१६ ब्रह्मपरब्रह्मणोर्मध्ये भेदः

ब्रह्मतत्त्वं यद्यपि स्वरूपस्वभावगुणैः प्रायेण परब्रह्मणा सदृशमस्ति, तथाऽपि ब्रह्मपरब्रह्मणोर्मध्ये आकाशपातालयोरिव महदन्तरं विद्यते ।

परब्रह्मणः स्वरूपस्वभावगुणाः त्रिविधपरिच्छेदरहिताः स्वाभाविकाः अनवधिकातिशयाः सन्ति । ब्रह्मणस्तु ते गुणा भगवत्कृपाधीना वर्तन्ते ।

ब्रह्मपरब्रह्मणोर्मध्ये सेवकस्वामिभावः, शेषशेषिभावः, शरीरशरीरिभावः, नियाम्यनियामकभावः, व्याप्यव्यापकभावः, आधेयाधारभावः, उपासकोपास्यभावश्च इत्येते सम्बन्धा नित्यत्वेन वर्तन्ते ।

परब्रह्मणि सर्वकर्मफलप्रदातृत्वमस्ति, ब्रह्मण्येवंविधमसाधारणमैश्वर्यं नाऽस्ति । परब्रह्म स्वतन्त्रमस्ति, अक्षरब्रह्मादिकं सर्वं परब्रह्माऽधीनमस्ति । परब्रह्म अक्षरादिकस्य सर्वस्याऽऽधारं नियामकञ्चाऽस्ति ।

श्रुतयोऽप्यक्षरब्रह्मपरब्रह्मणोर्मध्ये स्पष्टं भेदं दर्शयन्ति । तद्यथा अक्षरात्परतः परः (मु.उ.२.१.२) इति । अत्राऽक्षरशब्दोऽव्यक्तरूपमायापरः । अव्यक्तस्य स्वरूपतोऽविनाशित्वात् तत्रोपचारात् अक्षरशब्दप्रयोगः । अक्षरादव्यक्तात्परतः पुरुषादर्थात् महापुरुषात्तथैवाऽक्षरब्रह्मणोऽपि परः परब्रह्मपुरुषोत्तमनारायणो वर्तते ।

एतद्विषये विशेषतः सद्गुरुमुक्तानन्दस्वामिना तथा सद्गुरुगोपालानन्दस्वामिना कृतम् अदृश्यत्वादिगुणको धर्मोक्तेः (ब्र.सू.१.२.२२) इति ब्रह्मसूत्रभाष्यं द्रष्टव्यम् ।

[[७०]]

मायायाः परं यदक्षरम्, ततोऽपि परः परब्रह्मपुरुषोत्तमनारायणोऽस्ति । तदुक्तञ्च सुबालोपनिषदि योऽक्षरमन्तरे सञ्चरन् यस्याऽक्षरं शरीरं यमक्षरं न वेद (सु.उ.६) इति ।

परब्रह्म पुरुषोत्तमनारायणोऽक्षरब्रह्मण्यन्तर्यामितया विराजते । अतोऽक्षरब्रह्म परमात्मशरीरमस्ति । यद्यप्यक्षरं महदस्ति तथाऽपि परमात्मनो माहात्म्यं याथातथ्येन ज्ञातुं न क्षमम् । भगवान् श्री-स्वामि-नारायणो दुर्गपत्तनीयप्रथमप्रकरणीये चतुष्षष्टितमे (६४) वचनामृतेऽक्षराऽऽत्मानौ भगवच्छरीरभूतौ कथम् ? इतीमं विषयं हृदयङ्गमतया प्रत्यपीपदत् ।

एकदा लौहग्रामे विराजमानं भगवन्तं श्री-स्वामि-नारायणं नित्यानन्दमुनिः पप्रच्छ हे स्वामिन् ! अक्षरधामनि स्थिता मुक्ताश्चैतन्या नैर्गुण्यमापन्ना भगवत्सधर्माणः कालमायाभयोज्झिताः सन्ति । एवं सति तेषां मुक्तानां तथा तत्र वर्तमानस्य भगवतो भेदः कथं ज्ञातव्यः ? इति । प्रश्नमिमं समादधानो भगवान् श्री-स्वामि-नारायण उपदिशति यत् हे महामुने ! पश्यतु तेजोविग्रहतासाम्येऽपि चन्द्रमसः तारकाणां मध्ये महान् भेदोऽस्ति । चन्द्रमण्डलं तारामण्डलतः प्रकाशदृष्ट्योत्कृष्टं वर्तते । किञ्चैतेषां बिम्बेष्वपि वर्तते महान् भेदः । ओषधीनाञ्च सर्वासां पोषणं चन्द्रेणैव जायते , न तु लक्षावधिकतारकाभिः । तथा च नैशतमसो निरासश्चन्द्रेणैव जायते , न त्वन्यतारकाभिः । एवमेव नारायणमुक्तयोर्मध्ये महान् भेदोऽस्ति ।

