विराट्सूत्रात्माऽव्याकृताऽऽख्यदेहत्रयाभिमानी जीवात्मा ईश्वरः इति कथ्यते। तस्यैवाऽपरं नाम वैराजनारायणः इत्यस्ति । शास्त्रेषु क्वचित्स हिरण्यगर्भः इत्यपि कथ्यते ।
सत्सङ्गिजीवनग्रन्थे ईश्वरस्वरूपं निरूपयता ग्रन्थकृतोक्तं यत्
देहत्रये विराडादौ व्याप्योत्पत्तिस्थितिक्षयान् ॥
करोति जगतां यस्तु सर्वज्ञो ज्ञेय ईश्वरः ॥ (स.जी.१.५१.२९)
ईश्वरो विराडादिदेहत्रयमभिव्याप्य तिष्ठति, जगत उत्पत्तिस्थितिप्रलयान् च करोति । तथा च स सर्वज्ञ इति कथ्यते ।
ईश्वरस्य विराट्सूत्रात्माऽव्याकृताऽऽख्याः त्रयो देहास्सन्ति । चतुर्दशलोकोपेतम्
[[४५]]
अनन्तब्रह्माण्डमिदमीश्वरस्य विराडाख्यो देहोऽस्ति । अस्य विराडाख्यदेहस्य कारणतया चतुर्विंशतितत्त्वानि वैराजपुरुषस्य सूत्रात्मदेहः कथ्यते । तस्य तृतीयोऽव्याकृताऽऽख्यदेहो वर्तते । यथा वटस्य बीजे वटवृक्षः समाहितो भवति तथैव सूत्रात्मविराड्देहावतिसूक्ष्मतयेश्वरस्याऽव्याकृतदेहे समाविष्टौ स्तः ।
ईश्वरस्योत्पत्तिस्थितिलयाख्यास्तिस्रोऽवस्थाः सन्ति । वैराजपुरुषस्य देहत्रयं तथा तदीयाऽवस्थात्रयस्य अधिष्ठातारस्त्रयः सगुणा ईश्वराः सन्ति, ये च सगुणब्रह्म इति नाम्ना कथ्यन्ते ।
वैराजपुरुषस्य प्रलयाऽवस्थायास्तथा चाऽव्याकृतशरीरस्याऽधिष्ठाता सङ्कर्षणः इति निगद्यते । वैराजपुरुषस्य स्थित्याख्याऽवस्थायास्तथा सूत्रात्मशरीरस्याऽधिष्ठाता प्रद्युम्नः इत्युद्यते । तस्यैव वैराजपुरुषस्य उत्पत्त्याख्याऽवस्थायास्तथा विराट्शरीरस्य अधिष्ठाता अनिरुद्धः इति कथ्यते ।
भागवतपुराणस्य तृतीयस्कन्धस्य षड्विंशेऽध्याये सङ्कर्षणाऽनिरुद्धप्रद्युम्नानां वैराजनारायणेन साकं सम्बन्धः सुचारुरूपेण वर्णितः ।
वैराजनारायणस्तु सर्वज्ञः कथितः, परन्तु तदीयसर्वज्ञत्वमेकब्रह्माण्डपरिमितम् अस्ति । ब्रह्माण्डानि त्वनन्तानि सन्तीत्यतस्तत्स्रष्टारो नियामकाश्चेश्वरा अप्यनन्ताः सन्ति । पुरुषसूक्ते ततो विराडजायत इत्यादिमन्त्रेषु वैराजनारायणस्य उत्पत्तिमहिमानौ स्पष्टतयोपवर्णितौ ।
श्रीमद्भागवतस्य द्वितीयस्कन्धे नारदब्रह्मणोः संवादे, तृतीयस्कन्धे विदुरमैत्रेययोः संवादे, अस्मिन्नेव तृतीयस्कन्धे भगवतः कपिलस्य मातुर्देवहूत्याश्च संवादे वैराजनारायणस्योद्भवो विस्तरेण कथितः । तृतीयस्कन्धस्य सप्तमाऽध्याये विदुरो मैत्रेयं ब्रवीति यत्
सृष्ट्वाऽग्रे महदादीनि सविकाराण्यनुक्रमात् ॥ तेभ्यो विराजमुद्धृत्य तमनुप्राविशद्विभुः ॥ यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ॥
यत्र विश्व इमे लोकाः सविकाशं समासते ॥ (भा.पु.३.७.२१,२२)
प्रभुरर्थात् सर्वकार्यकरणसमर्थः भगवान्नारायणः सृष्ट्यादौ क्रमशो महदादीनि तत्त्वानि तद्विकाराँश्च ससर्ज । तदनु तेभ्यस्तत्त्वेभ्यो वैराजपुरुषं सृष्टवान् । ततश्च भगवान् तं वैराजपुरुषमन्तर्यामिशक्त्या प्राविशत् ।
स वैराजपुरुषस्तु आदिपुरुषः इति कथ्यते । स सहस्रपात्, सहस्रोरुः,
[[४६]]
सहस्रबाहुश्चाऽस्ति । यस्मिँश्चेमे चतुर्दशलोकाः सविस्तारं संस्थितास्सन्ति । भगवता श्री-स्वामि-नारायणेन वचनामृतग्रन्थे नैकेषु तरङ्गेषु वैराजनारायणस्य वर्णनं कृतमस्ति ।