परब्रह्मणो रूपं तु सदा साकारदिव्यमङ्गलश्रीविग्रहात्मकम्, स्वरूपं तु विभुः व्यापकं सर्वाऽऽधाररूपमस्ति । यतीन्द्रमतदीपिकायामुक्तं यत्परब्रह्मणो व्यापकत्वं
[[५१]]
स्वरूपतो धर्मभूतज्ञानतो विग्रहतश्च वर्तते ।
परब्रह्मणो दिव्यं रूपं निरूपयद्भिर्भगवत्पादैः श्रीमद्रामानुजाचार्यैः श्रीमद्भगवद्गीताभाष्ये उक्तं यत् परमात्मा स्वाभिमताऽनुरूपैकरूपाऽचिन्त्य- दिव्याऽद्भुतनित्यनिरवद्यनिरतिशयौज्ज्वल्यसौगन्ध्यसौन्दर्यसौकुमार्य- लावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः इति । असंख्येयकल्याणगुणगण- महोदधेः परब्रह्मणो दिव्यमङ्गलविग्रहरूपमत्यधिकं रमणीयतममस्त्यत एव न केनाऽप्युपमानेनोपमातुं शक्यम् ।
भगवतोऽयं श्रीविग्रहः परमतेजोमयो नीलसरोरुहनीलमणिनीलनीरधर इव घनश्यामो मङ्गलं मङ्गलानाम् इति सर्वशुभानामाश्रयभूतो नित्यसिद्धश्च वर्तते । परब्रह्मण इदं दिव्यमङ्गलविग्रहात्मकं रूपं स्वाश्रितानां कृते अर्चनपूजन- ध्यानोपासनादिषु नितरामुपकारकं विद्यते । उक्तञ्च यतीन्द्रमतदीपिकायां
शरीरादिपरिग्रहो भगवतोऽपि स्वभोगाय स्वशेषभूतनित्यमुक्ताऽऽनन्दाय मुमुक्षूपास्त्यसिद्धये च ।
भगवद्भक्तानां कृते तु भगवत्स्वरूपतोऽपि भगवद्रूपमतिशयं प्रियतमं वर्तते । तथा चोक्तं तत्त्वत्रये भगवद्विग्रहश्च स्वरूपगुणेभ्योऽत्यन्ताऽभिमतो ज्ञानमयस्य स्वरूपस्याऽऽच्छादनमकुर्वन् माणिक्यमयपात्रे स्थापितसुवर्णवत् स्वर्णरूपदिव्याऽऽत्मस्वरूपस्य प्रकाशकः इति ।
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि (ईशा.उ.१६), वेदाऽहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् (श्वे.उ.३.८), एष आत्मापहतपाप्मा (छा.उ.८.१.५), अथ य एषोऽन्तरादित्ये हिरण्यमयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी (छा.उ.१.६.६,७), नीलतोयदमध्यस्था (तै.आ.१०.१३), यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ (मु.उ.३.१.३), मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाकी अनादरः (छा.उ.३.१४.२) इत्यादयः शतशः श्रुतयस्तथा अन्तस्तद्धर्मोपदेशात् (ब्र.सू.१.१.२१) इत्यादीनि ब्रह्मसूत्राणि च भगवतो दिव्यमङ्गलरूपस्य प्रतिपादकानि प्रमाणवचनानि वर्तन्ते ।
[[५२]]
भगवतः पुरुषोत्तमनारायणस्य सदा दिव्यसाकाररूपस्य विशेषतो वर्णनमस्यां भूमिकायां परब्रह्मणः सदा दिव्यसाकारत्वप्रकरणे कृतमस्ति ।
परब्रह्मस्वरूपलक्षणं बोधयन्ती भगवती श्रुतिराह सत्यं ज्ञानमनन्तं ब्रह्म (तै.उ.२.१) इति । अत्र सत्यपदं निरुपाधिकसत्तायोगि परं ब्रह्म आह । अनेन विकारास्पदोऽचेतनवर्गस्तत्संसृष्टश्चेतनवर्गश्च व्यावृत्तः । ज्ञानपदं नित्याऽसंकुचित- ज्ञानैकाकारं परं ब्रह्म आह । तेन कदाचित्संकुचितधर्मभूतज्ञानत्वेन मुक्ता व्यावृत्ताः । अनन्तपदं देशकालवस्तुपरिच्छेदरहितं परं ब्रह्म आह । परब्रह्मणः स्वरूपेण रूपेण गुणैश्चाऽऽनन्त्यं वर्तते । अनेन परमात्माधीना अत एव सातिशयगुणा अक्षरब्रह्माऽक्षरधामस्थाऽक्षरपुरुषादयो नित्या व्यावृत्ताः ।
