उपनिषदात्मके वेदान्तदर्शने तावद्भगवान् सगुणो वा निर्गुणः ? साकृतिर्वा निराकृतिः ? मूर्तो वाऽमूर्तोऽस्ति ? इत्येषां प्रश्नानां समाधानकरणे स्पष्टा मीमांसा व्यधायि ।
काश्चन वेदश्रुतयो भगवतो निर्गुणनिरवयवत्वप्रतिपादिकाः सन्ति । यथा निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.उ.६.१९) इति ।
परमात्मा तावन्निष्कलोऽस्त्यर्थादवयवशून्योऽस्ति । निष्क्रियोऽस्ति, शान्तोऽस्ति, शुद्धः, निरञ्जनश्चाऽस्तीति ।
काश्चिच्छ्रुतयो भगवतः सगुणसावयवत्वप्रतिपादिकाः सन्ति । तद्यथा पराऽस्य शक्तिर्विविधैव श्रूयते , स्वाभाविकी ज्ञानबलक्रिया च (श्वे.उ.६.१७) इति ।
[[६०]]
ज्ञानशक्तिः, धारणशक्तिः, क्रियाशक्तिरित्येवमनेकविधाः शक्तयो भगवति नैसर्गिकाः नित्याश्च भवन्ति ।
अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः (छा.उ.८.१.५) इति । परमात्मा सदा सर्वदा निष्पापः, निर्जरः, निर्गतमरणः, हर्षशोकबुभुक्षापिपासाद्यूर्मिशून्यश्च वर्तते । परमात्मनो भोगा भोगसामग्र्यश्च सत्याः सन्ति तथा तदीयाः सर्वे सङ्कल्पाः सत्याः सन्ति ।
अत्र निर्गुणत्वसगुणत्वप्रतिपादिकासु श्रुतिषु विरोधाभासो दृश्यते । तन्निराकरणाय भगवत्पादाः श्रीशङ्कराचार्या निर्गुणश्रुतीनां प्राधान्यमपरश्रुतीनां च गौणत्वं स्वीकृत्य निर्गुणनिराकारब्रह्मणः प्रतिपादनं चक्रुः ।
भगवत्पादः श्रीरामानुजाचार्यो निर्गुणत्वसगुणत्वोभयविधाः श्रुतीर्मुख्यतया उररीकृत्याऽर्थभेदेन विरोधाभासं परिजहार ।
सगुणत्वं निर्गुणत्वञ्चेत्युभौ विरोधिनौ धर्मौ स्तः । एवं विरुद्धधर्मयोः युगपदेकत्रैवाऽधिष्ठाने कथं स्थितिर्भवितुमर्हति ? प्रश्नमिमं समादधानैः श्रीरामानुजाचार्यैर्न्यगादि यद्भगवतो मायिकगुणराहित्यात् स निर्गुणोऽस्ति, अत एव वेदास्तं निर्गुणम् आहुः ।
भगवाननन्ताऽखिलहेयप्रत्यनीकसमस्तकल्याणकृद्दिव्यगुणाकरोऽस्ति, अतो वेदास्तं सगुणम् आमनन्ति ।
भगवता श्री-स्वामि-नारायणेन वचनामृतग्रन्थे भगवतः सगुणत्वनिर्गुणत्वयोः अन्याऽपि मनोज्ञा व्याख्या कृताऽस्ति । तद्यथा परब्रह्मपुरुषोत्तमनारायणस्य अन्तर्यामिशक्त्या अणोरपि अणीयस्त्वं निर्गुणरूपं वर्तते । व्यापकशक्त्या महतोऽपि महीयस्त्वं सगुणरूपं वर्तते (का.वच.८) इति ।
कथयति भगवान् श्री-स्वामि-नारायणः श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ
क्षरात्मा चाऽक्षरात्मा च क्षराऽक्षरपरोऽस्ति सः । एकैकरोम्ण्यनन्ताण्डनिवासान्महतो महान् ॥
(श्रीहरि.त.७२.३२)
परब्रह्मपुरुषोत्तमनारायणः क्षरस्य क्षरणशीलस्वभावस्य सूक्ष्मस्य अणुरूपस्य जीवात्मनस्तथा सूक्ष्मतरस्य अक्षरस्याऽपि आत्मत्वेन सूक्ष्मतमोऽस्ति । तथा च एकैकस्मिन् रोमकूपेऽनन्ताण्डनिवासात् सावरणाऽन्तकोटिब्रह्माण्डावसतेर्हेतोः
[[६१]]
महतोऽपि विशालात् अनन्तकोटिपुरुषाकृतिमुक्ताधाराद् भगवद्धामभूतात् अक्षरब्रह्मणोऽपि महान्, स्वभावादिभिः अत्युत्कृष्टोऽस्ति । इदमेव भगवत अणोरणीयस्त्वं महतो महीयस्त्वं वर्तते ।
