कथयति भगवती श्रुतिः अणोरणीयान् महतो महीयान् (श्वेता.उ.३.२०), (कठ.उ.२.२०) भगवान् परब्रह्मपुरुषोत्तमनारायणोऽन्तर्यामिस्वरूपेणाऽणुस्वरूपात् जीवादपि अणीयान् वर्तते । व्यापकस्वरूपेण महतोऽक्षरब्रह्मादितोऽपि महान् वर्तते ।
परब्रह्मपुरुषोत्तमनारायणो व्यापकतया जीवेश्वरमायाब्रह्मादीनां सर्वेषाम् आधारभूतोऽस्ति तथाऽन्तर्यामितया सर्वस्य नियमनं विदधाति ।
परमात्मन इदं व्यापकत्वं त्रिविधम् । स्वरूपतः, धर्मभूतज्ञानतः, विग्रहतश्चेति । वचनामृतग्रन्थे विग्रहतो व्याप्तिविषये कथयति भगवान् श्री-स्वामि-नारायणः
भगवान् पुरुषोत्तमनारायणोऽक्षरधाम्नि सदा साकाररूपेण विराजते । तथा च स्वान्तर्यामिशक्त्याऽक्षरधाम्नि नैककोटिब्रह्माण्डेषु ब्रह्माण्डेश्वरेषु चाऽन्वयभावेनाऽर्थात् व्यापकरूपेणाऽपि विराजते । (दुर्ग.प्र.वच.६३)
स्वाऽक्षरधाम्नि सदा साकारदिव्यमङ्गलरूपेण विराजमानोऽपि
[[५८]]
भगवान् स्वान्तर्यामिशक्त्या सर्वेषु जीवेषु व्याप्तोऽस्ति । (कारि.वच.४)
भगवान् पुरुषोत्तमनारायणो ब्रह्मरूपया स्वान्तर्यामिशक्त्या सर्वत्र व्यापकोऽस्ति तथैव सदा साकारदिव्यविग्रहः सन् सर्वेभ्यो व्यतिरेकोऽपि अस्ति । साऽन्तर्यामिशक्तिर्ब्रह्मात्मिका तथा च परन्तेजोमयपरमात्मनः सूर्यरश्मिवत् किरणरूपा वर्तते । (दुर्ग.म.वच.१०)
तदुक्तञ्च श्रुतिवाक्ये अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.आ.४.१०.१३) इति ।
यथाऽध्युदधिजलं घटः स्थाप्येत, तर्ह्यधिघटमपि समुद्रो विद्यते तथा घटाद्बहिरपि समुद्रो वर्तते । तद्वदेव भगवान्नारायणोऽन्तर्यामिरूपेण सर्वस्याऽन्तः अपि विराजते, व्यापकत्वेन सर्वस्माद्बहिरपि विराजते ।
सर्वत्राऽभिव्याप्य संस्थितिर्भगवतो नारायणस्याऽन्वयत्वमुच्यते । भगवान् निजाऽक्षरपदे सदा साकाररूपो विराजते, तत्तस्य व्यतिरेकत्वमुच्यते ।
यथा सर्वभूतेषु विद्यमानमाकाशं तत्तद्भूतविकारा न स्पृशन्ति तथैव व्यापकत्वेन सर्वत्र विद्यमानत्वेऽपि भगवन्तं नारायणं विकारा न जातु स्पृशन्ति । सः सर्वदा निर्विकारो निर्लेपश्चाऽस्तीतीदमपि भगवतो नारायणस्य व्यतिरेकत्वमस्ति ।
न केवलमेतावदेव, परन्तु यानि यानि मायिकानि पञ्चभूतपदार्थजातानि भगवत्सम्बन्धमाप्नुवन्ति तानि सर्वाणि निर्गुणानि, दिव्यानि, निर्मायिकानि च भवन्ति । भगवान् श्री-स्वामि-नारायणो वचनामृते निगदति यत्
