परब्रह्म परमात्मा मायातीते दिव्ये भूरितेजोमयेऽक्षरधामनि विराराज्यते तद्दिव्यधाम वर्णयन्तो वेदा आमनन्ति यत्
यत्र गावो भूरिशृङ्गा अयासः । अत्र ह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि । (ऋग्वेद ८.२.२.२४) यत्र अक्षरधाम्नि अयासः अतिविस्तृताः भूरिशृङ्गा अनन्ता निरतिशयदीप्तियुक्ताः गावः रश्मयः सन्ति । अनेन अक्षरधाम्नो भूरितेजोमयत्वं प्रतिपादितम् । भूरितेजोमयत्वादिदं दिव्यं धाम ‘गोलोक ः ’ इत्यपि कथ्यते ।
अत्र ह अस्मिन् खलु दिव्ये तेजोमये लोके उरुगायस्य बहुभिर्नित्यसूरिभिः अभिष्टूयमानस्य वृष्णः कामानामभिवर्षितुः परब्रह्मपुरुषोत्तमनारायणस्य परमं पदं सर्वोत्कृष्टं स्थानं भूरि अनन्तविस्तारम् अवभाति सम्प्रकाशते ।
अस्मिन्नक्षरधाम्नि भगवान् परब्रह्मपुरुषोत्तमनारायणो नैकाकी, किन्तु स अनन्तैर्मुक्तैः नित्यैर्महापुरुषाऽक्षरब्रह्मादिभिश्च परिजनैर्नित्यं परिसेवितो विराजते ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः (पु.सू.१६) इति ।
ते ह यज्ञादिसाधनैः परमात्मोपासका अत एव महिमानो महिमावन्त आराधका नाकम् आनन्दघनपरिपूर्णं धाम गच्छन्ति । हकारस्तु निश्चयार्थः । यत्र धामनि पूर्वे साध्याः अनादिसिद्धाऽक्षरात्मानः सन्ति । अनेनाऽक्षरधाम्नि मुक्तात्मनामक्षरधामगमनं तथा तत्र नित्यतया निवसमानामक्षरादीनां विद्यमानत्वं प्रतिपादितम् ।
यत्र ऋषयः प्रथमजाः ये पुराणाः (तै.सं.४.७.१३.२) इति ।
प्रलयवेलायां यदा नामरूपात्मकं जगत् प्रकृतिगर्भे व्यलीयत तदा प्रकृत्यतीते परमात्मनो दिव्यधामनि नित्यसिद्धास्त्रिकालज्ञा आत्मानो व्यराजन्त ।
तद्विप्रासो विपन्यवो जागृवाँसः समिन्धते । विष्णोर्यत् परमं पदम् । (ऋग्वेद १.२.७.२१)
विष्णोः व्यापनशीलस्य परमात्मनो यत् परमं पदं सर्वोत्कृष्टं स्थानं वर्तते,
[[६६]]
तत् तत्र विप्रासो मेधाविनः जागृवाँसः अप्रस्खलितज्ञानाः नित्यमुक्ताः विपन्यवः सदा स्तुतिशीलाः समिन्धते परब्रह्मपुरुषोत्तमनारायणस्य सम्यगाराधनं कुर्वन्ति ।
तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः (सु.उ.६) इति । सर्वव्यापिनो भगवतो विष्णोर्यत्सर्ववरिष्ठं धाम तत्सूरयो नित्यमनुभवन्ति । तदक्षरे परमे व्योमन् (तै.ना.उ.१.२) इति । मायायाः परस्मिन्नक्षरात्मके परमे व्योम्नि परमात्मा विराराज्यते ।
श्रीमद्भागवतपुराणस्य तृतीयस्कन्धे मैत्रेयर्षिरक्षरधाम वर्णयन्नाह
तदाहुरक्षरं ब्रह्म सर्वकारणकारणम् ॥
विष्णोर्धाम परं साक्षात्पुरुषस्य महात्मनः ॥ (भा.पु.३.११.४१)
पृथिव्याद्यष्टाऽऽवरणसहितमेकं ब्रह्माण्डं वर्तते । एवंविधास्तु कोटिशो ब्रह्माण्डाः सन्ति । इमानि ब्रह्माण्डानि यत्र परमाणुवदुड्डीयन्ते तदक्षरब्रह्माऽस्ति । तदक्षरब्रह्म प्रकृतिपुरुषादेः सर्वकारणस्य कारणमस्ति । किञ्च पुराणपुरुषस्य परमात्मनो भगवतः श्रीविष्णोर्नारायणस्य श्रेष्ठं धामाऽस्ति ।
