भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यां केवलेनैकेनैव श्लोकेन मायायाः स्पष्टं लक्षणं निरवोचत् यत्
त्रिगुणात्मा तमः कृष्णशक्तिर्देहतदीययोः ॥
जीवस्य चाऽहंममताहेतुर्मायाऽवगम्यताम् ॥ (शिक्षा.१०६)
माया त्रिगुणात्मिका, तमोमयी चाऽस्ति । सा च भगवतः श्रीकृष्णस्य शक्तिरस्ति । जीवस्य देहे तदीयसम्बन्धिषु चेयमहम्ममत्वहेतुभूताऽस्ति । मायायां तावत् सत्त्वरजस्तमोगुणाः सन्तीत्यतः सा त्रिगुणात्मिकोद्यते । मायाया अज्ञानमयत्वात् सा तमोमय्यस्ति ।
उक्तञ्चाऽभियुक्तैर्यत् अस्या मायायाः शक्तिद्वयमस्ति । यथा आवरणशक्तिः, विक्षेपशक्तिश्चेति । इयं माया त्वज्ञानमय्याऽऽवरणशक्त्या जीवस्य मूलस्वरूपम् आच्छादयति तथा विक्षेपशक्त्या जीवस्य देहेऽहम्बुद्धिम्, देहसम्बन्धिषु तत्सम्बद्ध- पदार्थेषु च ममत्वबुद्धिमुत्पादयति । माया तावत्कामक्रोधलोभमोहाद्यनेकविकारजननी, जीवस्य कृते जन्ममरणहेतुभूता चाऽस्ति ।
जीवो नैकानि साधनानि करोतु कामम्, तथापि जीवः नैजेन पुरुषार्थबलेन मायामहासागरं तरितुम् अशक्त एव । केवलं परमात्माऽऽश्रयेणैव मायामहासमुद्रस्तरितुं शक्यः, अत एव भगवान् श्रीकृष्णः श्रीमद्भगवद्गीतायां ब्रवीति यत्
दैवी ह्येषा गुणमयी मम माया दुरत्यया ॥ मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ (भ.गी.७.१४)
हे अर्जुन ! ममेयं दैवी त्रिगुणात्मिका माया सुदुस्तराऽस्ति, परन्तु ये माम् आश्रयन्ते, त इमां मायां सुखेन तरन्ति । माया प्रकृतिरप्युच्यते । भगवान् श्री-स्वामि-नारायणो वचनामृतग्रन्थे प्रकृतिस्तु जडचिदात्मिका इत्यवोचत् । लूतातन्तुरिव प्रकृतिरियं कारणतया चैतन्यरूपाऽस्ति तथा कार्यतया जडरूपाऽस्ति । भगवान् श्री-स्वामि-नारायणो मायापदस्य दार्शनिकीं व्याख्यां तु व्यधादेव, तदतिरिच्य सर्वेषां सहजतयाऽऽशु यथाऽवबोधः स्यात्तथा सरलां सुबोधां प्राञ्जलां च मायाव्याख्यां व्यदधात् । वचनामृते श्री-स्वामि-नारायणमहाप्रभुर्निगदति यद्भगवतः
[[४७]]
श्रीकृष्णस्य ध्याने यत्किञ्चिदन्तरायकरं भवेत्, सा माया विज्ञेयेति ।
अस्यां व्याख्यायामस्ति महन्मर्म । भगवतो ध्याने क्रियमाणे सति यः पदार्थोऽन्तरायकरो भवति, स मायेत्युच्यते । अर्थान्न केवला मायिकपदार्थाः, अपि तु यद्यात्माऽप्यन्तरायं करोति, तर्ह्याऽऽत्माऽपि मायेत्युच्यते । तथैव यदि गुरुः प्रत्यूहञ्जनयति, तर्हि गुरुरपि माया कथ्यते ।