१० परब्रह्मणः पञ्चधाऽवस्थितिः

परब्रह्मपुरुषोत्तमनारायणः परव्यूहविभवान्तर्याम्यर्चारूपेण पञ्चधा विराजते ।

तत्र परो नाम मायातीते दिव्येऽक्षरधाम्नि निरवधिकातिशयतेजोमण्डलमध्ये विराजमानः अक्षरब्रह्मनित्याऽक्षरमुक्तमण्डलसेवितचरणसरोजः सदा साकारदिव्य- श्रीमङ्गलविग्रहरूपः ।

व्यूहो नाम जगत्सृष्ट्याद्यर्थं वासुदेवसङ्कर्षणप्रद्युम्नाऽनिरुद्धभेदेन चतुर्धा अवस्थितः । तत्र वासुदेवे षाड्गुण्यपरिपूर्णता । सङ्कर्षणे ज्ञानबलद्वयम् । प्रद्युम्ने ऐश्वर्यवीर्यद्वयम् । अनिरुद्धे शक्तितेजोद्वयमित्यैश्वर्यगुणविभागो वर्तते ।

विभवो नाम वराहनृसिंहमत्स्यकूर्मरामकृष्णाद्यवतारविशेषैराविर्भावः ।

अन्तर्यामी नाम अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा (तै.आ.३.११) इत्यादिश्रुत्यनुसारं सर्वेषामन्तःप्रविश्य नियन्ता ।

अर्चावतारो नाम लक्षावधिमनुष्याणामुपर्यनुग्रहार्थं धृताऽर्चारूपोऽर्चकाधीन- स्नानभोजनासनशयनस्थितिः सर्वंसहः सर्वजननयनगोचरः सन् नानाप्रकारेषु देवालयेषु विराजमानः ।

अर्चावतारः परब्रह्मपुरुषोत्तमनाराणस्य परं कारुण्यमाश्रितवात्सल्यं सौलभ्यञ्च द्योतयति । अत्र प्रमाणवचनानि

मम प्रकारा पञ्चेति प्राहुर्वेदान्तपारगाः ॥

परो व्यूहश्च विभवो नियन्ता सर्वदेहिनाम् ॥ (विश्व.सं.) अर्चाऽवतारश्च तथा दयालुः पुरुषाकृतिः ॥

इत्येवं पञ्चधा प्राहुर्मां रहस्यविदो जनाः ॥ (विश्व.सं.) व्यूहात्मानं चतुर्धा च वासुदेवादिमूर्तिभिः ॥ सृष्ट्यादीन् प्रकरोत्येष विशुद्धात्मा जनार्दनः ॥ (मा.पु.)

[[५७]]

वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषस्स्वयम् ॥

अनिरुद्ध इति ब्रह्मन् मूर्तिव्यूहोऽभिधीयते ॥ (भा.पु.१२.११.२१) स विश्वस्तैजसः प्राज्ञस्तुरीय इति वृत्तिभिः ॥ अर्थेन्द्रियाशयज्ञानैर्भगवान् परिभाव्यते ॥ (भा.पु.१२.११.२२)

परमकारणात्परमब्रह्मभूताद्वासुदेवात् सङ्कर्षणो नाम जीवो जायते । सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते । तस्मादनिरुद्धसंज्ञकोऽहंकारो जायते । (पां.प.सं)

वासुदेवादयो यस्माद् व्यूहा प्रादुर्भवन्ति च । (स.जी.१.१.५)

उक्तञ्च पञ्चरात्रे व्यूहस्वरूपाणि , केशवादिचतुर्विंशतिमूर्तयः , भगवदवताराश्च तस्माद्वासुदेवात् प्राकट्यमाप्नुवन्ति इति । (ना.प.२.२०)

कथयति वचनामृतग्रन्थे भगवान् स्वामिनारायणो यत् एक एव परब्रह्मपुरुषोत्तमनारायणो वासुदेवसंकर्षणप्रद्युम्नानिरुद्धेतिचतुर्व्यूहरूपो भवति इति । (दुर्ग.प्र.वच.५२)

ये चाऽनिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवरूपश्चतुर्व्यूहः , केशवादि- चतुर्विंशतिमूर्तयस्तथा च वराहाद्यवताराः , तेषां सर्वेषां कारणं तु प्रत्यक्षश्रीकृष्णपुरुषोत्तमनारायणो वर्तते इति । (दुर्ग.प्र.वच.७८)