१४ जीवेश्वरयोर्मध्ये भेदः

पञ्चस्वनादिभेदेषु मायातत्त्वम् इतरेभ्यश्चतुर्भ्यः सर्वथा विजातीयमस्ति, अतो मायातोऽन्येषाञ्चतुर्णां भेदस्तु सुतरां स्पष्टोऽस्ति । किन्तु जीवेश्वराऽक्षरब्रह्मपरब्रह्मणां चतुर्णां मध्ये योऽनादिभेदोऽस्ति, तद्भेदघटकानीषद्विचारयेम ।

जीवस्तु स्थूलसूक्ष्मकारणदेहत्रयाऽभिमान्यस्ति । विराट्सूत्रात्माऽव्याकृतदेह- त्रयाऽभिमानी ईश्वरो वर्तते । जीवानां देहसृष्टिस्तु पञ्चभिरल्पभूतैर्जाताऽस्ति । ईश्वरदेहसृष्टिः पञ्चमहाभूतैर्जाताऽस्ति ।

जीवस्य जाग्रत्स्वप्नसुषुप्तय इमास्तिस्रोऽवस्थाः सन्ति । वैराजस्येश्वरस्य

[[६८]]

उत्पत्तिस्थितिप्रलयाख्यास्तिस्रोऽवस्थाः सन्ति । जीवस्य देहत्रयम् अवस्थात्रयं तु वैराजपुरुषस्य शरीरत्रितयेन अवस्थात्रितयेन च सह कार्यकारणभावेन संयुक्तं वर्तते ।

जीवस्य स्थूलशरीरस्य सम्बन्धो वैराजनारायणस्य विराड्देहेन सह विद्यते । जीवस्य सूक्ष्मशरीरस्य सम्बन्धो हिरण्यगर्भात्मकवैराजनारायणस्य सूत्रात्मशरीरेण साकं वर्तते । जीवस्य कारणदेहस्य सम्बन्धस्त्वीश्वरात्मकवैराजनारायणस्य अव्याकृतशरीरेण साकमस्ति ।

जीवस्य जाग्रदवस्थायाः सम्बन्धो हिरण्यगर्भस्य स्थित्यवस्थया सार्धमस्ति । जीवस्य स्वप्नदशायाः सम्बन्धो वैराजनारायणस्योत्पत्त्यवस्थया सहाऽस्ति । जीवस्य सुषुप्तिदशायाः सम्बन्ध ईश्वरस्य प्रलयदशया सहाऽस्ति ।

वैराजनारायणस्य प्राणस्तु महाप्राणः तथा जीवमात्रस्य प्राण अल्पप्राणः कथ्यते । सत्सङ्गिजीवनग्रन्थे भगवान् श्री-स्वामि-नारायणो भणति यत्

अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । स महाप्राण इत्याहुर्यत्तत्सूत्रमिहोदितम् ॥ (स.जी.४.६८.३३)

यदा जीवमात्रं श्वसिति तदा केवलं जीवानां देहा एव स्पन्दन्ते, परन्तु यदा वैराजनारायणः श्वसिति तदा समग्रब्रह्माण्डं स्पन्दते ।

जीवाः कर्माधीना भवन्ति । ईश्वराः परमात्मेच्छाधीना भवन्ति । दर्शनशास्त्रेषु जीवप्राणिमात्रं व्यष्टिरित्युच्यते, परन्तु वैराजनारायणः समष्टिरूपेणाऽभिज्ञायते ।

जीवानां कदाचिदूर्ध्वगमनम्भवति, जातुचिदधोगमनम्भवति । जीवाः कदाचित् पिपीलिकामशकादयो भवन्ति, कदाचिच्चेन्द्रादयो देवा भवन्ति, किन्त्वीश्वराणाम् अधोगमनं कदापि न भवति । परब्रह्मण उपासनया तेषामूर्ध्वगमनं सम्भवति । तेषामीश्वराणामिन्द्रादिजीवकोटिरिव उच्चनीचयोनिषु भ्रमणं न भवति ।

भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे वक्ति यत् स वैराजपुरुषो यावत्पर्यन्तं सगुणब्रह्मात्मकान् अनिरुद्धप्रद्युम्नसङ्कर्षणानुपास्ते , तावत्पर्यन्तं तस्य वैराजपुरुषस्योत्पत्तिस्थितिप्रलयात्मको यो मायिकसम्बन्धः , स न निवर्तते । यदा च वैराजपुरुषो निर्गुणं परं ब्रह्म भगवन्तं वासुदेवमुपास्ते , तदैव स मायां सन्त्यज्य ब्रह्मभावं भजते इति । (दुर्ग.म.वच.३१) जीवेश्वरयोरयं भेदोऽनादिर्वर्तते ।

[[६९]]