ईश्वरस्तु विराडादिदेहत्रयाऽभिमानी भवति, ब्रह्म तावदेतादृशाऽभिमानशून्यं भवति । ईश्वराणामुत्पत्त्याद्यवस्थात्रयमस्ति, ब्रह्म तावदवस्थाऽतीतमस्ति । ईश्वराणां मायिकैस्त्रिभिर्गुणैः सम्बन्धो भवति, परन्तु ब्रह्म सर्वथा मायिकगुणरहितमस्ति ।
ईश्वरा महान्तः सन्तोऽपि मायाबद्धाः सन्ति, ब्रह्म तु मायातो मुक्तमस्ति । ईश्वराणां परमात्मना सह साक्षात् सम्बन्धो नाऽस्ति, ब्रह्मणस्तावत् परमात्मना सह साक्षात्सम्बन्धो वर्तते ।
ईश्वरा अनिरुद्धप्रद्युम्नसंकर्षणानुपासते । ब्रह्म तावत् सर्वकारणकारणं परब्रह्म पुरुषोत्तमं नारायणमुपास्ते । ईश्वरब्रह्मणोरयं भेदोऽनादिरस्ति ।