भगवत एव उपास्यत्वध्येयत्वाद्यसाधारणधर्माणां प्रतिपादकानि अथातो ब्रह्मजिज्ञासा (ब्र.सू.१.१.१) ध्येयो नारायणो हरिः इत्यादीनि शतशः श्रुतिस्मृतिवचनानि ब्रह्मसूत्राणि परब्रह्मण एवोपास्यत्वं ध्येयत्वञ्च प्रतिपादयन्ति । अस्मिन् विषये विशेषविचारोऽग्रे ध्येयो नारायणो हरिः इति प्रकरणे कृतोऽस्ति ।
[[५४]]
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्
(श्वे.उ.६.१३, कठ.उ.२.१३) इत्यादिभिः श्रुतिभिः सर्वकर्मफलप्रदातृत्वं परब्रह्मण एव । सूत्रकारो भगवान् बादरायणोऽपि कथयति फलमत उपपत्तेः (ब्र.सू.३.२.३७) इति । स्मर्यते च स्मृतिशास्त्रेषु लभते च ततः कामान् मयैव विहितान् हि तान् (भ.गी.७.२२), वासुदेवस्वरूपोऽहं सर्वकर्मफलप्रदः (वासु.मा.१८.७) इति । तदुक्तञ्च श्रीशतानन्दस्वामिविरचिते श्रीहरिवाक्यसुधासिन्धौ भगवता श्री-स्वामि-नारायणेन
यद्यद्भक्तेप्सितं वस्तु तत्तत्पूरयति ध्रुवम् ॥ चिन्तामणिरिव ख्याता मूर्तिः सा परमात्मनः ॥ (श्रीहरि.त.१.७) फलप्रदाता सर्वेषां कर्मणामस्ति हीश्वरः ॥ अतस्तदिच्छयैवैते भुञ्जते कर्मजं फलम् ॥ (श्रीहरि.त.६५.३३) नास्तिकाः केवलं प्राहुः कर्मणामेव कर्तृताम् ॥
न तु तत्फलदेशस्य ततो दुष्टं हि तन्मतम् ॥ (श्रीहरि.त.२०६.१४)
इति सर्वकर्मफलाराध्यत्वं सर्वकर्मफलप्रदत्वञ्च परब्रह्मणः परमात्मन एव । परब्रह्मण एव सर्वकारणकारणत्वमपि सम्यक् प्रतिपादितं श्रुतिस्मृतिवचनेषु । तथा हि यतो वा इमानि भूतानि जायन्ते (तै.उ.३.१.१) । तथा च नारदपञ्चरात्रशास्त्रेऽपि उक्तं यत्
परात्परं परं ब्रह्म सर्वकारणकारणम् ॥ वासुदेवमिदं सर्वं चेतनाऽचेतनात्मकम् ॥ (ना.प.३.११)
परस्मादपि परतया विराजमानं परब्रह्म भगवान् श्रीवासुदेवनारायणः सर्वकारणानां कारणमस्ति । नैजयाऽन्तर्यामिशक्त्या जडचेतनात्मके विश्वशरीरे आत्मरूपेणाऽभिव्याप्तं सद्विराजते । भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यामीश्वरं व्याचक्षाणो लिखति यत्
हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः ॥
ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः ॥ (शिक्षा.१०७) हृदयप्रदेशे यथा जीवो विद्यते, तथा तस्मिन् जीवे स्वान्तर्यामिशक्त्येश्वरः
तिष्ठति । स ईश्वरः स्वातन्त्र्येण वर्तमानः, तत्तज्जीवेभ्यः सर्वकर्मफलप्रदश्च विज्ञेयः ।
स श्रीकृष्णः परं ब्रह्म भगवान् पुरुषोत्तमः ॥
उपास्य इष्टदेवो नः सर्वाऽविर्भावकारणम् ॥ (शिक्षा.१०८)
[[५५]]
