०३ जीवस्वरूपनिरूपणम्

भगवान् श्री-स्वामि-नारायणः शिक्षापत्र्यामेकेन लघुश्लोकेन मनोज्ञतया जीवलक्षणं प्रतिपादयति । यथा

हृत्स्थोऽणुसूक्ष्मश्चिद्रूपो ज्ञाता व्याप्याऽखिलां तनुम् ॥ ज्ञानशक्त्या स्थितो जीवो ज्ञेयोऽच्छेद्यादिलक्षणः ॥ (शिक्षा.१०५)

जीवस्तु हृदये स्थितः, अणुरिव सूक्ष्मः, चैतन्यरूपः, ज्ञाता, स्वधर्मभूत- ज्ञानशक्त्या सम्पूर्णं शरीरं व्याप्य स्थितश्चाऽस्ति । किञ्च अच्छेद्याऽभेद्यादि- लक्षणयुक्तः स ज्ञेयः ।

स्थूलसूक्ष्मकारणदेहत्रयाभिमान्यात्मा जीवः इत्युच्यते । तस्य जाग्रत्स्वप्न- सुषुप्त्याख्याः तिस्रोऽवस्थाः सन्ति । जीवोऽनादिरविनाशी चाऽस्ति । तदुक्तञ्च भगवता श्रीकृष्णेन श्रीमद्भगवद्गीतायाम्

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ॥ न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ॥

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ (भ.गी.२.२३,२४) जीवा अनन्ताः सन्ति । नैतत्सकलं जीवजातं स्वतन्त्रमपितु परमात्माऽधीनं

४४ वर्तते । श्री-स्वामि-नारायणदर्शनसारसङ्ग्रहः

इन्द्रादयः सुराः, मनुष्याः, पशुपक्षिणः, वृक्षाः, कीटपतङ्गादयश्च सर्वे जन्तवो जीवकोटौ परिगण्यन्ते । शुभाशुभकर्माऽऽधारेणाऽयं जीवसमुदाय उच्चनीचयोनिषु बम्भ्रमीति । जीवः कदाचिदिन्द्रो भवति, कदाचित्स एव जीवः पिपीलिकाकीट- मशकादियोनिषु जन्म गृह्णाति ।

शिक्षापत्र्यां जीवशब्दो न केवलं साधारणानां सांसारिकजीवानां कृते प्रयुक्तः, अपि तु आत्मतत्त्वाय प्रयुक्तः । तस्याऽऽत्मतत्त्वस्य त्रयोऽवान्तरभेदाः सन्ति । यथा जीवः, ईश्वरः, ब्रह्म चेति ।

भगवत्पादश्रीरामानुजाचार्यस्य शिष्यपरम्पराया विद्वत्तल्लजः श्रीनिवासाचार्यः स्वीययतीन्द्रमतदीपिकायां जीवस्य त्रीन् भेदान् न्यबोधयत् । ये च नाम्ना एवं सन्ति बद्धः, मुक्तः, नित्यश्चेति ।

श्रीनिवासाचार्यो बद्धजीवस्य चतुरो भेदानदर्शयत् । देवमनुष्यतिर्यक्स्थावरभेदेन। चतुर्मुखः, प्रजापतयः, दिक्पालाः, चतुर्दश मनवः, चतुर्दशेन्द्राश्चेत्येते जीवास्तु देवकोटावन्तर्भवन्ति । मनुष्ययोनिस्तु स्पष्टैवाऽस्ति । तिर्यक् शब्दस्याऽर्थो विहङ्गादिरिति भवति । स्थावरकोटौ वृक्षवल्ल्यादीनां समावेशो भवति ।

भगवत्कृपया प्राप्तमोक्षो जीवो मुक्तः इतीर्यते । कतिचन जीवा न कदाचिदपि बद्धा अभूवन् । तेऽनादिकालात् परब्रह्मणः पुरुषोत्तमस्य सेवायां निरताः सन्ति । इमे चाऽऽत्मानो नित्याः इतीर्यन्ते ।