वचनामृते भगवान् श्री-स्वामि-नारायणो विलक्षणतया तत्त्वनिरूपणञ्चकार । भगवता श्री-स्वामि-नारायणेन प्रकृतेश्चतुर्विंशतितत्त्वानि, पञ्चविंश आत्मा, षड्विंशः परमात्मा इत्येवम्प्रकारेण षड्विंशतितत्त्वानि निरूपितानि सन्ति ।
सर्वकारणकारणस्य परमात्मनो नैजया प्रेरकशक्त्या त्रिगुणात्मिकायाः प्रकृतेश्चतुर्विंशतितत्त्वरूपेण विस्तारो विधीयते ।
यथा बीजादङ्कुरोत्पत्तिस्तथा प्रकृतेश्चतुर्विंशतितत्त्वान्याविर्भवन्ति । तत्राऽयम् उत्पत्तिक्रमोऽस्ति प्रकृतेश्चित्तात्मकं महत्तत्त्वम्, ततस्सात्त्विकराजसतामसरूपः त्रिविधोऽहङ्कारः । सात्त्विकाऽहङ्कारान्मन इन्द्रियदेवाः । राजसाऽहङ्कारादिन्द्रियाणि असवश्च । तामसाऽहङ्काराच्छब्दतन्मात्रम्, तत आकाशः, ततः स्पर्शतन्मात्रम्, ततो वायुः, तस्माद्रूपतन्मात्रम्, ततोऽग्निः, तस्माद्रसतन्मात्रम्, ततो जलम्, ततो गन्धतन्मात्रम्, ततः पृथिवी इति ।
एवं चित्तमनोबुद्ध्यहङ्काराख्यमन्तःकरणचतुष्टयम्, श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यं ज्ञानेन्द्रियपञ्चकम्, वाक्पाणिपादपायूपस्थाख्यं कर्मेन्द्रियपञ्चकम्, शब्दस्पर्शरूपरस- गन्धाख्यं तन्मात्रपञ्चकम्, पृथिव्यप्तेजोवाय्वाकाशाख्यं भूतपञ्चकं मिलित्वा चतुर्विंशतिसंख्याकानि तत्त्वानि भवन्ति । इन्द्रियान्तःकरणदेवतानाम् असूनाञ्च तत्तदिन्द्रियान्तःकरणोपकारकत्वात् तत्तदिन्द्रियान्तःकरणेष्वन्तर्भावो मन्तव्यः ।
तन्मात्रं नाम आकाशादिभूतानामव्यवहितपूर्वसूक्ष्मावस्थाविशिष्टं द्रव्यम् । यथा दधिरूपेण परिणममानस्य पयसो मध्यमावस्था इव भूतरूपेण परिणममानस्य द्रव्यस्य ततः पूर्वा काचिदवस्था तन्मात्रमित्युच्यते ।
सांख्याः कथयन्ति यत्तामसाहङ्कारात् पञ्च तन्मात्राण्युत्पद्यन्ते, तेभ्यः पञ्चभूतानि जायन्ते । तद्यथा शब्दतन्मात्रादाकाशं स्पर्शतन्मात्राद्वायुरिति । सांख्यशास्त्रस्वीकृतोऽयं पृथक्पृथगुत्पत्तिक्रमस्तु तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः , आकाशात्
[[४८]]
वायुः , वायोरग्निः , अग्नेरापः , अद्भ्यः पृथिवी (तै.उ.१.१) इति श्रुतिप्रतिपादित- क्रमभङ्गप्रसङ्गात् पृथिव्यप्सु प्रलीयते, आपस्तेजसि लीयन्ते , तेजो वायौ लीयते , वायुराकाशे लीयते (सु.उ.२) इति लयश्रुतिविरोधाच्च स्मृतेः श्रुतिर्बलीयसी इति न्यायेन वेदान्तदेशिकादिपूर्वाचार्यैः नादृतः ।
प्रकृतेः प्रादुर्भूतानां तत्त्वानां चतुर्विंशत्या ब्रह्माण्डाभिमानी वैराजनारायणो जायते । ततो ब्रह्मादिदेवाः, ततो नानाविधासृष्टेरुत्पत्तिर्भवति । हरिवाक्यसुधासिन्धोः द्वादशतमे तरङ्गे विषयस्याऽस्य विस्तरो द्रष्टव्यः ।
शास्त्रेषु तत्त्वविषये नानाविधानि मतानि सन्ति । केचिदेकं तत्त्वं मन्वते, केचित्तत्त्वत्रयम्, केचित्तत्त्वसप्तकम्, केचन तत्त्वचतुर्विंशतिकम्, केचन तत्त्वपञ्चविंशतिकम्, केचिच्च तत्त्वषड्विंशतिकं मन्वते । केचिदेकपञ्चाशत्तत्त्वानि मन्वते ।
भगवान् श्रीकृष्णो भागवतमहापुराणस्यैकादशस्कन्धे द्वाविंशतितमेऽध्याये तत्त्वसंख्याविषयकं वैपरीत्यं समादधान एवं निगदति यत्
परस्पराऽनुप्रवेशात् तत्त्वानां पुरुषर्षभ ॥ पौर्वापर्यप्रसंख्यानं यथा वक्तुर्विवक्षितम् ॥ एकस्मिन्नपि दृश्यन्ते प्रविष्टानीतराणि च ॥ पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ पौर्वापर्यमतोऽमीषां प्रसंख्यानमभीप्सताम् ॥ यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥
(भा.पु.११.२२.७ तः ९)
यदि क्वचित् तत्त्वसंख्यायां न्यौन्यं निरूप्यते, तर्हि तत्र तत्त्वानां समासेन मिथोऽन्तर्भावोऽस्तीति वैपरीत्यम् अपाकरणीयम् । यदि क्वचित् तत्त्वसंख्यायाम् आधिक्यं निरूप्येत, तर्हि तत्र तत्त्वानां व्यासेन प्रतिपादनमस्तीति बुद्ध्वा विपर्य्यासो दूरीकरणीयः । एवं व्याससमासाभ्यां समाधाने कृते सति तत्त्वसंख्यासन्दर्भे वैपरीत्यं न भवति । अन्ते च भगवान् श्रीकृष्णो ब्रूते यत् हे उद्धव ! मायागुणप्रभावेण एवंविधाः संख्यासम्बद्धा वादप्रवादा भवन्त्येव , परन्तु ये जितेन्द्रिया महापुरुषाः सन्ति , येषां चित्तं प्रशान्तमस्ति , तेषां न काचिद्भेदबुद्धिर्जायते , न वा कश्चिद्विवादो जायते इति । (भा.पु.११.२२)
[[४९]]