किञ्च राजसेवकयोर्मनुष्यत्वसाम्येऽपि राज्ञः सामर्थ्यैश्वर्यरूप- लावण्यानि सर्वोपरीणि सन्ति । राजसेवको कियानपि सामर्थ्यवान् भवतु कामम् , तथाऽपि राज्ञा यत्कर्तुं शक्यते , न तत्सेवकस्तथा कर्तुं समर्थः ।

एवमेव पुरुषोत्तमनारायणः सर्वकर्ता , सर्वकारणम्, सर्वनियन्ता , सर्वाऽतिशयसौन्दर्यौज्ज्वलसंभृतः , सर्वाऽतिशयिततेजोवान् , अप्रतिहत- शाश्वतसामर्थ्यसंभृतः , कर्तुमकर्तुमन्यथाकर्तुञ्च समर्थोऽस्ति ।

अपि च यत्राऽक्षरे पदे स विराजते , तदक्षरमपि स्वात्मनि प्रविलाप्य स्वराड् भूत्वा स्वयमेवैकाकी स्थातुं क्षमः । यदि स भगवानिच्छेत्तर्हि अक्षरधाम विनाऽपि स्वीयाननन्तान् मुक्तान् नैजैश्वर्येण धर्तुं समर्थोऽस्ति ।

अतो भगवान्नारायणस्त्वेक एवाऽद्वितीयोऽस्ति , तत्समो नाऽन्यो विद्यते। अपि च ‘एकमेवाऽद्वितीयं ब्रह्म’ इत्यस्याः श्रुतेरप्ययमेवाऽर्थोऽस्ति यन्नारायणसदृशस्तु नारायण एव , नाऽन्यः कोऽपीत्येवमेव सर्वशास्त्र-

[[७१]]

सिद्धान्तो वर्तते इति । (लौह.वच.१३)

भगवान् परब्रह्मपुरुषोत्तमनारायणः सर्वेषामक्षरादीनामात्माऽस्ति । परब्रह्मपुरुषोत्तमनारायणसदृशं सामर्थ्यं प्राप्तुं न केऽप्यक्षरादयः समर्था भवन्ति ।

परब्रह्मपुरुषोत्तमनारायणस्य दिव्यविग्रहे अक्षरादिभ्यः सर्वेभ्य अतिशयेन सूक्ष्मत्वम् , अतिशयेन निर्लेपत्वम् , अतिशयेन शुद्धत्वम् , अतिशयेनाऽसङ्गित्वम् , अतिशयेन प्रकाशयुक्तत्वम् , अतिशयेनैश्वर्ययुक्तत्वञ्च विद्यते । इदमेव भगवतो नैर्गुण्यं ज्ञेयम् इति । (कारि.वच.८)

भगवान् श्री-स्वामि-नारायणो दुर्गपत्तनीयप्रथमप्रकरणस्थे द्विसप्ततितमे (७२) वचनामृते वदति यत् भगवान् यथा क्षरस्याऽऽत्माऽस्ति तथैव प्रकृतिपुरुषपरस्य अक्षरब्रह्मणोऽप्यात्माऽस्ति । अपि च क्षराऽक्षरोभयं स्वसामर्थ्येन धरति स्वयञ्च क्षराऽक्षरपरतया विराजते इति । (दुर्ग.प्र.वच.७२)

इत्थम्प्रकारेण ब्रह्मपरब्रह्मणोर्भेदोऽयमनादिरस्ति । जीवमायेशाऽक्षरब्रह्मसु नैकोऽपि परब्रह्मपुरुषोत्तमनारायणसमो भवितुं समर्थोऽस्ति । तदुक्तञ्च श्रुतिवाक्ये न तत्समश्चाऽभ्यधिकश्च दृश्यते (श्वे.उ.३.६.८) इति । परब्रह्मपुरुषोत्तमनारायणसमो नैव कश्चिदस्ति, नाऽपि च तदधिकः कश्चिदस्ति ।

