाऽध्याये चरमपुरुषार्थभूते मोक्षे परब्रह्मणः परमात्मन एव प्राप्यत्वं प्रतिपादितम् ।
[[७४]]
श्रीमद्रामानुजाचार्यादिभिराचार्यप्रवरैः सद्गुरुमुक्तानन्दस्वामिप्रभृतिभिश्च भगवतो बादरायणस्यैव पन्थानमनुसृत्य रचितेषु प्रस्थानत्रयभाष्येषु श्रुतिस्मृतिवाक्यानां दधिमन्थनमिव सम्यगालोडनं कृत्वा युक्तियुक्तप्रमाणपुरस्सरं डिण्डिमघोषपूर्वकं सिद्धान्तितं यच्छ्रुतिस्मृत्यादिषु सृष्टेरसाधारणकारणत्वप्रकरणे, ध्यानोपासनप्रकरणे, कर्मफलप्रदातृप्रकरणे, चरमपुरुषार्थप्राप्यत्वप्रकरणे च पठिता अक्षरब्रह्मेत्यादयः शब्दा मुख्यवृत्त्या परब्रह्मपरमात्मानमेव बोधयन्ति, अन्यत्र तेषां प्रयोग उपचारेणेति । भगवता श्री-स्वामि-नारायणेन वचनामृतग्रन्थे बहुवारमेकस्य परब्रह्मणः पुरुषोत्तमनारायणस्यैव सृष्ट्यसाधारणकारणत्वध्येयत्वोपास्यत्वादिकं निरूपितम् । तथा हि अक्षरात्परोऽक्षरातीतो भगवान् पुरुषोत्तमनारायण एव सर्वेषाम् उत्पत्तिस्थितिप्रलयानां कर्ता तथा सर्वेषां कारणमस्ति इति । (दुर्ग.प्र.वच.५१) यदाऽनन्तकोटिब्रह्माण्डानां प्रलयो भवति तदाऽयं प्रत्यक्षः पुरुषोत्तम- नारायण एक एवाऽवशिष्यते । पुनः सर्जनसमये स एव भगवान् प्रकृतिपुरुषद्वाराऽनन्तकोटिब्रह्माण्डानां सर्जनं करोति इति । (दुर्ग.प्र.वच.५६)
यत्र कुत्रचित् किमपि कार्यं भवति तत्तु प्रत्यक्षपुरुषोत्तमनारायणस्य इच्छयैव भवति न तु कालकर्ममायादिभिः । तेषां परमात्माऽधीनत्वात् मुख्यकर्तृत्वं तु प्रत्यक्षपुरुषोत्तमनारायणस्यैव । एवंविधेन विज्ञानेन परं श्रेयो भवति इति । (कारि.वच.१०)
पुरुषोत्तमनारायण एव सर्वकर्ता , सर्वकारणम्, सर्वनियन्ता , सर्वाऽतिशयसौन्दर्यौज्ज्वलसंभृतः , सर्वाऽतिशयिततेजोवान् , अप्रतिहत- शाश्वतसामर्थ्यसंभृतः , कर्तुमकर्तुमन्यथाकर्तुञ्च समर्थोऽस्ति । (लौह.वच.१३)
कथयति भगवान् श्री-स्वामि-नारायणः श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ
मायापुरुषकालानां स्वभावगुणकर्मणाम् ॥ तत्त्वादीनाञ्च कर्तृत्वं ब्रह्माण्डानां न विद्यते ॥ किन्तु स्वतन्त्रकर्तृत्वमेकस्यैव रमापतेः ॥ अस्त्यन्यस्य तु तच्छक्त्या कर्तृतोक्ताऽस्ति न स्वतः ॥
(श्रीहरि.त.५९.७,८)
एवं श्रुतिस्मृतिब्रह्मसूत्रेषु पूर्वाचार्यविरचितैः प्रस्थानत्रयभाष्येषु च परब्रह्मपुरुषोत्तमनारायणस्यैव चेतनाऽचेतनविश्वं प्रत्यसाधारणकारणत्वादिकं
[[७५]]
प्रतिपादितम्, तदतिरिक्तानामक्षरब्रह्मादीनामसाधारणकारणत्वं प्रतिषिद्धम् ।