परब्रह्मस्वरूपविषये प्रमाणभूताः शतशः श्रुतिस्मृतयः सन्ति । यथा विज्ञानमानन्दं ब्रह्म (बृ.उ.३.९.२२), विज्ञानघन एव (बृ.उ.२.४.१२), प्रज्ञानं ब्रह्म (एे.उ.१.२), ज्ञानस्वरूपाे भगवान् यताेऽसाै (वि.पु.२.१२.३९), न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् (बृ.उ.४.३.३०) इत्याद्याः ।
सर्वकारणकारणत्वम्, सर्वोपास्यत्वम्, सर्वकर्मफलप्रदातृत्वम्, सर्वव्यापकत्वम्, सर्वाऽन्तर्यामित्वम्, सर्वशेषित्वम्, सर्वात्मतया सर्वशरीरित्वम्, सर्वस्वामित्वम्, सर्वाधारत्वम्, ज्ञानशक्त्यादिषडि्वधैश्वर्यसम्पन्नत्वम्, स्वज्ञानस्वेतरसमस्तद्रव्य- शरीरकत्वञ्च इत्यादयाे भगवत्स्वरूपे विद्यमानाः परब्रह्मणाेऽसाधारणाः स्वरूपनिरूपकधर्माः सन्ति ।
तथैव च आनन्दमयत्वम्, नित्यनिदा र्ेषत्वम्, कारुण्यम्, वात्सल्यम्, सौशील्यम्, औदार्यम्, सौलभ्यम्, सौहार्दम्, आर्जवम्, मार्दवम्, धैर्यम्, शौर्यम्, माधुर्यम्, गाम्भीर्यम्, चातुर्यम्, साम्यम्, दाक्षिण्यञ्च इत्यादयाे भगवताे दिव्यरूपनिरूपका अनन्ताः स्वाभाविकाऽनवधिकाश्च गुणाः परब्रह्मणि सन्ति ।
परब्रह्मपुरुषाेत्तमनारायणाे रूपेण स्वरूपेण च निखिलहेयप्रत्यनीक- कल्याणैकतानः स्वाभाविकाऽनवधिकातिशयगुणगणनिधानाे वर्तते । अन्ये अक्षरब्रह्मादयः परमात्माऽधीनगुणगणैश्वर्यवत्वात् तथाविधा न सन्ति ।
प्रत्यक्त्वेन भासमानस्याऽहमर्थस्य परमात्मनो रूपस्वरूपयोः कश्चन तर्कातीत अलौकिको नितरामभेदो वर्तते । कथयति भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे
सर्वकारणस्य सदा दिव्यसाकारस्य प्रत्यक्षपुरुषोत्तमनारायणस्य मूर्तौ
[[५३]]
यथा शर्कराखण्डे त्यागभागो नाऽस्ति तथैव त्यागभागो न वर्तते ।
(पञ्चा.वच.७)
दीनानाथभट्टेन पृष्टं यत् यो भक्तो भगवन्नमूर्तेः (अर्थात् निराकारस्य) ध्यानं कर्तुमिच्छति , तेन भगवत्स्वरूपं तत्त्वसहितं ज्ञेयं वा तत्त्वरहितम् ? इति । अस्य प्रश्नस्य समाधानं विदधता भगवता श्री-स्वामि-नारायणेनोक्तं यत् यो भगवत्स्वरूपं तत्त्वसहितं जानाति , यश्च तत्त्वरहितं जानाति तावुभावपि दोषभाजौ ज्ञेयौ ।
भगवद्भक्ताय तु भगवत्स्वरूपे तत्त्वानि सन्ति वा न सन्ति ? इति पिष्टपेषणं नैव रोचते । यथार्थभगवद्भक्तस्त्वेवं विजानाति यद्भगवाँस्तु भगवानेवाऽस्ति , न तत्र भागत्यागस्याऽवकाशः । भगवान् रूपेण स्वरूपेण स्वभावेनाऽनन्तब्रह्माण्डानामात्माऽस्ति अर्थात् सर्वव्यापकत्वात् सर्वाधारः अस्ति इति । (दुर्ग.म.वच.१७)
तदुक्तञ्च दीनानाथभट्टप्रश्नमाध्यमेन श्रीहरिवाक्यसुधासिन्धौ श्रीशतानन्दमुनिना
ध्यायेद्योऽत्र भवद्रूपं पुमान्स्वहृदयेऽन्वहम् ॥
तत्त्वयुक्तं स तद्विद्यात्तत्त्वहीनं च वा प्रभो ॥ (श्रीहरि.त.१५०.१६) भगवतः श्री-स्वामि-नारायणस्य प्रतिवचनम्
यथादृष्टं कृष्णरूपं ध्यात्रा तु ध्येयमन्तरे ॥ नैव तत्र तु कर्तव्यस्तर्कोऽयं ध्यानबाधकः ॥ अनन्तकोटिब्रह्माण्डाधार आत्मात्मनां प्रभुः ॥ नियन्ता चाऽक्षरादीनां कृष्णोऽस्तीत्येव दृश्यताम् ॥ न कोऽपि यस्य तर्कः स्याद्रूपे भगवतो द्विज ॥ निर्विकल्पस्थितिं प्राप्तः स्थितप्रज्ञो मतश्च सः ॥
(श्रीहरि.त.१५०.१७ तः १९)