भगवांस्तु नराकृतिचेष्टोऽपि कैवल्यरूपो निर्गुण एव ज्ञेयः । किञ्च स नराकृतिरपि मायागुणरहितः परमेश्वरो यत्र विराजते तत्स्थानम् , तत्सम्बन्ध- प्राप्तवस्त्रवाहनाऽलङ्कारादिकम् , तदीयाः परिचारकाः , खाद्यपानादिकञ्च सर्वं तदीयप्रभावेण सद्यो निर्गुणं भवति इति । (दुर्ग.म.वच.१३)
अस्य भगवतो मायायां प्रवेशेऽप्यशुद्धत्वभयं क्वचिदपि नाऽस्ति , यतो हि तस्य परमात्मनः संकल्पविशिष्टवेषेण साक्षात्सम्बन्धेन मायाऽपि अक्षरधामसमाना निर्गुणा च भवति । अपि च मायामयानि चतुर्विंशति- तत्त्वान्यपि परमात्मनोऽनुप्रवेशाद् ब्रह्मरूपतां भजन्ति , अतः परमेश्वरो मायासम्बन्धेन कदापि न दुष्यति इति । (वृत्ता.वच.७)
श्रीमद्भागवतमहापुराणे इदमुदितं यत्
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि इति । (भा.पु.१.१.१)
[[५९]]
अपरञ्चेदमाश्चर्याऽऽवहमस्ति यत् भगवाँस्तु दिव्यः, निर्गुणः, निर्विकारश्चास्त्येव, परन्तु तदुपासका भक्ता अपि भगवत्सम्बन्धेन दिव्यतां निर्गुणताञ्च यान्तीति । श्रुतिरप्यत्र वदति यत् यथा पुष्करपलाश आपो न श्लिष्यन्ते , एवमेवंविदि पापं कर्म न श्लिष्यते (छा.उ.४.१४.७) इति ।
भगवान् श्री-स्वामि-नारायणो वचनामृते भणति यत् भगवद्भक्ते मायागुण- कार्यभूतेन्द्रियाऽन्तःकरणविकाराणां सत्त्वेऽपि सः प्रत्यक्षरूपेण विराजमानं स्वभजनीयं भगवन्तं मायातीतं निर्गुणं जानाति , अतः स भक्तोऽपि मायोत्तीर्णो निर्गुण एव मन्तव्यः इति । (वृत्ता.वच.५)
परमात्मनि श्रीकृष्णे कामभावेनाऽपि समासक्ता व्रजाङ्गना निर्गुणा भूत्वा भगवन्मायाञ्च सन्तीर्य ब्रह्मधाम प्रपेदिरे । तत्रेदं कारणं यद्भगवान् श्रीकृष्णः स्वयं साक्षात् पुरुषोत्तमो गुणातीतो दिव्यमूर्तिरासीत् , अतस्तत्सङ्गमेन गोप्योऽपि ज्ञाताऽज्ञातभावेन स्नेहमकार्षुस्तथापि ता निर्गुणा जाताः । किञ्चाऽऽर्षभोऽपि भरतः कारुण्येन मृगशावके स्नेहातिशयात् , मृगशावकस्य निर्गुणत्वाऽभावाच्च मृगत्वमगमत् इति । (दुर्ग.प्र.वच.४२)
भगवतश्चरित्राणि तु दिव्यान्येव सन्ति, किन्तु तदीयानि मानुषानि चरित्राण्यपि दिव्यानि सन्ति । तथा च तस्मिन् ज्ञायमानाः कामक्रोधलोभभयादयो मानुषगुणा अप्यलौकिकाः कल्याणकराश्च सन्ति । भगवान् वेदव्यासोऽपि श्रीमद्भागवते भगवदवतारचरित्राणि निर्वर्णयन्नेतादृशमेव महिमानं समगासीत् ।