सद्गुरुणा मुक्तानन्दस्वामिनाऽपि वचनामृतग्रन्थे भगवन्तमुद्दिश्य पृष्टं यत्
एकस्यैव द्विधा भावो विरुद्धस्ते परस्परम् ॥
कथं सम्भवतीत्येतत्कृपया वक्तुमर्हसि ॥ (श्रीहरि.त.१०४.५)
ननु एकस्यैव पदार्थस्य युगपत्सगुणत्वं निर्गुणत्वमिति परस्परं विरुद्धधर्मत्वरूपो द्विधा भावः कथं सम्भवति ? अस्य प्रश्नस्योत्तरं प्रददता निगदितं भगवता श्री-स्वामि-नारायणेन श्रीहरिवाक्यसुधासिन्धौ
एकस्य वस्तुनो नास्ति द्विधा भावः सदुत्तम ॥ स्थूलता सूक्ष्मता चेति द्वे शक्ती भवतः प्रभो ॥ शक्तिशक्तिमतोः शास्त्रेष्वभेदस्य विवक्षया ॥ शक्तिमान् भगवानेव सूक्ष्मः स्थूलश्च कीर्त्यते ॥ अतो न संशयः कार्यः सूक्ष्मस्य स्थूलता कथम् ॥ स्थूलस्य सूक्ष्मता चेति शक्तिकोटिपतिः प्रभुः ॥
(श्रीहरि.त.१०४.७,३१,३२)
अत्र सूक्ष्मत्वं नाम निर्गुणत्वम् । स्थूलत्वं नाम सगुणत्वम् । अयं द्विधा भावस्तु धर्मे वर्तते, न तु धर्मिणि ।
ननु भगवतो निर्गुणरूपं सूक्ष्मतोऽपि सूक्ष्मतमं वर्तते । सगुणरूपं स्थूलतोऽपि स्थूलतमं वर्तते तर्हि उभयस्य रूपस्य धर्तुर्भगवतो मूलरूपं कीदृशमस्ति ? इत्यस्य प्रश्नस्य समाधानं विदधता भगवता श्री-स्वामि-नारायणेन प्रोक्तं यत् भगवतो मूलरूपं तु पुरुषाकारं द्विभुजं द्विचरणयुक्तं वर्तते । सगुणत्वं निर्गुणत्वं तु तस्य सदा दिव्यसाकारमूर्तेर्भगवत अलौकिकमैश्वर्यमस्ति । (का.वच.८)
भगवद्विग्रहे मायिककरचरणादिकं निषेद्धुं वेदास्तं निरवयवमाहुः । भगवतः श्रीविग्रहो दिव्यो निर्मायिकोऽविनाशी चाऽस्ति, अतो वेदा भगवतः सदा साकारत्वं सङ्गिरन्ते ।
भगवतः सदा दिव्यसाकृतित्वप्रतिपादिका नैकाः श्रुतयो विलसन्ति । तद्यथा
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात्सर्व एव सुवर्णः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
[[६२]]
(छा.उ.१.६.६) इति ।
अत्यन्ततेजोमयादित्यमण्डले आनखशिखं हैम इव तेजस्वी परमात्मा विराजते । तदीयश्मश्रुकेशरोमकूपादिकं सौवर्णमिव प्रकाशमानं वरीवर्ति । स परमात्माऽऽनखशिखं देदीप्यमानोऽस्ति । सूर्यमयूखैर्विकसमानानि कमलदलानीव सुन्दराणि तस्य नेत्राणि सन्ति ।
कथयति भगवती श्रुतिर्यत्
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् ॥
तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ (श्वे.उ.३.८)
यन्मायाया गाढतिमिरात्परस्ताद्दिव्यस्तेजोमयो लोकोऽस्ति । लोकेऽस्मिन् सूर्यसन्निभोऽत्यन्तं तेजस्वी पुरुषोत्तमनारायणो विराराज्यते, तस्य पुरुषोत्तम- नारायणस्याऽहमुपासनां विदधे । य एवं भगवन्महिमानम् अभिजानाति, सः कालमायाकर्मादीनां पाशान्मुक्तो भवति । एनं मार्गमतिरिच्य नाऽन्यः पन्था अयनायाऽर्थात् मृत्युसन्तरणाय विद्यते ।
तैत्तिरीयारण्यकमहानारायणोपनिषदि परमात्मनो दिव्यविग्रहस्य रमणीयं वर्णनं प्राप्यते । तद्यथा
नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा ॥ नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥ (तै.आ.१०.१३)
परमात्मनो नारायणस्य दिव्यविग्रहोऽतितरां देदीप्यमानो वर्तते । तत्तेजोमय- दिव्यविग्रहो नीलवर्णीयनवीनजीमूतमध्यस्थात्तडिल्लेखेव परमोज्ज्वलोऽस्ति । परमात्मनः शरीरकान्तिः शाद्वलमुनिधान्यसदृशी वा शुकसदृशी हरितवर्णाऽस्ति । किञ्च सुवर्णसमाना पीतवर्णाऽप्यस्ति । नीलपीतहरितवर्णानां सम्मिश्रणेन यथा कश्चिदन्य एवाऽनुपमो लावण्यवर्णः प्रकटीभवति । एवमेव परमात्मनो देहकान्तिस्तु अनन्यलावण्यमयी भवति ।
परमात्मनो दिव्यविग्रहस्येयं तेजोमयी प्रभाऽनुपमाऽस्ति । अणुवदत्यन्तं सूक्ष्मा अर्थात् सा प्रभा न हि लौकिकदृशाऽक्षिसात्कर्तुमर्हाऽस्ति । सा त्वलौकिकदृशैव अनुभवगोचरा भवति । अत्र पीताभा स्यात्तनूपमा इत्यपि पाठान्तरमुपलभ्यते ।
भगवतः रमणीयं साकाररूपं वर्णयन्ती भगवती श्रुतिः कथयति यत् तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युतम् । (बृ.उ.४.३.६) इति ।
[[६३]]
पूर्वोक्तस्य मूर्ताऽमूर्ताख्यचेतनाऽचेतनशरीरकस्य अस्य पुरुषस्य परमात्मनः रूपं माहारजनं वासः हरिद्रया सम्यक् रञ्जितं कौसुम्बवस्त्रमिव, पाण्ड्वाविकं कम्बल इव पाण्डरवर्णम्, यथेन्द्रगोपः तन्नामककीटविशेष इव रक्तवर्णम्, यथाऽग्न्यर्चिः अग्नेर्ज्वालामिव भास्वरम्, यथा पुण्डरीकं सरोरुहसदृशम्, यथा सकृद्विद्युतं युगपद्विद्युत् विद्योतनमिव सर्वप्रकाशकं वर्तते ।
नारदपञ्चरात्रे भगवतः साकाररूपतां वर्णयता ग्रन्थकृतोद्यते यत्
परात्परस्वरूपं तु द्विहस्तं सुमनोहरम् ॥
अगम्यं लौकिकैर्बाह्यैः करणैः साऽभिमानिकैः ॥ (ना.प.२.३७)
परादपि परत्वोपेतं परमात्मनो रूपं मनोज्ञम्, हृद्यम्, रमणीयम्, द्विभुजञ्च अस्ति । मायिकैरिन्द्रियान्तःकरणैस्तथा साहङ्कारिभिर्देवैस्तदप्राप्यमस्ति ।
भगवान् श्री-स्वामि-नारायणः परमात्मनः साकारत्वं निरूपयितुं युक्तियुक्तान् तर्कानुपस्थापयन्नाह
श्रूयते पुराणमहाभारतादिषु यत् परब्रह्मपुरुषोत्तमनारायण अस्य जगत उत्पत्तिस्थितिप्रलयानां कर्ताऽस्ति तथा सदा साकारमूर्तिरस्ति । यदि भगवान् साकारो न स्यात् तर्हि तस्य कर्तृत्वं न स्यात् । (पञ्चा.वच.१) इति ।
श्रुतिः कथयति यत् तदैक्षत बहुस्यां प्रजायेयेति (छा.उ.६.२.३) । अत्र ईक्षणशब्दस्याऽर्थद्वयं सम्भवति सिसृक्षारूपः संकल्पः साक्षादीक्षणं वा । साक्षादीक्षणात्मकेऽर्थे सिसृक्षारूपः संकल्पोऽन्तर्निहितो वर्तते । भगवता श्री-स्वामि-नारायणेन परमात्मनः सदा साकारत्वप्रतिपादनाय साक्षादीक्षणमित्यर्थः स्वीकृतो वचनामृतग्रन्थे । तथाहि श्रुतिरित्थं कथयति यत् स ऐक्षत अर्थात्स भगवान् सन्ददर्श । अनेन भगवतो नेत्रश्रोत्राद्यवयवयुतं साकारदिव्यमङ्गल-विग्रहवत्त्वं सिद्ध्यति इति । (पञ्चा.वच.७)