वेदेष्वद्वितीयपदस्याऽपीदमेव हार्दमस्ति । यथा कश्चित्पृच्छति गृहे के के सन्ति ? तदोत्तरं प्राप्यते यद्गेहे देवदत्त एक एवाऽस्ति, नाऽन्यः कश्चिदपि । अस्योत्तरस्य अयमर्थो नाऽस्ति यत् गृहे नानाविधसाधनसामग्र्यो वा वैभवं किञ्चिदपि नाऽस्ति, परंतु अयमर्थोऽस्ति यद्गेहे देवदत्तसदृशमन्यत् किञ्चिदपि नाऽस्तीति ।

अद्वैतिनस्तु एकमेवाऽद्वितीयं ब्रह्म (छा.उ.६.२.१) इति श्रुतेरर्थघटनं सर्वभेदशून्यम् इति करोति, किन्तु न हि सर्वभेदशून्येन सृष्टिः सम्भवति, अतोऽयमर्थो न तर्कसम्मतो न वा शास्त्रसम्मतो वर्तते ।

श्रीमद्भगवद्गीतायाः पुरुषोत्तमयोगनामके पञ्चदशाऽध्यायभाष्ये ब्रह्मपरब्रह्मणोः मध्ये यो भेदः, स तु अत्यन्तं स्फुटतया विवृण्वद्भिः सद्गुरुचरणैः श्रीगोपालानन्द- स्वामिभिः प्रतिपादितं यत्

द्वाविमौ पुरुषौ लोके क्षरश्चाऽक्षर एव च ॥

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ (भ.गी.१५.१६) उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ॥

[[७२]]

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ (भ.गी.१५.१७) यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ॥

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ (भ.गी.१५.१८)

अत्र क्षरो नाम स्वस्वरूपप्राप्त्यभावात् शुभाऽशुभकर्मप्राप्तेभ्यः करणकलेवर- स्थानभोगेभ्यः क्षरति विच्युतो भवतीति । प्रकृतिकार्यसंयुक्तान्यनाद्यविद्यया निबद्धानि शुभाऽशुभकर्माऽधीनानि समग्राणि चेतनानि क्षर इति शब्देनोच्यते ।

कूट अर्थात् पर्वत इव निश्चलस्वस्वरूपेणाऽवतिष्ठते इति कूटस्थः । भगवत्कृपया प्राप्तेभ्य अप्राकृतनिर्गुणकरणकलेवरस्थानेभ्यो न च्युतो भवतीति अक्षर उच्यते । अत्राऽक्षरपदेन ‘अक्षरब्रह्मनित्यमुक्तपुरुषसमुदायो ब्रह्मसंज्ञं भगवद्धाम’ च गृह्यते ।

यस्तु क्षराऽक्षरशब्दवाच्याभ्यामुभयविधाभ्यां पुरुषसमूहाभ्याम् अन्यः स्वरूपस्वभावादिभिरतिविलक्षणः, यश्च परमात्मेत्युदाहृतः, यश्च लोकत्रयं नाम ब्रह्मपुरतत्स्थमुक्तकोटय आद्यो लोकः, प्रधानपुरुषकोटयो द्वितीयो लोकः, सजीवानि प्रधानपुरुषकार्याणि तृतीयो लोकश्चैतदाविश्याऽन्तर्यामितया प्रविश्य बिभर्ति, यश्चाऽविनाशी, ईश्वरोऽस्ति, स पुरुषोत्तमो वर्तते ।

क्षरभावाऽऽसक्तं कर्माऽधीनं चेतनवर्गमतिक्रम्य स्थितः, बद्धक्षेत्रज्ञेभ्य उत्कृष्टतरादक्षरपुरुषवर्गादपि च स्वरूपस्वभावादिभिरुत्कृष्टतमः परमपुरुषोऽस्ति, अतः क्षराऽक्षराभ्यामुत्तमत्वात् श्रुतौ स्मृतौ च पुरुषोत्तम इति नाम्ना परमात्मा विख्यातः । अनेन ब्रह्मपरब्रह्मणोर्मध्ये भेदः स्पष्टतयाऽवगम्यते ।

केचन त्वस्मिन् श्लोके विद्यमानेन अक्षरपदेन केवलम् अक्षरब्रह्मणो ग्रहणं कुर्वन्ति नित्याऽक्षरपुरुषान् परित्यजन्ति । एवंकरणे अक्षरब्रह्मपरब्रह्मणोर्भेदस्तु सिद्ध्यति, परंतु नित्याऽक्षरमुक्तसमुदायतः परब्रह्मणो भेदो न सिद्ध्यति, अतोऽयमर्थस्तर्काऽसङ्गतत्वात् पूर्वाचार्यप्रतिपादितसिद्धान्तविरुद्धत्वात् तथा अर्धजरतिन्यायतुल्यत्वादसाधु, अत एवाऽनादरणीयः ।