ब्रह्मस्वरूपस्य निरूपणं कुर्वता सद्गुरुणा शतानन्दस्वामिना प्रोक्तं सत्सङ्गिजीवनग्रन्थे यत्
सत्यं ज्ञानमनन्तं च पूर्णं चाऽखण्डमक्षरम् ॥ धाम यद्वासुदेवस्य मूर्तं चाऽमूर्तमुच्यते ॥ (स.जी.१.५१.३२)
अक्षरब्रह्म सत्यस्वरूपं ज्ञानस्वरूपं चाऽस्ति । स्वभावस्वरूपाभ्यां तद्ब्रह्माऽनन्तमस्ति । सर्वत्र परिपूर्णम्, अखण्डम्, अविनाशितया चाऽक्षरं कथ्यते । इदमक्षरब्रह्म परब्रह्मणः पुरुषोत्तमस्य श्रीवासुदेवनारायणस्य तथाऽनन्तकोटिमुक्तानां निवासभूतं धामाऽस्ति । इदमक्षरब्रह्म मूर्तरूपेण पुरुषोत्तमनारायणं सेवते तथाऽमूर्तरूपेण सर्वत्र व्यापकमस्ति । अत्राऽक्षरब्रह्मणो नियन्तृत्वादिगुणा निरतिशयाः सावधिकाश्च ज्ञेयाः, परब्रह्मेच्छाऽधीनत्वात् ।
स्मृतिप्रमाणजातेनाऽक्षरब्रह्मतत्त्वं सिद्ध्यति । यथा यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः (भ.गी.८.११), यद्गत्वा न निवर्तन्ते तद्धाम परमं मम (भ.गी.१५.६) इति ।
मुण्डकोपनिषद्युक्तं यत् अक्षरात्परतः परः इति । (मु.उ.२.१.२) अस्याः श्रुतेर्व्याख्यानं कुर्वता सद्गुरुणा गोपालानन्दस्वामिवर्येण विषयसन्दर्भाऽनुसारम् अक्षरशब्दस्याऽर्थस्तु अव्यक्तमिति अकारि । अतोऽस्याः श्रुतेरयमर्थो यदव्यक्तरूपप्रकृतेः परा ये महापुरुषाऽक्षरब्रह्मादयः ततोऽपि परः परब्रह्म- पुरुषोत्तमनारायणो वर्तते ।
वचनामृतग्रन्थे अक्षरब्रह्मणो महिमानं वितन्वता भगवता श्री-स्वामि-नारायणेन प्रोक्तं यत् एकान्तिकभक्तो देहं त्यक्त्वा सर्वमायाभावेभ्यो मुक्तो भूत्वाऽर्चिरध्वना भगवतोऽक्षरधाम प्राप्नोति । तदक्षरस्य रूपद्वयमस्ति । एकं निराकारमेकरसं चैतन्यं वर्तते , तदेव चिदाकाशं ब्रह्मधाम इति नाम्नाऽपि कीर्त्यते । अपरन्तु पुरुषोत्तमनारायणस्य सेवायां निरतमस्ति इति । (दुर्ग.प्र.वच.२१)
महत्तत्त्वादिनां कारणं प्रधानपुरुषौ स्तः । तयोः कारणं मूलप्रकृति- महापुरुषौ स्तः । तस्य सर्वस्य कारणमक्षरब्रह्माऽस्ति । अक्षरब्रह्म तु भगवतः पुरुषोत्तमस्य धामाऽस्ति । तस्याऽक्षरब्रह्मणः सङ्कोचविकसाऽवस्थे न स्तः । तत्तु सर्वदैकरूपं भवति । इदमक्षरब्रह्म मूर्तिमदस्ति , किन्त्वतिमहत्तया तस्य रूपं
[[५०]]
न कस्यचिद्दृग्विषयीभवति इति । (दुर्ग.प्र.वच.६३)
अक्षरब्रह्मण एकैकस्मिन् रोमकूपेऽसंख्यातानि वैराजपुरुषाधिष्ठितानि ब्रह्माण्डानि रजोवत् उड्डीयन्ते । तस्मिन्नक्षरधाम्नि परब्रह्मपुरुषोत्तमनारायणः सदा दिव्यसाकाररूपेण विराजते तथा च स्वान्तर्यामिशक्त्या अक्षरधाम्नि अनन्तकोटिब्रह्माण्डाधिष्ठातृषु ईश्वरेषु अन्वयभावेनाऽपि विराजते । इति ।
(दुर्ग.म.वच.६३)
सद्गुरुणा श्रीगोपालानन्दस्वामिवर्येण वेदस्तुतिभाष्येऽक्षरब्रह्मणो लक्षणप्रतिपादनाऽवसरे इत्थं निगदितं यत् अक्षरब्रह्मसंज्ञास्त्रयः सन्ति । तत्राऽद्यं प्रकृतिसम्बन्धरहितं पुरुषोत्तमस्य निवासभूतमक्षरब्रह्माऽभिधं ब्रह्मपुरं धाम बोध्यम् । द्वितीयं पुरुषोत्तमोपासकं तद्धामस्थं मुक्तकोटिवृन्दं च । तृतीयः पुरुषोत्तमस्येच्छया ब्रह्माण्डोत्पादकः प्रकृत्यधिष्ठाताऽक्षरपुरुषश्च इति । अनेन अक्षरब्रह्मनित्यमुक्तकोटिवृन्दाऽक्षरपुरुषाणां ब्रह्मकोटौ समावेशः सिद्धः ।
श्रीमद्भगवद्गीतायां कथयति भगवान् श्रीकृष्णो यत्
द्वाविमौ पुरुषौ लोके क्षरश्चाऽक्षर एव च ॥
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ (भ.गी.१५.१६)
अत्राऽप्यक्षरपदेनाऽक्षरब्रह्मणा साकं नित्यानां तथा च ब्रह्मरूपस्य महापुरुषस्याऽपि ग्रहणं करणीयम् ।
श्रुतिस्मृतिवाक्येषु विविधस्थलेषु ब्रह्माऽक्षरपदानां प्रयोगो दृश्यते । यथा वेद- ब्राह्मण-वर्ण-अव्यक्त-महापुरुष-माया-भगवन्मूर्तितेज-अक्षरब्रह्म- परब्रह्मेत्यादिविविधाऽर्थेषु ।
अतः शास्त्रेषु यत्र क्वचिद् ब्रह्मशब्दे दृग्विषये जाते सति तत्तत्सन्दर्भाऽनुगुणम् अर्थघटनं विधेयम् । अत्राऽयं विवेकोऽवश्यमवगन्तव्यो यत्सृष्ट्यसाधारणप्रकरणे ध्यानोपासनप्रकरणे कर्मफलप्रदातृत्वप्रकरणे सर्वकर्माराध्यत्वप्रकरणे चाऽक्षरं ब्रह्मेत्यादिशब्दाः परब्रह्मण्येव मुख्यवृत्ताः । विशेषरूपेण परिशिष्टे ब्रह्मशब्दाऽर्थविचारो द्रष्टव्यः ।