स भगवान् मायामैक्षत । यदा स ईक्षते तदा सः किं केवलचक्षुष्क एव भवेत् ? यस्य चक्षुर्भवेत् तस्याऽपराणि करचरणादीन्यङ्गान्यपि भवेयुरेव , अतः साकृतित्वप्रतिपादनं समभूत्परमात्मनः इति । (दुर्ग.प्र.वच.४५)
भगवती श्रुतिर्यत्र भगवतः करचरणादीनां निषेधं करोति , तत्तु मायिककरचरणादीनां निषेधो वर्तते , न तु दिव्यानां करचरणादीनाम् । भगवत आकारस्तु दिव्यो वर्तते , न तु मायिकः इति । (दुर्ग.प्र.वच.४५)
तथा ह्युक्तं सद्गुरुणा श्रीशतानन्दस्वामिना श्रीहरिवाक्यसुधासिन्धौ
[[६४]]
देहं विना न नेत्रं स्यात्तद्विनापीक्षणं न च ॥ अतो मायिकतत्त्वेभ्यः प्राक् कृष्णो दिव्यविग्रहः ॥ अतः सुज्ञात्सतो भक्ताद्दिव्यसाकारता हरेः ॥ ज्ञेया चाऽमायिकाङ्गत्वं निश्चेतव्यं मुमुक्षुणा ॥
(श्रीहरि.त.१३३.२५,२७)
वृत्तालयधामनि बुवाख्यग्रामाऽभिजनं कानदासपटेलाऽऽह्वं निजाऽऽश्रितं भगवत्साकारत्वज्ञापकवार्तां प्राञ्जलशैल्या युक्तियुक्तवचोविन्यासेन प्रबोधयन् भगवान् श्री-स्वामि-नारायणः प्राह
यथा राज्ञः सर्वाङ्गसम्पूर्णत्वेऽपि यदि कश्चित्पत्रं लिखित्वाऽऽक्षिपेद्यन्नो राजा नासाश्रोत्ररहितोऽस्ति , हस्तपादविहीनोऽस्ति , तर्हि स तु राजद्रोही भवति । एवमेव भगवाँस्तु सर्वाङ्गसम्पूर्णोऽस्ति , तस्याऽवयवे कुत्राऽपि लेशमात्रं न्यूनता नाऽस्ति । स तु सदा दिव्यसाकारमूर्तिरेवाऽस्ति तथापि यदि कश्चित्तमरूपमकर्तारं कथयति तथा भगवतोऽन्यान् कालादीन् सृष्टिकर्तृत्वेनोपवर्णयति , स भगवद्द्रोही भवति इति । (वृत्ता.वच.२)
श्रीमद्भागवतपुराणे साकारब्रह्मण एव प्रतिपादनं कृतम् , तथाऽपि अध्ययनकर्तुर्हृदये यदि भगवद्भक्तिर्न स्यात्तर्हि , स तु तस्मात्सद्ग्रन्थादपि भगवन्तं निराकारमेव जानाति । वस्तुतो भगवत्स्वरूपं निराकारं नास्त्येव , यतो हीयं स्थावरजङ्गमात्मिका सृष्टिः साकारा भगवत एव प्रोद्भवति । यदि स्याद्भगवान्निराकारस्तर्हि ततः कथमुत्पद्येतेयं साकारा सृष्टिः ? इति ।
(दुर्ग.म.वच.१०)
भगवान् स्वान्तर्यामिशक्त्याऽमूर्तानां निरवयवानां द्रष्टॄणामात्मनामपि आत्माऽस्ति तथा मूर्तानां सावयवानां दृश्यानामप्यात्माऽस्ति । शरीरशरीरिणोरभेद इति न्यायेन शास्त्रेषु यदा भगवान् मूर्तानामात्मत्वेन प्रतिपादितः स्यात्तदा स तु प्राकृतसदृशः सावयव इति कथितः स्यात् । यदाऽमूर्तानामात्मत्वेन निरूपितः स्यात्तदा स निराकारात्मसमान निरवयव इति वर्णितो भवेत् । वस्तुतस्तु प्राकृतेभ्य दृश्येभ्यः सर्वदेहतस्तथा निराकारेभ्यस्तद्द्रष्टृभ्य आत्मभ्यश्च स भगवान् पुरुषोत्तमः सर्वथा भिन्नोऽस्ति सदा दिव्यविग्रहो नाम प्राकृताऽऽकाररहितोऽस्ति इति ।
(दुर्ग.प्र.वच.६४)
[[६५]]
अत्राऽयं भावो दृश्यरूपाः सर्वेऽपि मूर्तपदार्थाः कालकर्ममायाऽधीनाः सन्ति, किन्तु भगवन्मूर्तत्वं कालकर्ममायाऽधीनं नाऽस्ति । तथा च द्रष्टृरूपा अमूर्ताऽऽत्मान निरवयवा निराकाराः सन्ति, परन्तु भगवान् तादृशो निराकारो नास्ति । भगवतो निराकारत्वं नाम मायिकाऽऽकाररहितत्वमिति ।