अत्राऽक्षरस्य सर्वकारणकारणत्वन्तु अनेन जीवेन आत्मनाऽनुप्रविश्य (छा.उ.६.२.३) इति श्रुत्यनुसारेण परब्रह्मणोऽनुप्रवेशेन गौणं ज्ञेयमन्यथा नैकश्रुतिस्मृतिविरोधः स्यात् । अतोऽसाधारणतया सर्वकारणकारणत्वं परब्रह्मण एव, न त्वक्षरब्रह्मणः । नारदपञ्चरात्रेऽपि इदमुद्यते यत्
परं ज्योतिरुपसन्नाः सर्वे ब्रह्मात्मरूपिणः ॥ परमात्मानमेवैकं ध्यायन्ते तत्परायणाः ॥ (ना.प.२.७४) सर्वं ब्रह्ममयं तत्र मुक्तानां सूरिणां मुने ॥ (ना.प.२.७५)
परं दिव्यं ज्योतीरूपं प्राप्ताः सर्वे ब्रह्मरूपिण आत्मानः केवलं परब्रह्मणः पुरुषोत्तमनारायणस्य स्वरूपे निमग्नाः सन्तः तस्यैव ध्यानं कुर्वन्ति । अक्षरधाम्नि सूरीणामर्थात् त्रिकालदर्शिनां मुक्तात्मनां मध्ये अयं नरः, एषा नारी, एतन्नान्यतरम् इत्येवं कोऽपि भेदो नास्ति । सर्वमत्र ब्रह्ममयमस्ति ।
भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे प्रावोचत् यत् अक्षरधाम्नि परमतेजोमयभगवन्मूर्तेः परितोऽनन्तानि मुक्तमण्डलानि सन्ति । ते सर्वे केवलं भगवन्मूर्तावेव दत्तदृष्टयः सन्तः परमानन्दमयस्य तस्याऽऽनन्दं भुञ्जाना वर्तन्ते इति । (दुर्ग.म.वच.१३)
शास्त्रेषु परमात्मनोऽनेकेषां दिव्यधाम्नां वर्णनमस्ति । तत्तद्धामसु परमात्मा
[[६७]]
विविधरूपैर्विराजते । भगवता श्री-स्वामि-नारायणेन पञ्चालानगरस्य प्रथमे वचनामृते अक्षरधाम्नः सर्वश्रेष्ठत्वमुक्तम् । तद्यथा
पशुतो मनुष्याणां सुखमधिकं वर्तते, मनुष्येभ्यः राज्ञः सुखमधिकं वर्तते, ततो देवतानां सुखमधिकं वर्तते, तत इन्द्रस्य सुखमधिकं वर्तते, ततो बृहस्पतेः सुखमधिकं वर्तते, ततश्चतुर्मुखब्रह्मणः सुखमधिकं वर्तते, ततो वैकुण्ठलोकस्य सुखमधिकं वर्तते, ततो गोलोकस्य सुखमधिकं वर्तते, ततोऽक्षरधाम्नः सुखम् अत्यधिकमस्ति ।
यः बुद्धिमान् पुरुष एवं प्रकारेण भगवत्सुखमत्यधिकं जानाति तस्य कृते यानि यान्यन्यानि पञ्चविषयसम्बन्धीनि सर्वाणि सुखानि तानि तुच्छानि भवन्ति । (पञ्चा.वच.१)
सन्दर्भेऽस्मिन् विज्ञेयो विवेकोऽयमस्ति यत्सामान्येनेदं प्रतीयते यदक्षरधाम परमात्मानं धारयद्वर्तते, किन्तु वस्तुतः परमात्मैवाऽक्षरधाम्न आधारोऽस्ति ।
वचनामृतग्रन्थे भगवान् श्री-स्वामि-नारायणो ब्रवीति यत् यदि भगवानिच्छेत् तर्ह्यक्षरधामस्थान् सर्वान् मुक्तान् स्वतेजसि प्रविलाप्य स्वयमेकाक्येव स्थातुं समर्थोऽस्ति । किञ्च निजाऽऽवासममक्षरमप्यात्मनि प्रत्याकृष्य निजशक्त्यैव स्वयं स्थातुं क्षमो वर्तते । यदि स भगवान् कामयेत , तर्हि विनाऽक्षरमपि स्वातन्त्र्येण विधारणसामर्थ्येनाऽखिलाँस्तान् मुक्तान् धर्तुं समर्थोऽस्ति इति । (लौह.वच.१३)
परब्रह्म पुरुषोत्तमनारायणोऽक्षरादिकस्य सर्वस्याऽऽधारः सर्वस्य स्वाम्यस्ति । अक्षरधामस्थं तमक्षरब्रह्माऽक्षरमुक्तादयो दास्यभावेनोपासते ।