पूर्वश्लोके प्रतिपादित ईश्वरो निरवधिकाऽतिशयाऽनन्दसागरत्वात् श्रीकृष्ण इतीर्यते । परतोऽक्षरब्रह्मणोऽपि परत्वात् ‘परं ब्रह्म’ पदवाच्यो भवति । ज्ञानम्, शक्तिः, बलम्, ऐश्वर्यम्, वीर्यम्, तेजश्चेत्येभिः षड्भिरैश्वर्यैः सम्पन्नत्वात् भगवान् इतीर्यते । मायातः परं पारे दिव्याऽक्षरधाम्नि विराजमाना दिव्यतेजोमयतनुधारिण अक्षरब्रह्माद्यात्मानः पुरुषाः कथ्यन्ते । तेषु पुरुषेषु सर्वोत्तमत्वात् भगवान् पुरुषोत्तमः इतीर्यते । एते सर्वे दिव्यपुरुषा दिव्यसामग्रीभिः पुरुषोत्तमनारायणस्य सेवां कुर्वन्ति । कथयति भगवती श्रुतिः वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् (श्वे.उ.३.८) इति । कथयति भगवान् श्रीकृष्णो भगवद्गीतायां यत् अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः (भ.गी.१५.१८) इति । सोऽयमानन्दमयः सर्वैश्वर्यसम्पन्नो भगवान् श्रीकृष्णः पुरुषोत्तमोऽस्मदिष्टदेवः सर्वोपास्यः सर्वाऽऽविर्भावकारणञ्चाऽस्ति ।
महासागरात्समुत्थितानां मेघघटानां वर्षणेन नैका नद्य आविर्भवन्ति, पुनश्च महासमुद्रे एव ता विलयं यान्ति । तथैव नैकेऽवतारा विभूतयश्च परमात्मनः प्रभवन्ति, तस्मिँश्च पुनर्लीयन्ते । वचनामृते कथयति भगवान् यत् अक्षरातीतो यः पुरुषोत्तमो भगवान्, स एव सर्वाऽवताराणां कारणमस्ति । सर्वेऽवताराः पुरुषोत्तमात् प्राकट्यमाप्नुवन्ति , पुनश्च तस्मिन् पुरुषोत्तमे एव विलीयन्ते इति । (दुर्ग.म.वच.१३)
अत्र शिक्षापत्र्यां भगवता श्री-स्वामि-नारायणेन प्रयुक्त ईश्वरशब्दो न तु ब्रह्माण्डाभिमानिने ईश्वराय, किन्तु परमेश्वराय प्रयुक्तः । ब्रह्माण्डान्यनन्तानि सन्ति, तेषामधिपतयो वैराजनारायणसंज्ञका ईश्वरा अप्यनन्ताः सन्ति, किन्तु तेषामीश्वराणां नियन्ता परमेश्वरस्तु एक एव । ईश्वरपरमेश्वरयोः स्वरूपस्वभावगुणेषु नभःपातालयोः इव महान् भेदो वर्तते । तं भेदं दर्शयन्ती भगवती श्रुतिराह तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् (श्वे.उ.६.७) इति ।
सर्वश्रुतिस्मृतिशास्त्राणामयमस्ति निगलितार्थो यत्सर्वकारणकारणम्, सर्वेशः, सदा साकारदिव्यमङ्गलविग्रहः, परमानन्दरूपः परब्रह्मपुरुषोत्तमनारायण एवोपास्यः प्राप्यश्चाऽस्ति, न तु जीवेश्वरमायाकालाऽक्षरब्रह्मादयः ।
परब्रह्मपुरुषोत्तमनारायणस्य रूपगुणैश्वर्याण्यनन्तान्यपाराणि च सन्ति । तेषां वर्णनं तु वेदैरपि कर्तुं दुःशकमस्ति, अतः परमात्मनो गुणगणं गातुं प्रवृत्ताः श्रुतयोऽपि यतो वाचो निवर्तन्ते (तै.उ.२.४) तथा नेति नेति (बृ.उ.४.३.६) इत्युक्त्वा विरमन्ति ।
[[५६]]
पृथ्वीपरमाणवः, समुद्रजलबिन्दवः, नभस्तारकाश्च कदाचिद्गण्येरन्, परन्तु परब्रह्मणो रूपगुणैश्वर्याणां वर्णनं कर्तुमशक्यमस्ति । उक्तञ्चाऽभियुक्तैः
असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे सुरतरुवरशाखा लेखनी पत्रमुर्वी ॥ लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